07 अन्तरालापाः

कस्तूरी जायते कस्मात्को हन्ति करिणां कुलम्।
किं कुर्यात्कातरो युद्धे मृगात्सिंहः पलायनम्॥ 1 ॥

कः खे चरति का रम्या का जप्या किं विभूषणम्।
को वन्द्यः कीदृशी लङ्का वीरमर्कटकम्पिता॥ 2 ॥

सीमन्तिनीषु का शान्ता राजा कोऽभूद्गुणोत्तमः।
विद्वद्भिः का सदा वन्द्या अत्रैवोक्तं न बुध्यते॥ 3 ॥

युधिष्ठिरः कस्य पुत्रो गङ्गा वहति कीदृशी।
हंसस्य शोभा का वास्ति धर्मस्य त्वरिता गतिः॥ 4 ॥

भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्॥ 5 ॥

पृथ्वीसंबोधनं कीदृक्कविना परिकीर्तितम्।
केनेदं मोहितं विश्वं प्रायः केनाप्यते यशः॥ 6 ॥

कः कुर्याद्भुवनं सर्वं कः समुन्मूलयेद्द्रुमान्।
किं प्रतीके भवेन्मुख्यं कः परत्रैति पुण्यताम्॥ 7 ॥

भवत इवास्तिस्वच्छं कस्याभ्यन्तरमगाधमतिशिशिरम्।
काव्यामृतरसमग्नस्त्वमिव सदा कः कथय सरसः॥ 8 ॥

वीरे सरुषि रिपूणां नियतं का हृदयशायिनी भवति।
नभसि प्रस्थितजलदे का राजति हन्त वद तारा॥ 9 ॥

भ्रमरहितः कीदृक्षो भवतितरां विकसितः पद्मः।
ज्यौतिषिकः कीदृक्षः प्रायो भुवि पूज्यते लोकैः॥ 10 ॥

प्रभवः को गङ्गाया नगपतिरतिसुभगशृङ्गधरः।
के सेव्यन्ते सेवकसार्थैरत्यर्थमर्थरतैः॥ 11 ॥

अयमुदितो हिमरश्मिर्वनितावदनस्य कीदृशः सदृशः।
नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य॥ 12 ॥

गैरिकमनः शिलादिः प्रायेणोत्पद्यते कुतो नगतः।
यः खलु न चलति पुरुषः स्थानादुक्तः स कीदृक्षः॥ 13 ॥

कस्य 1मरौ दुरधिगमः कमले कः कथय विरचितावासः।
कैस्तुष्यति चामुण्डा रिपवस्ते वद कुतो भ्रष्टाः॥ 14 ॥

कं सञ्जघान कृष्णः का शीतलवाहिनी गङ्गा।
के दारपोषणरताः कं बलवन्तं न बाधते शीतम्॥ 15 ॥

कः कौ के कं कौ कान् हसति च हसतो हसन्ति हरिणाक्ष्याः।
अधरः पल्लवमङ्घ्री हंसौ कुन्दस्य कोरकान्दन्ताः॥ 16 ॥

का शम्भुकान्ता किमु चन्द्रकान्तं कान्तामुखं किं कुरुते भुजङ्गः।
कः श्रीपतिः का विषमा समस्या गौरीमुखं चुम्बति वासुदेवः॥ 17 ॥

का लोकमाता किमु देहमुख्यं रतेः किमादौ कुरुते मनुष्यः।
को दैत्यहन्ता वद वै क्रमेण गौरीमुखं चुम्बति वासुदेवः॥ 18 ॥

का शैलपुत्री किमु नेत्ररम्यं शुकार्भकः किं कुरुते फलानि।
मोक्षस्य दाता स्मरणेन को वा गौरीमुखं चुम्बति वासुदेवः॥ 19 ॥

के भूषयन्ति स्तनमण्डलानि कीदृश्युमा चन्द्रमसः कुतः श्रीः।
किमाह सीता दशकण्ठनीता हारामहादेवरतातमातः॥ 20 ॥

रवेः कवेः किं समरस्य सारं कृषेर्भयं किं किमुशन्ति भृङ्गाः।
खलाद्भयं विष्णुपदं च केषां भागीरथीतीरसमाश्रितानाम्॥ 21 ॥

व्रजन्ति पद्मानि कदा विकासं प्रिया गते भर्तरि किं करोति।
रात्रौ च नित्यं विरहाकुला का सूर्योदये रोदिति चक्रवाकी॥ 22 ॥

सन्तश्च लुब्धाश्च महर्षिसङ्घा विप्राः कृषिस्थाः खलु माननीयाः।
किं किं समिच्छन्ति तथैव सर्वे नेच्छन्ति किं माधवदाघयानम्॥ 23 ॥

का पाण्डुपत्नी गृहभूषणं किं को रामशत्रुः किमगस्त्यजन्म।
कः सूर्यपुत्रो विपरीतपृच्छा कुन्तीसुतो रावणकुम्भकर्णाः॥ 24 ॥

करोति शोभामलके स्त्रियाः को दृश्या न कान्ता विधिना च कोक्ता।
अङ्गे तु कस्मिन्दहनः पुरारेः सिन्दूरबिन्दुर्विधवाललाटे॥ 25 ॥

किं भूषणं सुन्दरसुन्दरीणां किं दूषणं पान्थजनस्य नित्यम्।
कस्मिन्विधात्रा लिखितं जनानां सिन्दूरबिन्दुर्विधवाललाटे॥ 26 ॥

कीदृक्षा गिरिशतनुर्जये च धातुर्विष्णौ का विबुधजरातमस्तृतीया।
मध्यार्णे सति कथमात्मकोऽस्ति देशः सोमाज्यं सकलकला जसातसाहा॥ 27 ॥

विवाहे पुरन्ध्रीजनैर्लिप्यते का न के मानमायान्ति गर्वोन्नता का।
घने वारिधौ रामतः कम्पते का हरिद्रा दरिद्राः सरिद्रावणश्रीः॥ 28 ॥

कस्मिन्वसन्ति वद मीनगणा विकल्पं किं वापदं वदति किं कुरुते विवस्वान्।
विद्युल्लतावलयवान्पथिकाङ्गनानामुद्वेजको भवति कः खलु वारिवाहः॥ 29 ॥

शब्दः प्रभूगत इति प्रचुराभिधायी कीदृग्भवेद्वदत शब्दविदो विचिन्त्य।
कीदृग्बृहस्पतिमते विहिताभियोगः प्रायः पुमान्भवति नास्तिकवर्गमध्यः॥ 30 ॥

कः प्रार्थ्यते मदनविह्वलया युवत्या भाति क्व पुण्ड्रकमुपैति कथं बतायुः।
क्वानादरो भवति केन च रज्यतेऽब्जं बाह्यास्ति किं फलमुदाहर नालिकेरम्॥ 31 ॥

क्व वसति लघु जन्तुः किं निदानं हि वान्तेर्झटिति वद पशुं कं लम्बकण्ठं वदन्ति।
प्रसवसमयदुःखं वेत्ति का कामिनीनां तिलतुषपुटकोणे मक्षिकोष्ट्रं प्रसूता॥ 32 ॥

को निर्दग्धस्त्रिपुररिपुणा कश्च कर्णस्य हन्ता नद्याः कूलं विघटयति कः कः परस्त्रीरतश्च।
कः सन्नद्धो भवति समरे भूषणं किं कुचानां किं दुःसङ्गाद्भवति महतां मानपूजापहारः॥ 33 ॥

कः कान्तारमगात्पितुर्वचनतः संश्लिष्य कण्ठस्थलीं कामी किं कुरुते च गृध्रहटतश्छिन्नं प्ररूढं च किम्।
का रक्षःकुलकालरात्रिरभवच्चन्द्रातपं द्वेष्टि को रामश्चुम्बति रावणस्य वदनं सीतावियोगातुरः॥ 34 ॥

कीदृङ्मत्तमतंगजः कमभिनत्पादेन नन्दात्मजः शब्दं कुत्र हि जायते युवतयः कस्मिन्सति व्याकुलाः।
विक्रेतुं दधि गोकुलात्प्रचलिता कृष्णेन मार्गे धृता गोपी काचन तं किमाह करुणं दानी अनोखे भये॥ 35 ॥

+++(क्रमालङ्कारः)+++
किं कुर्वन्त्य् उषसि द्विजाः प्रतिदिनं? के माननीयाः प्रभोः?
का वा साहसिकी निशासु सततं? द्यौः कीदृशी वर्तते।
कुत्रास्ते मधु नालिकेरज-फले? कैः स्यात् पिपासाशमः?
सन्ध्यावन्दनम् आचरन्ति, विबुधा, नारी–भ-गा–ऽन्तर्–जलैः॥ 36 ॥+++(5)+++

लंकाभूपनिशाचरो रघुपतिं युद्धे कथं दृष्टवान्दीनं पाति पितेव यः पशुपतिः कस्तस्य वाहः प्रियः।
केनापूर्वफलं नरैः सुकृतिभिः कस्मिन्स्थले भुज्यते जारा ये भुवि तान्प्रशास्ति कतमो ह्येषामिहैवोत्तरम्॥ 37 ॥

1कुत्रोदेत्युदयाचलस्य 2तरणी रम्या यतिः कस्य खे कान्त्या भान्ति च किं करोति गणको यष्टिं विधृत्यैति कः।
कस्मिञ्जाग्रति जन्तवो न च कदा सूते च का कः प्रियः शृङ्गाग्रे तुरगस्य भानि गणयत्यन्धोऽह्नि वन्ध्यासुतः॥ 38 ॥

अन्यस्त्रीस्पृहयालवो जगति के पद्भ्यामगम्या च का को धातुर्दशने समस्तमनुजैः का प्रार्थ्यतेऽहर्निशम्।
दृष्ट्वैकां यवनेश्वरो निजपुरे पद्माननां कामिनीं मित्त्रं प्राह किमादरेण सहसा यारानदी दंशमा॥ 39 ॥

कस्मिञ्शेते मुरारिः क्व न खलु वसतिर्वायसी को निषेधः स्त्रीणां रागस्तु कस्मिन्क्व नु खलु सितिमा3 शौरिसम्बोधनं किम्।
सम्बुद्धिः का हिमांशोर्विधिहरवयसां चापि सम्बुद्धयः का ब्रूते लुब्धः कथं वा कुरुकुलहननं केन तत्केशवेन॥ 40 ॥

गच्छन्ति 4क्वाजिवह्नौ 5हुतनिजतनवः का भिनत्ति स्वकूलं किं स्याद्योज्यं विकल्पे 6क्रकचनिभनखैः किं नृसिंहेन भिन्नम्।
कीदृग्दित्याः प्रसूति किमनलशमनं का नृपैः पालनीया को वन्द्यः कः प्रमार्ष्टि त्रिभुवनकलुषं स्वर्धुनीवारिपूरः॥ 41 ॥

पुंसः सम्बोधनं किं विदधति करिणां के 1रुचोऽग्नेर्द्विषत्किं का शून्याते रिपूणां नरवर नरकं कोऽवधीद्रोचकं2 किम्।
के वा वर्षासु न स्युर्बिसमिव हरिणा किं नखाग्रैर्विभिन्नं को वा मार्गं विसर्पन्विघटयति तरून्नर्मदावारिपूरः॥ 42 ॥

किं तृष्णाकारि कीदृग्रथचरणमहो 3रौति कः काब्धिकाञ्चिः कोऽपस्मारी भुजङ्गे किमु कलिशमनं त्वार्यसम्बोधनं किम्।
का सुन्दर्यामपीन्दुः कथमचलभृतः काच सम्बुद्धिरग्नेर्बीजं किं 4कावनीजारमणमतिहरा हेमसारङ्गलीला॥ 43 ॥

ताराविष्णूरणाविट्खगहृदयरमास्कन्दसम्बुद्धयः क्व क्व स्याद्धातुत्रयं लुग्विकरणपठितं कुत्र तत्त्वावबोधः।
चत्वारस्तद्धिताः स्युः क्व नु खलु विगतैकैकवर्णस्वरूपाः किं सूत्रं पाणिनीयं विकसति न सहस्रोक्तिभिर्भास्वरेऽपि॥ 44 ॥


  1. कस्तूरी कस्मात् जायते—मृगात्. करिणां कुलं को हन्ति–सिंहः. कातरो युद्धे किं कुर्यात्—पलायनम् इति योजना. ↩︎ ↩︎ ↩︎

  2. खे कः चरति–विः पक्षी. रम्या—रमा. जप्या—ऋक्. विभूषणम्—कटकम्. वन्द्यः—पिता. लङ्का–वीरमर्कटैर्हनूमदादिभिः कम्पिता नाशितेत्यर्थः. ↩︎ ↩︎

  3. चरणाद्यन्ताक्षरयोर्मेलनेनोत्तरम्. यथा सीता. रामः. विद्या. ↩︎ ↩︎

  4. चतुर्थपादस्थपदत्रयेण प्रश्नत्रयस्योत्तरम्. ↩︎ ↩︎

  5. चतुर्थपादस्थपदत्रयेण प्रश्नत्रयस्योत्तरम्. ↩︎

  6. ‘कविना.’ हे को हे पृथ्वि. इना कामेन. कविना काव्यकर्त्रा. ↩︎