सदागतिहयोच्छ्रायस्तमसो वश्यतां गतः।
अस्तमेष्यति दीपोऽयं विधुरेकः शिवे स्थितः॥ 13 ॥
पूर्णचन्द्रमुखी रम्या कामिनी निर्मलाम्बरा।
तनोति कस्य न स्वान्तमेकान्तमदनातुरम्॥ 14 ॥
कूजन्ति कोकिलाः साले यौवने फुल्लमम्बुजम्।
किं करोतु कुरङ्गाक्षी वदनेन निपीडिता॥ 15 ॥