०५ स्थानच्युतकम्

तनोतु ते यस्य फणी गरुत्मान्पाणौ मुरारिर्दयिता च शय्या।
नाभौ स्फुरन्भद्रमशुभ्रदेहः पद्मा गतिश्चक्रमसौ विधाता॥ 9 ॥

हरः क्षयी तापकरः सुदेशः शान्तो हरिर्गोत्ररिपुर्विवस्वान्।
चन्द्रो द्विजिह्वाश्रित इत्युपेक्ष्य लक्ष्म्या वृतः पातु विधिर्जगन्ति॥ 10 ॥