०२ बिन्दुच्युतकम्

सुश्यामा चन्दनवती कान्ता तिलकभूषिता।
कस्यैषानङ्गभूः प्रीतिं भुजङ्गस्य करोति न॥ 3 ॥

यथा सत्प्रसवः स्निग्धः सन्मार्गविहितस्थितिः।
तथा सर्वाश्रयः सत्यमयं मे वकुलद्रुमः॥ 4 ॥