महाशयमतिस्वच्छं नीरं सन्तापशान्तये। खलवासादतिश्रान्ताः समाश्रयत हे जनाः॥ 1 ॥ तुषारधवलः स्फूर्जन्महामणिधरोऽनघः। नागराजो जयत्येकः पृथिवीधरणक्षमः॥ 2 ॥