१४ लिङ्गगुप्तम्

नितान्तस्वच्छहृदयं सखि प्रेयान्समागतः।
त्वां चिराद्दर्शनप्रीत्या यः समालिङ्ग्य रम्स्यते॥ 50 ॥

कलिकालमियं यावदगस्त्यस्य मुनेरपि।
मानसं खण्डयत्यत्र शशिखण्डानुकारिणी॥ 51 ॥