या कटाक्षच्छटापातैः पवित्रयति मानवम्। एकान्ते रोपितप्रीतिरस्ति सा कमलालया॥ 38 ॥ विपद्यमानता सिद्धा सर्वस्यैव निरूष्मणः। यथात्र भस्म पद्भ्यां च निर्वाणं हन्त्ययं जनः॥ 39 ॥