तूणेव मधुमासेऽस्मिन्सहकारद्रुमञ्जरी।
इयमुन्निद्रमुकुलैर्भाति न्यस्तशिलीमुखा॥ 35 ॥
भानुर्वौ जायते लक्ष्म्या सरस्वत्याथवा मता।
अत्र षष्ठीपदं गुप्तं मर्यादा दशवार्षिकी॥ 36 ॥
प्राप्तदो मधुमासः प्रबला रुक्प्रियतमोऽपि दूरस्तः।
असती सन्निहितेयं संहृतशीला सखी नियतम्॥ 37 ॥