०३ कर्मगुप्तम्

शीकरासारसम्वाहिसरोजवनमारुतः।
प्रक्षोभयति पान्थस्त्रीनिःश्वासैरिव मांसलः॥ 26 ॥

सुभग तवाननपङ्कजदर्शनसञ्जातनिर्भरप्रीतेः।
शमयति कुर्वन्दिवसः पुण्यवतः कस्य रमणीयः॥ 27 ॥

एहि हे रमणि पश्य कौतुकं धूलिधूसरतनुं दिगम्बरम्।
सापि तद्वदनपङ्कजं पपौ भ्रातरुक्तमपि किं न बुध्यते॥ 28 ॥