गौरीनखरसादृश्यश्रद्धया शशिनं दधौ।
इहैव गोप्यते कर्ता वर्षेणापि न लभ्यते॥ 18 ॥
अन्नवस्त्रसुवर्णानि रत्नानि विविधानि च।
ब्राह्मणेभ्यो नदीतीरे ददाति व्रज सत्वरम्॥ 19 ॥
राक्षसेभ्यः सुतां हृत्वा जनकस्य पुरीं ययौ।
अत्र कर्तृपदं गुप्तं मर्यादा दशवार्षिकी॥ 20 ॥
श्यामौ तव स्तनावेतौ पिबन्ति सततं मुदा।
अत्र कर्तृपदं गुप्तं मर्यादा दशवार्षिकी॥ 21 ॥
व्ययवासाः पञ्चशिरा यरिर्वीनारिभूषणः।
असिरोमा क्रियादुर्वः शङ्कलायनवीक्षणः॥ 22 ॥
व्यामोहं तव भिन्दुन्तु छिन्दन्तु दुरितानि च।
कर्तृगुप्तमिमं श्लोकं य जानन्ति विचक्षणाः॥ 23 ॥
न करोति नाम रोषं न वदति परुषं न हन्त्ययं शत्रून्।
रञ्जयति महीमखिलां तथापि धीरस्य वीरस्य॥ 24 ॥
शरदिन्दुकुन्दधवलं नगपतिनिलयं मनोहरं देवम्।
यैः सुकृतं कृतमनिशं तेषामेव प्रसादयति॥ 25 ॥