०१ क्रियागुप्तम्

आगतः पाण्डवाः सर्वे दुर्योधनसमीहया।
तस्मै गां च सुवर्णं च रत्नानि विविधानि च॥ 1 ॥

निरुद्यमानवद्याङ्गयाचकान्दुःखसञ्चयान्।
अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः॥ 2 ॥

प्रातः प्रातः समुत्थाय द्वौ मुनी च कमण्डलू।
अत्र क्रियापदं वक्तुमवधिर्ब्रह्मणो वयः॥ 3 ॥

ललाटतिलकोपेतः कृष्णः कमललोचनः।
गोकुलेऽत्र क्रियां वक्तुं मर्यादा दशवार्षिकी॥ 4 ॥

पम्पासरसि रामेण सस्नेहं सविलासया।
सीतया किं कृतं सार्धमत्रैवोत्तरमीक्ष्यताम्॥ 5 ॥

राजन्नवघनश्याम निस्त्रिंशाकर्ष दुर्जय।
आकल्पं वसुधामेतां विद्विषोद्य रणे बहून्॥ 6 ॥

कान्तया कान्तसंयोगे किमकारि नवोढया।
अत्रापि चोत्तरं वक्तुमवधिर्ब्रह्मणो वयः॥ 7 ॥

दामोदराय पुण्यात्मन्पुष्पमूलफलान्यपि।
अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः॥ 8 ॥

विराटनगरे राजन्कीचकादुपकीचकम्।
अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः॥ 9 ॥

कान्तं विना नदीतीरं मदमालोक्य केकिनी।
अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः॥ 10 ॥

अम्लानपङ्कजा माला कण्ठे रामस्य सीतया।
मुधा बुधा भ्रमन्त्यत्र प्रत्यक्षेऽपि क्रियापदे॥ 11 ॥

नारसिंहाकृतिं वीक्ष्य वने मत्तमतंगजः।
अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः॥ 12 ॥

सन्ध्यावन्दनवेलायां तडागान्ते द्विजोत्तमैः।
अत्र क्रियापदं गुप्तं यो जानाति स पण्डितः॥ 13 ॥

पुंस्कोकिलकुलस्यैते नितान्तमधुरारवैः।
सहकारद्रुमा रम्या वसन्ते कामपि श्रियम्॥ 14 ॥

बिम्बाकारं सुधाधारं कान्तावदनपङ्कजम्।
अत्र क्रियापदं गुप्तं मर्यादा दशवार्षिकी॥ 15 ॥

राघवस्य शरैर्घोरैर्घोररावणमाहवे।
अत्र क्रियापदं गुप्तं मर्यादा दशवार्षिकी॥ 16 ॥

पामारागाभिभूतस्य श्लेष्मव्याधिनिपीडित।
यदि ते जीवितस्येच्छा तदा भोः शीतलं जलम्॥ 17 ॥