04 कूटानि

1केशवं2 पतितं दृष्ट्वा 3द्रोणो हर्षमुपागतः।
रुदन्ति कौरवाः4 सर्वे हा केशव कथं गतः॥ 1 ॥

पानीयं पातुमिच्छामि त्वत्तः कमललोचने।
5यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम्॥ 2 ॥

6विषं भुङ्क्ष्व महाराज स्वजनैः परिवारितः।
विना 7केन विना 8नाभ्यां 9कृष्णाजिनम10कण्टकम्॥ 3 ॥

अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः।
सीदन्ति मम गात्राणि माघमा सेगवा इव।11॥ 4 ॥

यस्य षष्ठी चतुर्थी च विहस्य च विहाय च।
अहं कथं द्वितीया स्याद्द्वितीया12 स्यामहं कथम्॥ 5 ॥

समरे हेमरेखाङ्कं बाणं मुञ्चति राघवे।
सरावणोऽपि मुमुचे मध्येरीतिधरं शरम्13॥ 6 ॥

14शिलार्पितपदद्वन्द्वा 15नासार्पितकरद्वया।
अभूद्व्यक्तस्तनी नारी कथमेतद्भविष्यति॥ 7 ॥

16सुवर्णस्य सुव17र्णस्य 18सुवर्णस्य च जानकि।
प्रेषिता तव रामेण 19सुवर्णस्य च मुद्रिका॥ 8 ॥

निश्चितं 20ससुरः कोऽपि न कुलीनः21 समे22 मतिः।
सर्वथा 23सुरसम्बद्धं 24काव्यं यो नाभिनन्दति॥ 9 ॥

येनाकारि 25पराभूतिर्दिन26नायकसूनवे।
यद्गोत्रा27त्मभवाकान्तं तन्महः28 श्रेयसेऽस्तु वः॥ 10 ॥

विजितात्मभवद्वेषिगुरु1पादहतो जनः।
हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति॥ 11 ॥

2शङ्करं पतितं दृष्ट्वा पार्वती हर्षनिर्भरा।3
रुरुदुः पन्नगाः सर्वे हा हा शङ्कर शङ्कर॥ 12 ॥

हनूमति 4हतारामे वानरा हर्षनिर्भराः।
रुदन्ति राक्षसाः सर्वे हाहाराम हताः हताः॥ 13 ॥

विरा5जराजपुत्रारेर्यन्नाम चतुरक्षरम्।
पूर्वार्धं तव शत्रूणां परार्धं तव सङ्गरे॥ 14 ॥

6अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः।
प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे॥ 15 ॥

कुन्दकुञ्जममुं पश्य सरसीरुहलोचने।
7अमुना कुन्दकुञ्जेन सखि मे किं प्रयोजनम्॥ 16 ॥

राजन्कमलपत्त्राक्ष तत्ते भवतु चाक्षयम्।
आसादयति यद्रूपं 8करेणुः करणैर्विना॥ 17 ॥

9स्तनमण्डलमाश्रित्य नखस्य वरयोषिताम्।
कदाकर्णयते गीतं रमया सह रङ्गराट्॥ 18 ॥

10एकोना विंशतिः स्त्रीणां स्नानार्थं सरयूं गता।
विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः॥ 19 ॥

11त्रैलोक्ये नोपमैतस्याः सखे किमिति भाषसे।
अनन्तरा सा नादिर्वा न तृतीयेति मे मतिः॥ 20 ॥

12सुवर्णालङ्कृता कन्या हेमालङ्कारवर्जिता।
13 सा कन्या विधवा14 जाता गृहे रोदिति तत्पतिः॥ 21 ॥

अहं च त्वं च राजेन्द्र लोक1नाथावुभावपि।
बहुव्रीहिरहं राजन्षष्ठीतत्पुरुषो भवान्॥ 22 ॥

ब्रह्म 3नान्तमपि क्लीबं मनः 4सान्तं न पश्यति।
किं चित्रं लोकजनकं वाक्कान्ता5 नैत्यकान्तकम्6॥ 24 ॥

7अर्धरात्रे दिनस्यार्धे अर्धचन्द्रोऽर्धभास्करे।
रावणेन हृता सीता कृष्णपक्षे सिताष्टमी॥ 25 ॥

8शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः।
रिपुगर्भस्य यो भर्ता स मे विष्णुः प्रसीदतु॥ 26 ॥

9कहमस्मि गुहावक्ति प्रश्नेऽमुष्मिन्किमुत्तरम्।
कथमुक्तं न जानासि कदर्थयसि यत्सखि॥ 27 ॥

विहंगा10 वाहनं येषां त्रिकंच11धरपाणयः।
12पासालसहिता देवाः सदा तिष्ठन्तु ते गृहे॥ 28 ॥

शस्त्रं 13न खलु कर्तव्यमिति पित्रा नियोजितः।
तदेव शस्त्रं कृतवान्पितुराज्ञा न लड्घिता॥ 29 ॥

कान्ते धावय मे पादाविति भर्त्रा निवेदिता।
14न तया धावितौ पादौ भर्तुराज्ञा न लङ्घिता॥ 30 ॥

देवराजो15 मया दृष्टो वारिवा16रणमस्तके।
भक्षयित्वार्कपर्णानि विषं17 पीत्वा 18क्षयं गतः॥ 31 ॥

19कुमारसम्भवं दृष्ट्वा रघुवंशे मनोऽदधत्।
राक्षसानां कुलश्रेष्ठो रामो राजीवलोचनः॥ 32 ॥

विनायौवनमागर्णे1 गच्छन्तौ लपितं मया।
हरेः कृत्यं दर्शयतां पश्येत्युक्ते न दृश्यते॥ 33 ॥

2विनायकपतेः शत्रुस्तस्य 3नाम षडक्षरम्।
4पूर्वार्धं तव राजेन्द्र 5उत्तरार्धं तु वैरिणाम्॥ 34 ॥

को6लाकृतिरपारेवो मोरोहंसो जलोदरी।
कंसारिरात्तलीलो वा वाघलो भूकलोऽवतु॥ 35 ॥

7रामरामेऽतिरामेऽतिरमे रामे मनोरमे।
सहस्रनामतत्तुल्यं रामनाम वरानेन॥ 36 ॥

8यथा नयति कैलासं नगं गानसरस्वती।
तथा नयति कैलासं न गङ्गा न सरस्वती॥ 37 ॥

9मोमारामममादंद्वे हयागदलनंभषः।
यस्यैतानि न विद्यन्ते स याति परमां गतिम्॥ 38 ॥

तातेन कथितं पुत्र लेखं लिख ममाज्ञया।
10न तेन लिखितो लेखः पितुराज्ञा न लोपिता॥ 39 ॥

11वासनावासुदेवस्य वासितं भुवनत्रयम्।
सर्वभूतनिवासीनां वासुदेव नमोऽस्तु ते॥ 40 ॥

1अत्रिलोचनसम्भूतज्योतिरुद्गमभासिभिः।
सदृशं शोभतेऽत्यर्थं भूपाल तव चेष्टितम्॥ 41 ॥

मुद्गदाली धृतव्याली कवीन्द्र वितुषा कथम्।
भक्तवल्लभसंयोगाज्जाता विगतकञ्चुकी॥ 42 ॥

2प्राभ्रभ्राड्वि3ष्मुधामाप्य 4विषमाश्वः करोत्ययम्।
निद्रां5 सह6स्रपर्णानां पलायनपरायणाम्॥ 43 ॥

7कति ते कबरीभारः 8सुमनःसङ्गात्प्रियेऽति9 नीलत्वात्।
10भवति च 11कलापवत्त्वान्निर्जरसेव्यः12 कथं न स्यात्॥ 44 ॥

यामि विधा13वभ्युदिते पुनरेष्यामीति यदुदितं भवता।
जाना14त्युदन्तमेतं नेदं 15तत्त्वेन मुग्धवधूः॥ 45 ॥

16अधुना 17मधुकरपतिना गिलितोऽप्य18पकारदम्पती येन।
त्रातः स पालयेत्त्वां विगत1विकारो विनायको लक्ष्म्याः॥ 46 ॥

2उपरिगतं हि सवर्णं हृत्वा करतो ददासि रन्तुं मे।
धन्यः सरोजयुगलं त्यक्त्वा स्तनयुगमथास्पृशत्कृष्णः॥ 47 ॥

3अच्युतभक्तिवशादिह समभावस्तत्प्रसङ्गेन।
सारमतेरभ्युदयति रतिरिति नैवाद्भुतं किञ्चित्॥ 48 ॥

4मञ्जुलघौ सम्भावितगुणे क्वचिन्नापदाधारे।
अयि सखि तत्रोपपतौ मम चेतो न त्वनीदृशे पत्यौ॥ 49 ॥

5अयि सखि शस्तः सखिवत्पतिरिति किं त्वं न जानासि।
शस्तोऽतिसखिवदुपपत्तिरित्यालि कथं त्वयापि नाबोधि॥ 50 ॥

6द्वन्द्वो 7द्विगुरपि चाहं मद्गेहे नित्यमव्ययीभावः1
2तत्पुरुष कर्मधारय येनाहं स्यां बहुव्रीहिः॥ 51 ॥

3त्वद्विरहमसहमाना निन्दति बाला दिवानिशं शम्भुम्।
राहुमपि रामचन्द्रं रामानुजमपि च पन्नगारातिम्॥ 52 ॥

स जयति चित्रचरित्रो यस्य हि 4वरचरणपुष्करकरेणुः।
5महिषीमृषिसिंहस्य प्राजीजनदपि 6वृषोदये 7हेतुः॥ 53 ॥

रविसुतकृतगोकर्णः श्रुतिविषयगुणाम्बरो वनात्मधरः।
नरकशिरा जगदखिलं चिरमव्याद8समरुक्पाणिः॥ 54 ॥

9सायकसहायबाहो 10मकरध्वजनियमितक्षमाधिपेत।
11अब्जरुचिभास्वरस्ते भातितरामवनिप 12श्लोकः॥ 55 ॥

13वाताच्छीतिररिध्रोऽहं वो हरतान्महासुरीदयितः।
व्रीडव्राज्यानौका वार्वाहाभोऽसमस्तानाः॥ 56 ॥

लम्बोदर तव चरणावादरतो यो न पूजयति।
स भवति विश्वामित्रो14 दुर्वासा15 गोतमश्चेति16॥ 57 ॥

17अम्बरमम्बुनि पत्त्रमरातिः पीतमहीनगणस्य ददाह।
यस्य वधूस्तनयं गृहमब्जा पातु स वो हरलोचनवह्निः॥ 58 ॥

18वायुमित्रसुतबन्धुवाहनारातिभूषणशिरोवलम्बिनी।
तज्जवैरिभगिनीपतेः सखा पातु मां कमललोचनो हरिः॥ 59 ॥

1अतनुज्वरपीडितासि बाले तव सौख्याय मतो ममोपवासः2
3रसमर्पय वैद्यनाथ नाहं भवदावेदितलङ्घने4 समर्था॥ 60 ॥

5अकुबेरपुरीविलोकनं न 6धरासूनुकरं कदाचन।
अथ तत्प्रतिकारहेतवेऽद7मयन्तीपतिलोचनं भज॥ 61 ॥

8रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिग्धिक्।
अस्मिन्पद्ये योऽपशब्दान्न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धिग्धिक्॥ 62 ॥

गोग9जवाहनभोजनभक्ष्योद्भूतपमित्त्रसपत्नजशत्रोः।
वाहनवैरिकृतासनतुष्टा मामिह पातु जगत्त्रयजुष्टा॥ 63 ॥

10नदीज लङ्केशवनारिकेतुर्नगाह्वयो नाम नगारिसूनुः।
एषोऽङ्गनावेषधरः प्रमाथी जित्वाव यं नेष्यति चाद्य गावः॥ 64 ॥

गो11कर्णराडाभरणं यदीयं यद्गव्यहव्यादजमाददाह।
कुंभेनचूडामणिरादिगन्तात्पायादपायादुरगात्मजार्धः॥ 65 ॥

विलासिनीं काञ्चनपट्टिकायां 12पाटीरपङ्कैर्विरही विलिख्य।
तस्याः 13कपोले व्यलिखत्पवर्गं1 तव2र्गमोष्ठे चरणे 3टवर्गम्॥ 66 ॥

4काचिद्वियोगानलतप्तगात्री प्राणान्समाधारयितुं लिलेख।
बाह्वोर्भुजङ्गं हृदि राहुबिम्बं नाभौ च कर्पूरमयं महेशम्॥ 67 ॥

नेतः प्रयाणोन्मुखतां समीक्ष्य 5नक्षत्रमुक्तावलिमस्य कण्ठे।
अधारयत्सा स तु वासराणां संख्यापरोऽभूत्सखि कोऽत्र भावः॥ 68 ॥

गौरीक्षणं6 भूधरजाहिनाथः पत्त्रं तृतीयं दयितोपवीतम्।
यस्याम्बरं द्वादशलोचनाख्यः काष्ठा सुतः पातु सदाशिवो वः॥ 69 ॥

7पुष्पेषु माता पुरुषायमाणा लज्जावती विश्वसृजं विलोक्य।
नाभीसरोजे नयनं मुरारेर्वामेतरं वारयति स्म चित्रम्॥ 70 ॥

8मृगत्रयं भाति वपुष्यवेशे फलानि चत्वारि सुमानि पञ्च।
कपोलषट्कं प्रमदालतायाः पृच्छन्ति मध्यं विदुषः कवीन्द्राः॥ 71 ॥

इन्दीवराक्ष्याः स्फुटविद्रुमोष्ठ्याः सङ्केतमुद्दिश्य वने चरन्त्याः।
चोरैः समस्ताभरणानि हृत्वा 9नासामणिर्नोऽपहृतः किमेतत्॥ 72 ॥

10 नृसिंहदेवे चलिते भरेण प्रत्यर्थिभूतैः क्रियते भरेण।
कण्ठे कुठारः कमठे ठकारः शेषे ढकारस्तपने चकारः॥ 73 ॥

1कुध्रेनसुप्रीनयनाश्रयाशदग्धोन्मदा 2दर्दुरहर्षकाले।
3स्वजन्मभक्षप्रियभोजनाशा नृत्यन्ति भी4मानुजगोजभाजः॥ 74 ॥

शिरसि देवनदीं पुरवैरिणः सपदि वीक्ष्य धराधरकन्यका।
निबिडमानवती 5रमणाङ्गके क्वचन चुम्बनमारभते स्म सा॥ 75 ॥

काचिद्विलोलनयना रमणे स्वकीये दूरं गते सति मनोभवबाणखिन्ना।
त्यक्तुं शरीरमचिरान्मल6याद्रिवायुं सौरभ्यशालिनमहो पिबति स्म चित्रम्॥ 76 ॥

7कान्ता रुचिं मुनजिनस्तरुणोऽवियोगी कामश्च रत्नमणिरुज्ज्वलकङ्कणेन।
धत्ते पयोधरयुगे कुचभूषणेन हारे हरे हिमकरे मकरे करे च॥ 77 ॥

विकसति8 नयनाभ्यां कैरवं पङ्कजं च श्लथयति चरणाम्बु ब्रह्मचर्यं पयोधेः।
उरसि लसति यस्य श्रेयसां सम्प्रदायः स फणिनमधिशेते पद्मया पद्मनाभः॥ 78 ॥

9अहिरिपुपतिकान्तातातसम्बद्धकान्ताहरतनयनिहन्तृप्राणदातृध्वजस्य।
सखिसुतसुतकान्तातातसम्पूज्यकान्तापितृशिरसि पतन्ती जाह्नवी नः पुनातु॥ 79 ॥

उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ गतवति विलयं च प्राकृतेऽतिप्रपञ्चे।
सपदि पदमुदीतं केवलः प्रत्ययो यस्तदियदिति च वक्तुं कः क्षमः पण्डितोऽपि॥ 80 ॥
1हरिद्रायां राहुप्रसरपिहितेच्छापरिषदि प्रयुक्तालङ्कृत्यै वियुतउरुतां दुर्गकुरटीम्।
वयं सार्कोपेताः प्रहर इति सेनाधिपकृताममात्येभ्यो लेखां प्रति दिशति सिंहक्षितिपतिः॥ 81 ॥

2गता सा किं स्थानं पथि सह तया का स्थितवती नृपेणेत्थं पृष्टा सखि चतुरदूती स्थितवती।
विलोक्यालङ्कारं निजमथ च शाकं नरपतिं निराकाङ्क्षं चक्रे कथय कथमेतत्प्रभवति॥ 82 ॥

3स्तनान्ते नो हारो रजतगिरिमूले न धनदः सुकेशीनां मध्ये विहरति न कामो नवयुवा।
रसान्ते नैवाब्धिर्विबुधनगरीसीम्नी न सुरस्तथान्यस्मिन्पद्ये स्फुटमवतु दैवं किमपि नः॥ 83 ॥

काचिद्बाला 4रमणवसतिं प्रेषयन्ती करण्डं सा तन्मूले सभयमलिखद्व्या5लमस्योपरिष्टात्।
गौरीनाथं6 पवन7तनयं 8चम्पकं चास्य भावं पृच्छत्यार्यान्प्रति कथमिदं मल्लिनाथः कवीन्द्रः॥ 84 ॥

सर्वज्ञः1 सन्वदसि बहुधा दीयते दीयते वै दाधातूनां भवति सदृशं रूपमेषां चतुर्णाम्।
द्वौ दानार्थौ भवति च तथा पालने खण्डने वा नो जानीमः कथयति भवान्कस्य धातोः प्रयोगम्॥ 85 ॥

2चञ्चद्द्वादशनीलनीरजयुतं सप्ताम्बुजोद्भासितं नित्यं षोडशशोणपद्मरुचिरं धात्रानिशं सेवितम्।
क्षीराम्भोधिगृहं सहस्रदलसत्पर्यङ्कविश्रान्ति यत्पायाद्वः कमलाङ्गसङ्गिशयनं तन्नीलरोचिर्महः॥ 86 ॥

3रामं वानरवाहिनीं पुररिपुं राहुं रवेः सारथिं कुम्भीगर्भसमुद्भवं मुररिपुं मारस्य मौर्वीरवम्।
तन्वी नूतनपल्लवैर्विरचिते शय्यातले शायिनी सख्या वीजिततालवृन्तपवनां बाला मुहुर्निन्दति॥ 87 ॥

4सत्यासक्तमनाः प्रवृद्धनरकच्छेदी द्विजेन्द्राश्रयो युक्तानेकमुखोद्भवास्पदमलं श्रीर्यत्र सम्राजते।
योगङ्गां च बिभर्ति यश्च सशिवो यः कामदेहाश्रयः सङ्घः साम्यमयं प्रयातु भवतां कृष्णेन रुद्रेण वा॥ 88 ॥

1येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्त्रप्रियः।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सोऽव्यादिष्टभुजङ्गहारवलयस् त्वां सर्वदो माधवः॥ 89 ॥

1यो व्योमाडिनगोऽहरीडुडुपगोयुग्मः क्वगध्रोऽपभीर्भीमर्भ्वर्यसुकी रमारतरसो नाभ्यब्रुडासीनकः।
द्योसच्चम्ववनम्यपत्सलिलजो वार्धिस्वपोऽष्टार्धदोराद्यो गद्यसि वाडवादमृतपाः पायात्स वः कन्दभाः॥ 90 ॥

2लक्ष्मीवन्कृतकूरसू रणदहिन्दूधक्क्षमः पापडीलाडूढोऽकलघी वडांछन वडी खाजाम्बुदालीरुचिः।
मड्डाशाकरखण्डनो विविभुना क्षीरावसातुल्य मां सासूं हालितडिन्निभाङ्गवसनोऽव्याः सेवकं सारवान्॥ 91 ॥

1खाटीच्छाशिपलेहपापडवडीर्ष्यारोडबाजी गणो यद्भक्तोऽनिमिषीव वा कुलचणा ध्यायन्ति यां योगिनः।
कालाभीलकरालभूखलमहादैत्येन्द्रमाथार्थिनी सा सासूयरसा तवाघतटये स्तात्कर्णमोटी चिरम्॥ 92 ॥

2सूदारा उपलपाडिमेखलतटी कच्छोटजा बिभ्रती पूता रेभरडीननीलजसभा नागीव पातालगा।
खाधोऽसावजकालियारिहरिणव्याधैः समं पीडितामामोघोघरवाघवारणपदं मन्दाकिनी वः क्रियात्॥ 93 ॥

जायन्ते नव सौ तथामि च नव भ्याम्भिस्भ्यसां सङ्गमे षट्सङ्ख्यानि षडेव सुप्यथ शशि त्रीण्येव तद्वज्जसि।
चत्वार्यन्यवचःसु यस्य विबुधाः 1शब्दस्य रूपाणि तज्जानन्ते यदि शक्तिरस्ति गदितुं षाण्मासिकोऽत्रावधिः॥ 94 ॥

2मुद्गीदालिसुशालितू अरतणीगावं सुदुग्धं घृतं नीकादूहपलेहपापडवडी कोरीवधारीमडा।
मूलाकोठकुठीवडा च कपिटाटीटीदुराचीभडा आदासूरणरायताह्यदिवडा कुर्वन्तु वो मङ्गलम्॥ 95 ॥

3वाश्चारेड्ध्वजधग्धृतोड्वधिपतिः कुध्रेड्जजानिर्गणेड्गोराडारुडुरःसरेडुरुतरग्रैवेयकभ्राडरम्।
उड्वीड्रुड्नरकास्थिधृक्त्रिदृगिभेडार्द्राजिनाच्छच्छविः स स्तादम्बुमदम्बुदालिगलरुग्देवो मुदे वो मृडः॥ 96 ॥


  1. जले. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. मृतकम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. कृष्णकाकः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. शृगालाः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. यदि दासी असि नेच्छामि. नो दासी असि तदा पिबाम्यहमिति पदच्छेदः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. विगतः षकारो यस्मात्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. ककारेण विना. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. नकारद्वयरहितम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  9. कृष्णाजिन्म्. अत्र ककार-षकार-नकाराणां निष्कासने ‘ऋ आजि अम्’ इति स्थिते सन्धौ कृते ‘राज्यम्.’ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  10. शत्रुरहितम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  11. ‘माघमा कर्कटी प्रोक्ता तदपत्यानि सेगवाः’ इत्युक्तेः कर्कट्या अपत्यानि यथा जन्मसमये तस्या अङ्गानि विदार्य बहिर्यान्ति तद्वदिमे बाणा ममाङ्गानि विदारयन्तीत्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  12. सहधर्मिणी. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  13. मध्यभागे रीतिः पित्तलं तद्विशिष्टम्; [पक्षे] मध्ये रीकारविशिष्टं शरम्. शरीरमित्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  14. ‘अधस्ताद्दारुणि शिला’. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  15. ‘नासा दारूपरि स्थितम्.’ ↩︎ ↩︎ ↩︎ ↩︎

  16. उज्ज्वलवर्णस्य. ↩︎ ↩︎ ↩︎ ↩︎

  17. शोभना वर्णा नामाक्षराणि यत्र तस्य. ↩︎ ↩︎ ↩︎ ↩︎

  18. अशीतिरक्तिकापरिमितस्य. ↩︎ ↩︎ ↩︎ ↩︎

  19. काञ्चनस्य. ↩︎ ↩︎

  20. सुरया सहितः. मद्यप इत्यर्थः; [पक्षे] सः सुरः इति पदच्छेदे सुरो देवः. ↩︎

  21. सत्कुलप्रसूतः; [पक्षे] कौ लीनः. ↩︎

  22. समे साधौ अमतिः. श्रद्धारहित इति यावत्; [पक्षे] समे विष्णौ मतिर्यस्य सः. ↩︎

  23. शोभनरसविशिष्टं बद्धं रचितम्; [पक्षे] असुरैः सम्बद्धं युक्तम्. ↩︎

  24. कविकृतिम्; [पक्षे] शुक्रम्. ↩︎

  25. पराजयः; [पक्षे] परा उत्कृष्टा भूतिरैश्वर्यम्. ↩︎

  26. कर्णाय सुग्रीवाय यमाय च. ↩︎

  27. गास्त्रायन्ते ते गोपास्तेषामात्मभवा गोपिकास्तासां कान्तं मनोहरम्. अथ च गोत्रायाः पृथ्व्या आत्मभवा सीता सा कान्ता यस्य तत्. अथ च गोत्रस्य हिमालयस्यात्मभवा पार्वती सा कान्ता यस्य तत्. ↩︎

  28. कृष्णाख्यं रामाख्यं शिवाख्यं च. ↩︎