वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया।
पतिं बुद्ध्वा सखि ततः प्रबुद्धास्मीत्यपूरयत्॥ 1 ॥
रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति।
तत्किं तरुणी नहि नहि वाणी बाणस्य मधुरशीलस्य॥ 2 ॥
सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम्।
नागरिकः किं मिलितो नहि नहि सखि हैमनः1 पवनः॥ 3 ॥
काले पयोधराणामपतितया4 नैव शक्यते स्थातुम्।
उत्कण्ठितासि बाले नहि नहि सखि पिच्छिलः5 पन्थाः॥ 4 ॥
प्रहरति न पञ्चबाणः केवलमबले निमेषोऽपि।
वर्षति परं न देवः क्षणदायी विप्रयोगं ते॥ 5 ॥
मधुरस्वना 6धृतोर्णा मण्याभरणा सुशोभना 7सुदती।
मत्स्कन्धोचितदण्डा भिक्षो दयितास्ति किं न मे वीणा॥ 6 ॥
8रागी भिनत्ति निद्रां तल्पं न जहाति निष्ठुरं दशति।
चतुरे किं प्राणेशो नहि नहि सखि मत्कुणव्रातः॥ 7 ॥
आदौ गृहीतपाणिः पश्चादारूढजघनकटिभागा।
नखमुखलालनसुखदा सा किं रामास्ति नैव भोः 9पामा॥ 8 ॥
नाथ विलोकय 10मेघं नहि नहि पापं तवातिपुण्यायाः।
नहि कथयामि 11पयोधरमपसारय कञ्चुकीमुरसः॥ 9 ॥
पञ्चदशीरजनिसमा तारामणिभूषणापि कोकिलवाक्।
चन्द्रसमा गतवसना हस्तगता स्त्री न मे वीणा॥ 10 ॥
नाथ 12मयूरो नृत्यति तुरगाननवक्षसः कथं नृत्यम्।
नहि कथयामि कलापिनमिह सुखलापी प्रिये कोऽस्ति॥ 11 ॥
अक्षरमैत्त्रीभाजः सालङ्कारस्य चारुवृत्तस्य।
किं ब्रूमो सखि यूनो नहि नहि सखि पद्यबन्धस्य॥ 12 ॥
इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता।
स्मरसि किं सखि कान्तरतोत्सवं न हि घनागमरीतिरुदाहृता॥ 13 ॥
तन्वी चारुपयोधरा सुवदना श्यामा मनोहारिणी नीता निष्करुणेन केनचिदहो देशान्तरादागता।
13उत्सङ्गोचितया तया रहितया किं जीवनं प्रेक्षसे भिक्षो ते जयितास्ति किं नहि नहि प्राणप्रिया तुम्बिका॥ 14 ॥
-
हेमन्तसम्बन्धी. ↩︎
-
विवाहः; [पक्षे] पाणौ धारणम्. ↩︎
-
कुलम्; [पक्षे] वेणुः. ↩︎
-
पतिं विना; [पक्षे] पतनाभावेन. ↩︎
-
पङ्किलः. ↩︎
-
धृतोर्णादिदशा; [पक्षे] धृतोर्णावस्त्रा. ↩︎
-
शोभना दन्ता यस्याः सा; [पक्षे] हस्तिदन्तनिर्मितालङ्कारवती. ↩︎
-
अनुरक्तः; [पक्षे] रक्तवर्णः. ↩︎
-
कण्डूः. ↩︎
-
अम्बुदम्; [पक्षे] मेऽघं पापम्. ↩︎
-
मेघम्; [पक्षे] स्तनम्. ↩︎
-
‘मे उरः’ इति पदच्छेदः. ↩︎
-
समीपे स्थातुं योग्यया; (पक्षी अङ्कमारोढुं योग्यया.)
या 2पाणिग्रहलालिता सुसरला तन्वी सुवंशोद्भवा3 गौरी स्पर्शसुखावहा गुणवती नित्यं मनोहारिणी।
सा केनापि हृता तया विरहितो गन्तुं न शक्तोऽस्म्यहं रे भिक्षो तव कामिनी नहि नहि प्राणप्रिया यष्टिका॥ 15 ॥ ↩︎