अपदो दूरगामी च साक्षरो न च पण्डितः।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः॥ 1 ॥
1वने जाता 2वने त्यक्ता वने तिष्ठति नित्यशः।
3पण्यस्त्री न तु सा वेश्या यो जानाति स पण्डितः॥ 2 ॥
गोपालो4 नैव गोपालस्त्रि5शूली नैव शङ्करः।
6चक्रपाणिः स नो विष्णुर्यो जानाति स पण्डितः॥ 3 ॥
उच्छिष्टं शिवनिर्माल्यं वमनं शवकर्पटम्।
काकविष्ठासमुत्पन्नः पञ्चैतेऽतिपवित्रकाः॥ 4 ॥
अनेकसुषिरं7 वाद्यां8 कान्तं9 च ऋषिसंज्ञितम्।
10 चक्रिणा च सदाराध्यं यो जानाति स पण्डितः॥ 5 ॥
वने वसति को वीरो योऽस्थिमांसविवर्जितः।
असिवत्कुरुते कार्यं कार्यं कृत्वा वनं गतः॥ 6 ॥
11रविजा शशिकुन्दाभा तापहारी जगत्प्रिया।
वर्धते वनसङ्गेन न तापी यमुनापि न॥ 7 ॥
12तरुण्यालिङ्गितः कण्ठे नितम्ब13स्थलमाश्रितः।
1गुरूणां सन्निधानेऽपि कः 2कूजति मुहुर्मुहुः॥ 8 ॥
अवलोक्य स्तनौ वध्वा गुञ्जाफलविभूषितौ।
निःश्वस्य रोदितुं लग्ना कुतो व्याधकुटुम्बिनी॥ 9 ॥
आपाण्डु पीनकठिनं वर्तुलं सुमनोहरम्।
करैराकृष्यतेऽत्यर्थं किं वृद्धैरपि3 सस्पृहम्॥ 10 ॥
एकचक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः।
क्षीयते वर्धते चैव न समुद्रो न चन्द्रमाः॥ 11 ॥
छत्त्रधारी न राजासौ जटाधारी न चेश्वरः।
सृष्टिकर्ता न स ब्रह्मा छिद्रकर्ता न तस्करः॥ 12 ॥
अस्थि नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः।
नास्ति पादद्वयं गाढमङ्गमालिङ्गति स्वयम्॥ 13 ॥
अस्ति ग्रीवा शिरो नास्ति द्वौ भुजौ करवर्जितौ।
सीताहरणसामर्थ्यो न रामो न च रावणः॥ 14 ॥
नरनारीसमुत्पन्ना4 सा स्त्री देहविवर्जिता।
अमुखी कुरुते शब्दं जातमात्रा विनश्यति॥ 15 ॥
दन्तैर्हीनः शिलाभक्षी निर्जीवो बहुमाषकः।
गुणस्यूतिसमृद्धोऽपि परपादेन गच्छति॥ 16 ॥
न तस्यादिर्न तस्यान्तो मध्ये यस्तस्य तिष्ठति।
तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद॥ 17 ॥
य एवादिः स एवान्तो मध्ये भवति मध्यमः।
य एतन्नाभिजानीयात्तृणमात्रं न वेत्ति सः॥ 18 ॥
पर्वताग्रे रथो याति भूमौ तिष्ठति सारथिः।
चलते वायुवेगेन पदमेकं न गच्छति॥ 19 ॥
12श्यामं च वर्तुलाकारं पुंनाम चतुरक्षरम्।
शकारादि मकारान्तं यो जानाति स पण्डितः॥ 20 ॥
अर्धचन्द्रवदाकारं स्त्रीनामाथ च त्र्यक्षरम्।
नकारादि रिकारान्तं यो जानाति स पण्डितः॥ 21 ॥
अष्टपादश्चतुःकर्णो द्विमुखी द्विमुखस्तथा।
राजद्वारे पठेद्घोरो न च देवो न राक्षसः॥ 22 ॥
वृक्षस्याग्रे फलं दृष्टं फलाग्रे वृक्ष एव च।
अकारादि सकारान्तं यो जानाति स पण्डितः॥ 23 ॥
चतुर्मुखो न च ब्रह्मा वृषारूढो न शङ्करः।
निर्जीवी च निराहारी अजस्रं धान्यभक्षणम्॥ 24 ॥
कृष्णमुखी न मार्जारी द्विजिह्वा न च सर्पिणी।
पञ्चभर्त्री न पाञ्चाली यो जानाति स पण्डितः॥ 25 ॥
अपूर्वोऽयं मया दृष्टः कान्तः कमललोचने।
शोऽन्तरं यो विजानाति स विद्वान्नात्र संशयः॥ 26 ॥
पर्वताग्रे रथारूढो भूमौ तिष्ठति सारथिः।
चक्रवद्भ्रमते पृथ्वी तस्याहं कुलबालिका॥ 27 ॥
अर्धचन्द्रसमायुक्तं पुंनाम चतुरक्षरम्।
ककारादि लकारान्तमिह जानाति पण्डितः॥ 28 ॥
अनुनेतुं मानिन्या दयितश्चरणे सरागचरणायाः।
यावत्पतितः स तया तत्क्षणमवधीरितः कस्मात्॥ 29 ॥
गीत्वा किमपि12 व्याधः शृङ्गं जग्राह तरुणहरिणस्य।
तमथ समीक्ष्योद्यतकरमेणीमपि लज्जिता व्याधी॥ 30 ॥
काचिन्मृगाक्षी प्रियविप्रयोगे निशीथिनीपारमपारयन्ती।
आगातुमादाय करेण वीणामुद्ग्रीवमालोक्य शनैरहासीत्॥ 31 ॥
सदारिमध्यापि12 न वैरियुक्ता नितान्तरक्तापि सितैव13 नित्यम्।
यथोक्तवादिन्यपि नैव दूती का नाम 1कान्तेति निवेदयाशु॥ 32 ॥
वृक्षाग्रवासी न च पक्षिराजस्त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः॥ 33 ॥
वृक्षाग्रवासी न च पक्षिजातिस्तृणं च शय्या न च राजयोगी।
सुवर्णकायो न च हेमधातुः पुंसश्च नाम्ना न च राजपुत्रः॥ 34 ॥
चक्री त्रिशूली न हरो न विष्णुर्महान्बलिष्ठो न च भीमसेनः।
स्वच्छन्दचारी नृपतिर्न योगी सीतावियोगी न च रामचन्द्रः॥ 35 ॥
आद्येन हीना जलधावदृश्यं मध्येन हीनं भुवि वर्णनीयम्।
अन्तेन हीनं ध्वनते शरीरं हेमाभिधः स श्रियमातनोतु॥ 36 ॥
सर्वस्वापहरो न दस्युकुलजः खट्वाङ्गभृन्नेश्वरो दोषानिष्टकरो न धर्मनिरतः कीलालपो नासुरः।
नॄणां पृष्ठपलाशनो न पिशुनः शीघ्रं गमो नो हयः शश्वद्रात्रिचरो न राक्षसगणः कोऽयं सखि ब्रूहि मे॥ 37 ॥
सर्वस्वापहरो न तस्करगणो रक्षो न रक्ताशनः सर्पो नैव बिलेशयोऽखिलनिशाचारी न भूतोऽपि च।
अन्तर्धानपटुर्न सिद्धपुरुषो नाप्याशुगो मारुतस्तीक्ष्णास्यो न तु सायकस्तमिह ये जानन्ति ते पण्डिताः॥ 38 ॥
जाता शुद्धकुले जघान पितरं हत्वापि शुद्धा पुनः स्त्री चैषा वनिता पितैव सततं विश्वस्य या जीवनम्।
सङ्गं प्राप्य पितामहेन जनकं प्रासूत या कन्यका सा सर्वैरपि वन्दिता क्षितितले सा नाम का नायिका॥ 39 ॥