सहस्रशीर्षा पुरुषः
सहस्राक्षः सहस्रपात्।
दलितश् चकितश् छन्नस्
तव सैन्ये विसर्पति॥ 1 ॥
कामं कामदुघं धुङ्क्ष्व
मित्त्राय वरुणाय च।
वयं धीरेण दानेन
सर्वान् कामान् अशीमहि॥ 2 ॥
असमाने समानत्वं
भविता कलहे मम।
इति मत्वा ध्रुवं मानी
मृगात् सिंहः पलायते॥ 3 ॥+++(5)+++
हीन-हत्या दधात्य् एव
लाघवं महताम् अपि।
इति मत्वा द्विप-द्वेषी
मृगात् सिंहः पलायते॥ 4 ॥+++(5)+++
तिष्ठार्जुनाद्य सङ्ग्रामे
त्वां हनिष्याम्य् अहं शरैः।
तिष्ठामि कर्ण किं मूढ
मृगात् सिंहः पलायते॥ 5 ॥+++(4)+++
ऋषेर् अस्याश्रमे पुण्ये
शाप-सन्त्रस्त-मानसः।
मुद्-बोधतो ऽपि प्रायोऽयं
मृगात् सिंहः पलायते॥ 6 ॥
अयं मृगः समायाति
त्वरितैस् त्वरितैः पदैः।
ततो वेगात् पलायस्व
मृगात् सिंहः पलायते॥ 7 ॥+++(5)+++
विद्यायां दुर्मदो येषां
कार्पण्यं विभवे सति।
तेषां दैवाभि-शप्तानां
सलिलाद् अग्निर् उत्थितः॥ 8 ॥+++(4)+++
सीतासमागमोत्कण्ठाकर्णान्ताकृष्टधन्वनः।
राघवस्य 1शराङ्गारैः समुद्रादग्निरुत्थितः॥ 9 ॥
दामोदरकराघातविह्वलीकृतचेतसा।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम्॥ 10 ॥
चलत्तरङ्गरङ्गायां गङ्गायां प्रतिबिम्बितम्।
सचन्द्रं शोभतेऽत्यर्थं शतचन्द्रं नभस्तलम्॥ 11 ॥
विधे पिधेहि शीतांशुं यावन्नायाति मे प्रियः।
आगते दयिते कुर्याः शतचन्द्रं नभस्तलम्॥ 12 ॥
सुमेरुशिखरप्रान्तस्फुरद्दिव्यवधूमुखैः।
परितः स्फुरितैः शङ्के शतचन्द्रं नभस्तलम्॥ 13 ॥
घृतं न श्रूयते कर्णे दधि स्वप्नेऽपि दुर्लभम्।
मुग्धे दुग्धस्य का वार्ता तक्रं शक्रस्य दुर्लभम्॥ 14 ॥
2अक्रत्वङ्गमतस्तक्रं न 3शतक्रतुना हुतम्।
नादत्तमिति वाक्यार्थात्तक्रं शक्रस्य दुर्लभम्॥ 15 ॥
4भीष्मग्रीष्मर्तुसन्तप्तशून्यरथ्यान्तरस्थयोः।
1अन्योन्यालापसुखिनोर्यूनोश्चन्द्रायते रविः॥ 16 ॥
स्वस्ति क्षत्रियदेवाय जगद्देवाय भूभुजे।
यद्यशःपुण्डरीकान्तर्गगनं भ्रमरायते॥ 17 ॥
स्फुरिते जठरे विष्णोर्नवनीतभुजः शिशोः।
मक्षिकापादघातेन कम्पितं भुवनत्रयम्॥ 18 ॥
अतसीपुष्पसङ्काशं खं वीक्ष्य जलदागमे।
ये वियोगेऽपि जीवन्ति न तेषां विद्यते भ्रमः॥ 19 ॥
वागर्थाविव सम्पृक्तौ शतकोटिप्रविस्तरम्।
2तुरासाहं पुरोधाय नेमुः सर्वे सुराः 3शिवौ॥ 20 ॥
4आषाढी कार्तिकी माघी वचा शुण्ठी हरीतकी।
गयायां पिण्डदानेन पुण्या श्लेष्महरानृणी॥ 21 ॥
जम्बूफलानि पक्वानि पतन्ति विमले जले।
कपिकम्पितशाखाभ्यो गुलुगुग्गुलुगुग्गुलू॥ 22 ॥
विदग्धे सुमुखे रक्ते नितम्बोपरि संस्थिते।
कामिन्याश्लिष्टसुगले कूजितं रतिकूजितम्॥ 23 ॥
प्रलयसहायकरा इति गोलानाचम्य सकलभूमिरुहाम्।
विलसति दवदहनावलिरिह जलवाहः परं शरणम्॥ 24 ॥
निजपतिराद्यः प्रणयी हरिर्द्वितीयः करोमि किं गोपि।
शृणु सखि पाणिनिसूत्रं विप्रतिषेधे परं कार्यम्॥ 25 ॥
दैत्यानां मनसि दया जाता कृष्णं हि रक्षितुं कस्मात्।
द्रष्टुं देवमजस्रं दैत्यस्त्रीणामपि प्रीतिः॥ 26 ॥
श्रीनाथः नः श्रुतमिति बहुधा भ्रमता मया नृलोकेषु।
शीलं वारवधूनां दैत्यस्त्रीणामपि प्रीतिः॥ 27 ॥
रामाभिषेके मदविह्वलाया हस्ताच्च्युतोहेमघटस्तरुण्याः।
सोपानमासाद्य करोति शब्दं ठठंठठंठंठठठंठठंठः॥ 28 ॥
कर्पूरपूरच्छविवादविद्यासंवावदूकद्युतिशुक्तिताम्रे।
इन्दौ नृपद्वेषि तमोवितानं सूर्योदये रोदिति चक्रवाकी॥ 29 ॥
विलोक्य बालामुखचन्द्रबिम्बं कण्ठे च मुक्तावलिहारताराः।
पुनर्निशाया भयभीतभीता सूर्योदये रोदिति चक्रवाकी॥ 30 ॥
सर्वस्य जन्तोर्भवति प्रमोदो विरोधिवर्गे परिभूयमाने।
तिरोहिते त्वद्यशसा नरेन्द्र चन्द्रोदये नृत्यति चक्रवाकी॥ 31 ॥
न क्वापि रामाहितसंशयाया विना नमात्वं (?) जनकात्मजायाः।
पुरः सुराणाङ्कपुरःसराणामङ्गारपूर्णं कमलं प्रफुल्लम्॥ 32 ॥
पुञ्जायमानारुणरत्नहारे कान्तोरसि स्रावदनङ्ग भाति।
सिध्येदमुष्योपमितिर्यदि स्यादङ्गारपूर्णं कमलं प्रफुल्लम्॥ 33 ॥
रे पुत्र सत्यङ्गमवाप्नुहि त्वमसत्प्रसङ्गं त्वरया विहाय।
धन्योऽपि निन्दां लभते कुसङ्गात्सिन्दूरबिन्दुर्विधवाललाटे॥ 34 ॥
श्रुत्वा प्रदग्धं तनयं सशोका पुनर्निशम्याप्तशरीरभावम्।
पश्यत्सु देवेषु च धावमाना रमा मुदा 1शङ्करमालिलिङ्ग॥ 35 ॥
सुतं पतन्तं प्रसमीक्ष्य पावके न बोधयामास पतिं पतिव्रता।
तदा ह्यसौ तद्व्रतशक्तिपीडितो हुताशनश्चन्दनपङ्कशीतलः॥ 36 ॥
उन्नमय्य 2सकचग्रहमास्यं3 4चुम्बति प्रिय5तमे 6हठवृत्त्या।
7कूजिता जयति 8मानधनाया हूंहुहूंहुहुहुहूंहुहुहूंहूं॥ 37 ॥
मम करग्रहणाय पणीकृतं न यदि राघवतोऽप्यधिरोहति।
सखि तदैवमभून्म जीविते शशकशृङ्गमयं कठिनं धनुः॥ 38 ॥
नीलाब्जद्युतिनयनं नितान्तवृत्तमास्यश्रीपरिचितचन्द्रिकाविलासम्।
स्नातायाः सरसि विलोक्य वक्त्रचन्द्रं मध्याह्ने मुकुलितमम्बुजं वनान्ते॥ 39 ॥
काञ्चिद्दि9नार्धसमये 10रविरश्मितप्तां 11नीलांशुकाञ्चलनिलीनमुखेन्दुबिम्बाम्।
तां तादृशीं समनुवीक्ष्य कविर्जगाद 1राहुर्दिवा ग्रसति पर्व विना किलेन्दुम्॥ 40 ॥
बहलबलसमर्था मेघनादादयो मे सपदि युधि विशन्तः कीटहस्ते निपेतुः।
इति वदति दशास्यो हस्ततालं वितत्य मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम्॥ 41 ॥
मृगशिशुनयनाया अक्षिपक्ष्मप्रकोणे विलसति तरला या तारका तारकेव।
प्रतिफलित इहोष्ट्रे भ्रान्तिरास्ते जनानां तिलतुषपुटकोणे मक्षिकोष्ट्रं प्रसूता॥ 42 ॥
मधौ मन्दं मन्दं मरुति शिशिरे वाति रुचिरे कुलस्त्रीभिः कृष्णे विहरति तथा वृष्णिनिकरे।
उषा योषा तोषाद्वदनमनिरुद्धस्य मिषतो पुरः पत्युः कामाच्छ्वशुरमियमालिङ्गति सती॥ 43 ॥
स्वयं संराध्येशं पुरभिदमनल्पेन तपसा महेन्द्रं संतोष्य त्रिदशरिपुनाशादसुकरात्।
समायाते पार्थे द्रुपदतनया क्लेशविकला पुरः पत्युः कामाच्छ्वशुरमियमालिङ्गति सती॥ 44 ॥
कदाचित्पाञ्चाली विपिनभुवि भीमेन बहुशः कृशाङ्गि श्रान्तासि क्षणमिह निषीदेति गदिता।
शनैः शीतच्छायं तटविटपिनं प्राप्य मुदिता पुरः पत्युः कामाच्छ्व2शुरमियमालिङ्गति सती॥ 45 ॥
तपापाये गोदापरतटभुवि स्थातुमनसि प्रविष्टे तत्पूरं भगवति मुनौ कुम्भजनुषि।
द्रुतं लोपामुद्रा स्वयमविकलं गन्तुमुदिता पुरः पत्युः कामाच्छ्व3शुरमियमालिङ्गति सती॥ 46 ॥
सर्वस्य द्वे सुमतिकुमती सम्पदापत्तिहेतू एको गोत्रे प्रभवति पुमान्यः कुटुम्बं बिभर्ति।
वृद्धो यूना सह परिचयात्त्यज्यते कामिनीभिः स्त्रीपुंवच्च प्रभवति यदा तद्धि गेहं विनष्टम्॥ 47 ॥
4ये पापं शमयन्ति सङ्गतिभृतां ये दानशृङ्गारिणो येषां चित्तमतीव निर्मलतरं येषां न भग्नं व्रतम्।
ये सर्वान्सुखयन्ति हि प्रतिदिनं ते साधवो दुर्लभा गङ्गावद्गजगण्डवद्गगनवद्गाङ्गेयवद्गेयवत्॥ 48 ॥
हारो भाति कुचद्वयं तव शुभे मध्यं वपुः सद्वचः केशा नासिकमौक्तिकं सुवदनं 1दर्पाङ्गरागो दृशः।
गङ्गावद्गजगण्डवद्गगनवद्गाङ्गेयवद्गेयवज्जम्बूवज्जलबिन्दुवज्जलवज्ज2म्बालवज्जालवत्॥ 49 ॥
यत्कण्ठे गरलं विराजतितरां शीर्षे च मन्दाकिनी उत्सङ्गे च शिवामुखं कटितटे शार्दूलचर्माम्बरम्।
माया यस्य रुणद्धि विश्वमखिलं तस्मै नमः शम्भवे जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्॥ 50 ॥
ख्यातस्त्वं फलवृष्टिपुष्टिसुमनःस्वाधीनजाम्बूनदः शीर्णास्ते रिपुसम्पदः प्रतिदिनं मित्त्रोदये मोदसे।
पान्थानां कुरुषे विलम्बनमहो दत्तान्तरस्तेजसा जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्॥ 51 ॥
सङ्ग्रामे रिपुभूभुजां मुखरुचिर्जीवश्च देवाङ्गनाच्चक्षुः प्रोल्लसदस्रमांसनिवहैस्तन्मेदिनीमण्डलम्।
त्वच्चापोद्गतबाणसंहतिरभूच्छ्रीराम भूमीपते जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्॥ 52 ॥
वैदेहीं समवाप्य दाशरथिनारब्धे प्रयाणेऽग्रतो दृष्टाः पुष्पकसम्स्थितेन रभसादाकाशमारोहता।
लङ्कासागरजानकीवनरणक्षोण्यश्चमत्कारिका जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्॥ 53 ॥
यो द्रोणाचलमादधौ करतले योऽतीतरत्सागरं यश्चोत्खातितवांस्तरूनुदवहत्पुच्छेन दावानलम्।
यो रक्षान्समरेऽरुणत्कपिवरः पायाद्धनूमानसौ जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्॥ 54 ॥
कस्तूरीतिलकं ललाटरचितं नासामणिं निस्तलं वक्त्रं कुञ्चितकेशपाशमनिशं दृष्टिं निसृष्टां पुरः।
पुंसां मानसमत्स्यबन्धनविधौ धत्सेऽत्र वत्से स्वयं जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्॥ 55 ॥
विद्धि श्रीहृदयं सदान्तमलिनं भीमं भवाम्भोनिधिं विज्ञाने सुरतं महीशभवनं गूढं दृढं कण्टकैः।
दारागारसमागमं सुविषमं मोहं परं दुस्तरं जम्बूवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत्॥ 56 ॥
शुण्ठीगोक्षुरयोर्विचार्य मनसा कल्काशनं यन्मया प्रोक्तं तद्विपरीतकं कृतमहो गोः खूरमात्रं ददौ।
नार्थो मूर्खजनालये न च सुखं नो वा यशो लभ्यते सद्वैद्ये कविभूपतौ हरिहरे लाभः परं गोवधः॥ 57 ॥
पञ्चास्यस्य पराभवाय मषको मांसेन गोर्भूयसा दध्यन्नैरपि पायसैः प्रतिदिनं सम्वर्धितो यो मया।
सोऽयं सिंहरवाद्गुहान्तरगमद्भीत्याकुलः सम्भ्रमाद्धन्ताशा विलयं गता हतविधे लाभः परं गोवधः॥ 58 ॥
परीन्द्रस्य पराभवाय सुरभीमांसेन दुर्मेधसा पोष्यन्ते किल पीवराः कटुगिरः श्वानः प्रयत्नादमी।
न त्वेभिर्मदमत्तवारणचमूविद्रावणः केसरी जेतव्यो भवता किरातनृपते लाभः परं गोवधः॥ 59 ॥
अस्माकं 1जलजीविनां जलमिदं 2सद्वाजिराजिव्रजैः पातव्यं पररक्तसक्तमनसां तृप्तिः पतीनां क्षयः।
मत्वैवं किल राजदेव नृपते त्व3ज्जैत्रयात्रोत्सवे मत्सी रोदिति मक्षिका च हसति 4ध्यायन्ति वामभ्रुवः॥ 60 ॥
श्रुत्वा 5सागरबन्धनं 6दशशिराः सर्वैर्मुखैरेकदा 7तूर्णं पृच्छति 8वार्तिकान्सचकितो भीत्या परं सम्भ्रमात्।
बद्धः सत्यमपांनिधिर्जलनिधिः कीलालधिस्तोयधिः पाथोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः॥ 61 ॥
पाषाणाः पयसि प्रबद्धवपुषस्तिष्ठन्ति सेतुं गताः श्रुत्वैवं वदतां दशाननधरः क्रुद्धः समुद्रं प्रति।
धिक्त्वां नाम तवाम्बुधिः सलिलधिः पानीयधिस्तोयधिः पाथोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः॥ 62 ॥
9अम्बा कुप्यति तात 10मूर्ध्नि विधृता गङ्गेयमुत्सृज्यतां11 विद्वन्षण्मुख का गतिर्मम चिरं मूर्ध्नि स्थिताया वद।
कोपा12वेशवशा13दशेषवदनैः प्रत्युत्तरं दत्तवान्पाथोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः॥ 63 ॥
माध्वीके विधुमण्डले वरवधूवक्त्रे च गीतान्तरे सक्ते वक्त्रचतुष्टये दशमुखो विज्ञापितस्तच्चरैः।
बद्धोऽसाविति चेतरैर्भयवशादूचे वचःसम्भ्रमात्पाथोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः॥ 64 ॥
पीतस्त्वं कलशोद्भवेन मुनिना ध्वस्तोऽपि देवासुरैराबद्धोऽसि च राघवेण मृदुना शाखामृगैर्लङ्घितः।
नाम्नामारभटी वृथैव भवतो लोकैरियं घुष्यते पाथोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः॥ 65 ॥
तर्तुं पर्वतसन्निभेन कपिना14लाबूंकृतां वक्षसि क्षिप्रं वीक्ष्य निमज्जतीमथ तव स्पृष्टास्तरन्तीः शिलाः।
लोके नृत्यपरे विभीषणजने सीताह सेतूद्यमे तुम्बी मज्जति सन्तरन्ति दृषदः प्रेतो दिवा नृत्यपि॥ 66 ॥
त्वं नो गोत्रपतिस्तवेन्दुरधिपस्तस्यामृतं त्वत्करे तेन व्याधशराहतां प्रणयिनीमेनां पुनर्जीवय।
इत्यूर्ध्वं गगने निशापतिमृगे कारुण्यमातन्वतः शृङ्गाग्रादपतन्मृगस्य रुदतो बाष्पाम्बु भूमण्डले॥ 67 ॥
उन्नादाम्बुदवर्धितान्धतमसि प्रभ्रष्टदिङ्मण्डले काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले।
कर्णस्यासुहृदर्णवाम्बुवडवावह्नेर्यदन्तःपुरादायातासि तदम्बुजाक्षि कृतकं मन्ये भयं योषिताम्॥ 68 ॥
उग्रग्राहमुदन्वतो जलमतिक्रामत्यनालम्बने व्योम्नि भ्राम्यति दुर्गमक्षितिभृतां मूर्धानमारोहति।
व्याप्तं याति विषाकुलैरहिकुलैः पातालमेकाकिनी कीर्तिस्ते मदनाभिराम कृतकं मन्ये भयं योषिताम्॥ 69 ॥
चित्रं नर्तनमम्बरे शिखरिणौ शीतांशुबिम्बे तमः सञ्चारं जलजं कपोतरणितं कामागमप्रक्रियाः।
मीनौ विद्युति तारका विहरणं ज्योत्स्ना विकोशाम्बुजे कुर्वाते कुरुते करोति कुरुतः कुर्वन्त्यलंकुर्वते॥ 70 ॥
यस्य द्वारि सदा समीरवरुणौ सम्मार्जनं हव्यवाट् पाकं शीतगुरातपत्रकरणं दस्रौ प्रतीहारताम्।
देवा लास्यविधिं च दास्यममरा वर्ण्यो दशास्यः कथं कुर्वाते कुरुते करोति कुरुतः कुर्वत्यलंकुर्वते॥ 71 ॥
कश्चित्पान्थस्तृषार्तः पथि तपनऋतौ गम्यमानोऽन्यपान्थं पप्रच्छानन्दलीनो वद पथिक कुतो जह्नुकन्याप्रवाहः।
तेनासौ शीघ्रवाचा प्रचलितमनसा विप्रवर्येण चोचे सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः॥ 72 ॥
राम त्वत्कीर्तिवृक्षाद्बहुतरममलादुत्थिताः कोरका ये तन्मध्ये रुद्ररूपोऽप्यजनि खलु यशःकोरकस्तस्य चाग्रे।
अस्य श्रोत्राक्षिकूपास्तदुपरि च शिरस्तत्र चास्ति स्रवन्ती सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः॥ 73 ॥
उद्दामार्कांशुदीप्यद्दिनमणिमणिभिर्भस्मितान्ते समन्ताद्वायुव्याधूयमानज्वलनकणगणाकीर्णधूलिप्रकीर्णे।
कान्तारेऽस्मिन्नृपार्ते पथि पथिकभवे कापि पाथोथतेना (?) सूच्यग्रे कूपषट्कं तदुपरि नगरी तत्र गङ्गाप्रवाहः॥ 74 ॥
मां साक्षीकृत्य मुग्धे विजयमभिलषंल्लेखयामास शम्भुर्भूत्या मन्मौलिमालां सदशनवशतीमक्षपातान्विजित्य।
गौर्यप्यानञ्जदृष्टीर्जितनखनवभूस्तन्वि1 शेषा तदित्थं शीर्षाणां सैव वन्ध्या 2मम नवतिरभूल्लोचनानामशीतिः॥ 75 ॥
प्रत्येकं दिक्पतीशानिलतपनवसून्सन्नतस्त्वं यथा भूरश्रौषीस्त्वं यथा च स्वरसहितलसन्मूर्छनाग्रामतालात्।
कृष्णन्यस्तान्यमौलीक्षणवदवसरे सा च सा च प्रसादाच्छीर्षाणां शेष वन्ध्या नव नवतिरभूल्लोचनानामशीतिः॥ 76 ॥
इन्द्राद्या लोकपाला हरिविधुतपना नागविद्याधराद्या द्वेष्याः सर्वेऽपि देवाः प्रिय तव वरदः कोऽस्ति वन्द्यो गरीयान्।
श्रुत्वा वाचं प्रियाया इति दशमुखतः प्राह वाक्यं दशास्यः शूली शम्भुः पिनाकी शिवभवपशुपाः शर्व ईशश्च भर्गः॥ 77 ॥