२७ सामान्यनीतिः

अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते।
स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति॥ 1 ॥
प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः।
किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति॥ 2 ॥
सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम्।
सद्भिर्विवादं मैत्त्रीं च नासद्भिः किञ्चिदाचरेत्॥ 3 ॥
न द्विष्ति न याचन्ते परनिन्दां न कुर्वते।
अनाहूता न चायान्ति तेनाश्मानोऽपि देवताः॥ 4 ॥
पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम्।
मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः॥ 5 ॥
1गतेऽपि वयसि ग्राह्या विद्या सर्वात्मना बुधैः।
यद्यपि स्यान्न फलदा सुलभा सान्यजन्मनि॥ 6 ॥

यस्य चाप्रियमन्विच्छेत्तस्य कुर्यात्सदा प्रियम्।
व्याधा मृगवधं कर्तुं सम्यग्गायन्ति सुस्वरम्॥ 7 ॥
प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम्।
अपि चास्य शिरश्छित्त्वा रुद्याच्छोच्चेत्तथापि च॥ 8 ॥
सुमन्त्रिते सुविक्रान्ते सुकृतौ सुविचारिते।
प्रारम्भे कृतबुद्धीनां सिद्धिरव्यभिचारिणी॥ 9 ॥
नालसाः प्राप्नुवन्त्यर्थान्न शठा न च मायिनः।
न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः॥ 10 ॥
नोदन्वानर्थितामेति सदाम्भोभिः प्रपूर्यते।
आत्मा तु पात्रतां नेयः पात्रमायान्ति सम्पदः॥ 11 ॥
काकतालीययोगेन यदनात्मवति क्षणम्।
करोति प्रणयं लक्ष्मीस्तदस्याः स्त्रीत्वचापलम्॥ 12 ॥
यो यमर्थं प्रार्थयते यदर्थं घटतेऽपि च।
अवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते॥ 13 ॥
केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः।
केचिज्ज्ञानावलेपेन केचिन्नष्टैस्तु नाशिताः॥ 14 ॥
मित्रस्वजनबन्धूनां बुद्धेर्धैर्यस्य चात्मनः।
आपन्निकषपाषाणे नरो जानाति सारताम्॥ 15 ॥
दुष्टैरपि निजैरेव प्रावृतं सर्वमुत्तमम्।
वरं जीर्णाम्बरं वापि हट्टे कर्पटमर्हति॥ 16 ॥
चिन्तनीया हि विपदामादावेव प्रतिक्रियाः।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥ 17 ॥
वरं दारिद्र्यमन्यायप्रभवाद्विभवादिह।
कृशताभिमता देहे पीनता न तु शोफतः॥ 18 ॥
स्त्री विनश्यति रूपेण ब्राह्मणो राजसेवया।
गावो दूरप्रचारेण हिरण्यं लोभलिप्सया॥ 19 ॥
अतिदानाद्बलिर्बद्धो ह्यतिमानात्सुयोधनः।
विनष्टो रावणो लौल्यादति सर्वत्र वर्जयेत्॥ 20 ॥
धनमस्तीति वाणिज्यं किञ्चिदस्तीति कर्षणम्।
सेवा न किञ्चिदस्तीति भिक्षा नैव च नैव च॥ 21 ॥
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः।
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः॥ 22 ॥
गीतशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा॥ 23 ॥
जानन्ति पशवो गन्धाद्वेदाज्जानन्ति पण्डिताः।
चाराज्जानन्ति राजानश्चक्षुर्भ्यामितरे जनाः॥ 24 ॥
युक्तियुक्तं प्रगृह्णीयाद्बालादपि विचक्षणः।
रवेरविषयं वस्तु किं न दीपः प्रकाशयेत्॥ 25 ॥
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम्।
वृथा दानं समर्थस्य वृथा दीपो दिवापि च॥ 26 ॥
अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरम्।
दम्पत्योः कलहश्चैव परिणामे न किंचन॥ 27 ॥
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत्॥ 28 ॥
अवृत्तिकं त्यजेद्देशं वृत्तिं सोपद्रवां त्यजेत्।
त्यजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेत्॥ 29 ॥
सौहृदेन परित्यक्तं निःस्नेहं खलवत्त्यजेत्।
सोदरं भ्रातरमपि किमुतान्यं पृथग्जनम्॥ 30 ॥
यन्निमित्तं भवेच्छोको दुःखं वा त्रास एव च।
आयासो वा यतः शूलस्तदेकाङ्गमपि त्यजेत्॥ 31 ॥
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे ह्यात्मार्थे पृथिवीं त्यजेत्॥ 32 ॥
न गणस्याग्रतो गच्छेत्सिद्धे कार्ये समं फलम्।
यदि कार्यविपत्तिः स्यान्मुखरस्तत्र हन्यते॥ 33 ॥
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः।
पञ्च यत्र न विद्यन्ते न तत्र दिवसं वसेत्॥ 34 ॥
चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः।
नासमीक्ष्य परं स्तानं पूर्वमायतनं त्यजेत्॥ 35 ॥
अनायके न वस्तव्यं न वसेद्बहुनायके।
स्त्रीनायके न वस्तव्यं न वसेद्बालनायके॥ 36 ॥
सर्वथा सन्त्यजेद्वादं न कञ्चिन्मर्मणि स्पृशेत्।
सर्वान्परित्यजेदर्तान्स्वाध्यायस्य विरोधिनः॥ 37 ॥
अनभिध्या परस्वेषु सर्वसत्वेषु सौहृदम्।
कर्मणां फलमस्तीति मनसा त्रितयं चरेत्॥ 38 ॥
प्राणातिपातः स्तैन्यं च परदाराभिमर्शनम्।
त्रीणि पापानि कायेन नित्यशः परिवर्जयेत्॥ 39 ॥
न कश्चिदपि जानाति किं कस्य श्वो भविष्यति।
अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान्॥ 40 ॥
अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदम्।
विचिन्त्य तदनुष्ठेयं कर्म हेयं ततोन्यथा॥ 41 ॥
उपकारः परो धर्मः परार्थं कर्म नैपुणम्।
पात्रे दानं परः कामः परो मोक्षो वितृष्णता॥ 42 ॥
अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु सञ्चयम्।
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु॥ 43 ॥
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित्।
न हीदृशमनायुष्यं त्रिषु लोकेषु विद्यते॥ 44 ॥
मात्रा स्वस्रा दुहित्रा वा नैकशय्यासनो भवेत्।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति॥ 45 ॥
परदारपरद्रव्यपरद्रोहपराङ्मुखः।
गङ्गा ब्रूते कदागत्य मामयं पावयिष्यति॥ 46 ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः।
महान्ति पातकान्याहुस्तत्संसर्गी च पञ्चमः॥ 47 ॥
स्त्रीबालस्वामिमित्त्रघ्नो गोघ्नो विश्वासघातकः।
सुरापो ब्रह्महा चोरो यान्त्येते सर्वनारकान्॥ 48 ॥
कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै।
ते मोहमृत्यवः सर्वे तथा ये वेदनिन्दकाः॥ 49 ॥
घटं भिन्द्यात्पटं छिन्द्यात्कुर्याद्रासभरोहणम्।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत्॥ 50 ॥
न हीदृशं 1सम्वननं त्रिषु लोकेषु विद्यते।
दया मैत्री च भूतेषु दानं च मधुरा च वाक्॥ 51 ॥

विवादो धनसम्बन्धो याचनं स्त्रीषु सङ्गतिः।
आदानमग्रतः स्थानं मैत्त्रीभङ्गस्य हेतवः॥ 52 ॥
दर्शितानि कलत्राणि गृहे भुक्तमशङ्कितम्।
कथितानि रहस्यानि सौहृदं किमतः परम्॥ 53 ॥
दुःखेन श्लिष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते।
भिन्नश्लिष्टा तु या प्रीतिः सा दुःखैकप्रदायिनी॥ 54 ॥
ययोरेव समं वित्तं ययोरेव समं कुलम्।
तयोर्मैत्त्री विवाहश्च न तु पुष्टविपुष्टयोः॥ 55 ॥
उत्तमा आत्मना ख्याताः पितुः ख्याताश्च मध्यमाः।
अधमा मातुलात्ख्याताः श्वशुराच्चाधमाधमाः॥ 56 ॥
ऋणशेषश्चाग्निशेषः शत्रुशेषस्तथैव च।
पुनः पुनः प्रवर्तन्ते तस्माच्छेषं न रक्षयेत्॥ 57 ॥
कुभोज्येन दिनं नष्टं कुकलत्रेण शर्वरी।
कुपुत्रेण कुलं नष्टं तन्नष्टं यन्न दीयते॥ 58 ॥
बर्बरश्च तपस्वी स्याच्छूरश्चाप्यकृतव्रणः।
मद्यपा स्त्री सती राजन्निति न श्रद्दधामहे॥ 59 ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः॥ 60 ॥
सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः।
तन्मित्त्रं यत्र विश्वासः स देशो यत्र जीव्यते॥ 61 ॥
व्रजत्यधः प्रत्यात्युच्चैर्नः स्वैरेव चेष्टितैः।
अधः कूपस्य खनक ऊर्ध्वं प्रासादकारकः॥ 62 ॥
कुर्यान्न परदारेच्छां विश्वासं स्त्रीषु वर्जयेत्।
हतो दशास्यः सीतार्थी हतः पत्न्या विदूरथः॥ 63 ॥
न मद्यव्यसनी 1क्षीबः कुर्याद्वेतालचेष्टितम्।
वृष्णयो हि ययुः क्षीबास्तृणैः प्रहरणैः क्षयम्॥ 64 ॥

दानं सत्त्वाश्रितं कुर्यान्न पश्चात्तापवान्भवेत्।
बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये॥ 65 ॥
न स्त्रीजितः प्रमूढः स्याद्गाढरागवशीकृतः।
पुत्रशोकाद्दशरथो जीवं जायाजितोऽत्यजत्॥ 66 ॥
क्षिपेद्वाक्यशरान्घोरान्न पारुष्यविषप्लुतान्।
वाक्पारुष्यरुषा चक्रे भीमः कुरु कुलक्षयम्॥ 67 ॥
परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभुप्रियम्।
पैशुन्येन गतौ राहोश्चन्द्रार्कौ भक्षणीयताम्॥ 68 ॥
कुर्यान्नीचजनाभ्यस्तां न याञ्चां मानहारिणीम्।
बलिप्रार्थनया प्राप लघुतां पुरुषोत्तमः॥ 69 ॥
वक्रैः क्रूरतरैर्लुब्धैर्न कुर्यात्प्रीतिसङ्गतिम्।
वसिष्ठस्याहरद्धेनुं विश्वामित्त्रो निमन्त्रितः॥ 70 ॥
तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत्।
विश्वामित्त्रोऽपि सोत्कण्ठं कण्ठे जग्राह मेनकाम्॥ 71 ॥
भक्तं रक्तं सदाभक्तं निर्दोषं न परित्यजेत्।
रामस्त्यक्त्वा सतीं सीतां शोकशल्याकुलोऽभवत्॥ 72 ॥
वर्जयेदिन्द्रियजयी निर्जने जननीमपि।
पुत्रीकृतोऽपि प्रद्युम्नः कामितः शम्बरस्त्रिया॥ 73 ॥
प्रभुप्रसादे विश्वासं न कुर्यात्स्वप्नसन्निभे।
नन्देन मन्त्री निक्षिप्तः शकटारोपि बन्धने॥ 74 ॥
अप्युन्नतपदारूढः पूज्यान्नैवापमानयेत्।
नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमाननात्॥ 75 ॥
हितोपदेशं शृणुयात्कुर्वीत च यथोदितम्।
विदुरोक्तमकृत्वाभूत्कौरवः शोकशल्यभाक्॥ 76 ॥
न पुत्रायत्तमैश्वर्यं कुर्यादार्यः कथञ्चन।
पुत्रार्पितप्रभुत्वोऽभूद्धृतराष्ट्रस्तृणोपमः॥ 77 ॥
श्रुतिस्मृत्युक्तमाचारं न त्यजेत्साधुसेवितम्।
दैत्यानां श्रीवियोगोऽभूत्सत्यधर्मक्रियामुचाम्॥ 78 ॥
नदीनां नखिनां चैव शृङ्गिणां शस्त्रपाणिनाम्।
विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च॥ 79 ॥
न कुर्यादभिचारोग्रवश्यादिकुहकक्रियाम्।
लक्ष्मणेनेन्द्रजित्कृत्याभिचारसमये हतः॥ 80 ॥
व्याकुलोऽपि विपत्पातैः स्मरेद्विष्णुं सदा हृदि।
शरतल्पगतो भीष्मः सस्मार गरुडध्वजम्॥ 81 ॥
चिन्ता जरा मनुष्याणामनध्वा वाजिनां जरा।
असम्भोगो जरा स्त्रीणां वस्त्राणामातपो जरा॥ 82 ॥
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता॥ 83 ॥
पञ्चभिः सह गन्तव्यं स्थातव्यं पञ्चभिः सह।
पञ्चभिः सह वक्तव्यं न दुःखं पञ्चभिः सह॥ 84 ॥
यान्ति 1न्यायप्रवृत्तस्य तिर्य2ञ्चोऽपि सहायताम्।
अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति॥ 85 ॥

विद्याभ्यासो विचारश्च समयोरेव शोभते।
विवाहश्च विवादश्च समयोरेव शोभते॥ 86 ॥
लक्ष्मीर्वसति जिह्वाग्रे जिह्वाग्रे मित्त्रबान्धवाः।
जिह्वाग्रे बन्धनं प्राप्तं जिह्वाग्रे मरणं ध्रुवम्॥ 87 ॥
यस्मिन्देशे न सम्मानो न प्रीतिर्न च बान्धवाः।
न च विद्यागमः कश्चिन्न तत्र दिवसं वसेत्॥ 88 ॥
वहेदमित्रं स्कन्देन यावत्कालविपर्ययः।
अथैवमागते काले भिन्द्याद्घटमिवाश्मनि॥ 89 ॥
सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पण्डितः।
अर्धेन कुरुते कार्यं सर्वनाशो न जायते॥ 90 ॥
मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च।
द्विषतां सम्प्रयोगेण पण्डितोऽप्यवसीदति॥ 91 ॥
मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च।
चतुर्णामपि चैतेषां निष्कृतिर्नैव विश्रुता॥ 92 ॥
गतश्रीर्गणकान्द्वेष्टि गतायुश्च चिकित्सकान्।
गतश्रीश्च गतायुश्च ब्राह्मणान्द्वेष्टि भारत॥ 93 ॥
आत्मबुद्धिः सुखायैव गुरुबुद्धिर्विशेषतः।
परबुद्धिर्विनाशाय स्त्रीबुद्धिः प्रलयावहा॥ 94 ॥
विस्मयः सर्वथा हेयः1 प्र2त्यूहः सर्वकर्मणाम्।
तस्माद्विस्मयमुत्सृज्य साध्यसिद्धिर्विधीयताम्॥ 95 ॥

विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम्।
नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि॥ 96 ॥
लुब्धमर्थेन गृह्णीयात्क्रुद्धमञ्जलिकर्मणा।
मूर्खं छन्दानुवृत्त्या च तत्त्वार्थेन च पण्डितम्॥ 97 ॥
जानीयात्सङ्गरे भृत्यान्बान्धवान्व्यसनागमे।
आपत्कालेषु मित्त्राणि भार्यां च विभवक्षये॥ 98 ॥
खरं श्वानं गजं मत्तं रण्डां च बहुभाषिणीम्।
राजपुत्रं कुमित्त्रं च दूरतः परिवर्जयेत्॥ 99 ॥
दूरस्थं जलमध्यस्थं धावन्तं धनगर्वितम्।
क्रोधवन्तं मदोन्मत्तं नमस्कारेऽपि वर्जयेत्॥ 100 ॥
पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु।
लुब्धेन सञ्चितं द्रव्यं समूलं च विनश्यति॥ 101 ॥
न सारणीया धीरेण रसना नीरसे जने।
को नाम कुरुते 3फेरौ नायकः सायकक्षतिम्॥ 102 ॥

धातुवादेषु वित्ताशा मोक्षाशा कौलिके मते।
जामातरि च पुत्राशा त्रयमेतन्निरर्थकम्॥ 103 ॥
द्वाविमौ पुरुषौ लोके सुखिनौ न कदाचन।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः॥ 104 ॥
द्वाविमौ पुरुषौ लोके परप्रत्ययकारकौ।
स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः॥ 105 ॥
द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः॥ 106 ॥
द्वाविमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान्॥ 107 ॥
द्वाविमौ पुरुषौ लोके न भूतौ न भविष्यतः।
प्रार्थितं यश्च कुरुते यश्च नार्थयते परम्॥ 108 ॥
द्वाविमौ पुरुषौ लोके शिरःशूलकरावुभौ।
गृहस्थश्च निरारम्भो यतिश्च सपरिग्रहः॥ 109 ॥
शत्रुर्दहति संयोगे वियोगे मित्त्रमप्यहो।
उभयोर्दुःखदायित्वं को भेदः शत्रुमित्त्रयोः॥ 110 ॥
दुष्टा भार्या शठं मित्त्रं भृत्यश्चोत्तरदायकः।
ससर्पे च गृहे वासो मृत्युरेव न संशयः॥ 111 ॥
ददतो युध्यमानस्य पठतः पुलको न चेत्।
आत्मनश्च परेषां च धिक्त्यागं पौरुषं श्रुतम्॥ 112 ॥
न तद्भुक्तं न तत्पीतं न तत्सुप्तं न तद्गतम्।
यन्मांसमाहिषक्षीर4ललनावा5जिवर्जितम्॥ 113 ॥

निःसारस्य पदार्थस्य प्रायेणाडम्बरो महान्।
न सुवर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते॥ 114 ॥
मासि मासि समा ज्योत्स्ना पक्षयोरुभयोरपि।
तत्रैकः शुक्लपक्षोऽभूद्यशः पुण्यैरवाप्यते॥ 115 ॥
मत्स्यादयोऽपि जानन्ति नीरक्षीरविवेचनम्।
प्रसिद्धिरेव हंसस्य यशः पुण्यैरवाप्यते॥ 116 ॥
पञ्चभिः कामिता कुन्ती तद्वधूरथ पञ्चभिः।
सतीं वदति लोकोऽयं यशः पुण्यैरवाप्यते॥ 117 ॥
सौभाग्यं विरलस्य स्यात्समकर्मगुणेष्वपि।
षड्विंशदायुधा पृथ्वी खड्गायत्तैव दृश्यते॥ 118 ॥
हस्तादपि न दातव्यं गृहादपि न दीयते।
परोपकरणार्थाय वचने किं दरिद्रता॥ 119 ॥
वनानि दहतो वह्नेः सखा भवति मारुतः।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम्1॥ 120 ॥

भोज्यं भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः।
विभवो दानशक्तिश्च नाल्पस्य तपसः फलम्॥ 121 ॥
जानन्ति हि गुणान्वक्तुं तद्विधा एव तादृशाम्।
वेत्ति विश्वम्भरा भारं गिरीणां गरिमाश्रयम्॥ 122 ॥
जीवन्तोऽपि मृताः पञ्च व्यासेन परिकीर्तिताः।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः॥ 123 ॥
अत्यासन्ना विनाशाय दूरतश्चाफलप्रदाः।
मध्यभावेन सेव्यन्ते राजा वह्निर्गुरुः स्त्रियः॥ 124 ॥
अमृतं दुर्लभं नॄणां देवानामुदकं तथा।
पितॄणां दुर्लभः पुत्रस्तक्रं शक्रस्य दुर्लभम्॥ 125 ॥
2शनैः पन्थाः शनैः कन्था शनैः पर्वतमस्तके।
शनैर्विद्या शनैर्वित्तं पञ्चै3तानि शनैः 4शनैः॥ 126 ॥

5अन्वयागतविद्यानामन्वयागतसम्पदाम्।
विदुषां च प्रभूणां च हृदयं 6नावलिप्यते॥ 127 ॥

मक्षिका मशको वेश्या मूषको याचकस्तथा।
ग्रामणीर्गणकश्चैव सप्तैते परभक्षकाः॥ 128 ॥
अकृतोपद्रवः कश्चिन्महानपि न पूज्यते।
अर्चयन्ति नरा नागं न तार्क्ष्यं न गजादिकम्॥ 129 ॥
शोभन्ते विद्यया विप्राः क्षत्रिया विजयश्रिया।
श्रियोऽनुकूलदानेन लज्जया च 7कुलाङ्गनाः॥ 130 ॥

ब्राह्मणा गणका वेश्याः 8सारमेयाश्च कुक्कुटाः।
दृष्टेष्वन्येषु कुप्यन्ति न जाने तस्य कारणम्॥ 131 ॥

पुत्रपौत्रवधूभृत्यैः सम्पूर्णमपि सर्वदा।
भार्याहीनगृहस्थस्य शून्यमेव गृहं मतम्॥ 132 ॥
अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा।
तदिदं देहि देहीति विपरीतमुपस्थितम्॥ 133 ॥
नवे वयसि यः शान्तः स शान्त इति मे मेतिः।
धातुषु क्षीयमाणेषु शान्तिः कस्य न जायते॥ 134 ॥
धिग्गृहं गृहिणीशून्यं धिक्कलत्रमपुत्रकम्।
धिक्पुत्रमविनीतं च धिग्ज्योतिषमजातकम्॥ 135 ॥
अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च।
अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः॥ 136 ॥
दुर्मन्त्री राज्यनाशाय ग्रामनाशाय 1कुञ्जरः।
श्यालको गृहनाशाय सर्वनाशाय मातुलः॥ 137 ॥

जले तैलं खले गुह्यं पात्रे दानं 2मनागपि।
प्राज्ञे शास्त्रं स्वयं याति विस्तारं 3वस्तुशक्तितः॥ 138 ॥

उद्योगः कलहः कण्डूर्द्यूतं मद्यं परस्त्रियः।
आहारो मैथुनं निद्रा सेवनात्तु विवर्धते॥ 139 ॥
कृतार्थः स्वामिनं द्वेष्टि 4कृतदारस्तु मातरम्।
जातापत्या पतिं द्वेष्टि गतरोगश्चिकित्सकम्5॥ 140 ॥

चक्षुः6पूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्।
सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत्॥ 141 ॥

नास्ति यज्ञः स्त्रियः किञ्चिन्न व्रतं नोपवासकम्।
या तु भर्तरि शुश्रूषा तया स्वर्गं जयत्यसौ॥ 142 ॥
शुचि भूमिगतं तोयं शुचिर्नारी पतिव्रता।
शुचिः क्षेमकरो राजा सन्तोषी ब्राह्मणः शुचिः॥ 143 ॥
नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने।
वत्सोऽपि स्तनपाने स्याच्छ्वा मृगग्रहणे शुचिः॥ 144 ॥
भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च।
तस्मात्सर्वं परित्यज्य पतिमेकं भजेत्सती॥ 145 ॥
असारे खलु संसारे सारमेतच्चतुष्टयम्।
काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्भुसेवनम्॥ 146 ॥
उदारस्य तृणं वित्तं शूरस्य मरणं तृणम्।
विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत्॥ 147 ॥
सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः।
ब्राह्मणोऽग्निर्यमो राजा पयोधिरुदरं गृहम्॥ 148 ॥
कल्पान्तवाससङ्क्षोभलङ्घिताशेषभूभृतः।
स्थैर्यप्रसादमर्यादास्ता एव हि महोदधेः॥ 149 ॥
सम्पत्सरस्वती सत्यं सन्तानं सदनुग्रहः।
सत्ता सुकृतसम्भारः सकाराः सप्त दुर्लभाः॥ 150 ॥
अभ्रच्छाया खलप्रीतिर्नवसस्यानि योषितः।
किञ्चित्कालोपभोग्यानि यौवनानि धनानि च॥ 151 ॥
परोऽपि हितवान्बन्धुर्बन्धुरप्यहितः परः।
अहितो देहजो व्याधिर्हितमारण्यमौषधम्॥ 152 ॥
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥ 153 ॥
सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः।
तत्र सौरभनिर्माणे चतुरश्चतुराननः॥ 154 ॥
साक्षरं पुरुषं दृष्ट्वा यो नरो नाभिमन्यते।
बलीवर्दसमो लोके खुरशृङ्गविवर्जितः॥ 155 ॥
को न याति वशं लोके मुखे पिण्डेन पूरितः।
मृदङ्गो मुखलेपेन करोति मधुरध्वनिम्॥ 156 ॥
लुब्धानां याचकः शत्रुश्चोराणां चन्द्रमा रिपुः।
जारस्त्रीणां पतिः शत्रुर्मूर्खाणां बोधको रिपुः॥ 157 ॥
अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम्।
अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः॥ 158 ॥
परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै।
विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते॥ 159 ॥
गुणिनां निर्गुणानां च दृश्यते महदन्तरम्।
1हारः कण्ठगतः स्त्रीणां नूपुराणि च पादयोः॥ 160 ॥

अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी।
अलभ्येषु मनस्तापः सञ्चितार्थो विनश्यति॥ 161 ॥
शत्रुवाक्यामृतं श्रुत्वा तेन सौहार्दमार्जवम्।
नहि धीरेण कर्तव्यमात्मनः शुभमिच्छता॥ 162 ॥
शूराश्च कृतविद्याश्च रूपवत्यश्च योषितः।
यत्र यत्र गमिष्यन्ति तत्र तत्र कृतादराः॥ 163 ॥
चत्वारो धनदायादा धर्माग्निनृपतस्कराः।
तेषां ज्येष्ठावमानेन त्रयः कुप्यन्ति बान्धवाः॥ 164 ॥
शीलभारवती कान्ता पुष्पभारवती लता।
अर्थबारवती वाणी भजते 2कामपि 3श्रियम्॥ 165 ॥

पूरोत्पीडे तडागस्य 4परीवाहः 5प्रतिक्रिया।
शोकक्षोभे च हृदयं प्रलापैरेव धार्यते॥ 166 ॥

उपभोक्तुं न जानाति श्रियं प्राप्यापि मानवः।
आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया॥ 167 ॥
आर्ता देवान्नमस्यन्ति तपः कुर्वन्ति रोगिणः।
निर्धना दानमिच्छन्ति वृद्धा नारी पतिव्रता॥ 168 ॥
जामाता जठरं जाया जातवेदा जलाशयः।
पूरिता नैव पूर्यन्ते जकाराः पञ्च दुर्भराः॥ 169 ॥
जननी जन्मभूमिश्च जाह्नवी च जनार्दनः।
जनकः पञ्चमश्चैव जकाराः पञ्च दुर्लभाः॥ 170 ॥
सा श्रीर्या न मदं कुर्यात्स सुखी तृष्णयोज्झितः।
तन्मित्त्रं यत्र विश्वासः पुरुषः स जितेन्द्रियः॥ 171 ॥
सुलभं वस्तु सर्वस्य न यात्यादरणीयताम्।
स्वदारपरिहारेण परदारार्थिनो जनाः॥ 172 ॥
एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि 6गर्हितम्।
गतानुगतिको लोको न लोकः परमार्थिकः॥ 173 ॥

क्वचिद्रष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे।
अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः॥ 174 ॥
गुरुपत्न्यां निशाधीशो ब्राह्मण्यां पाकशासनः।
गतः पञ्चेषु लक्ष्यत्वं का कथान्यस्य देहिनः॥ 175 ॥
यस्मिन्रुष्टे भयं नास्ति तुष्टे नैव धनागमः।
निग्रहानुग्रहौ न स्तः स रुष्टः किं करिष्यति॥ 176 ॥
आलस्योपहता विद्या परहस्तगताः स्त्रियः।
अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम्॥ 177 ॥
निर्विषेणापि सर्पेण कर्तव्या महती फणा।
विषमस्तु न चाप्यस्तु फटाटोपो भयङ्करः॥ 178 ॥
एक एव पदार्थस्तु त्रिधा भवति वीक्षितः।
1कृणपः कामिनी मांसं योगिभिः कामिभिः श्वभिः॥ 179 ॥

नारी परमुखद्रष्ट्री कविरव्यवहारवित्।
अपथ्यसेवी रोगी च कियद्भिर्नोपहस्यते॥ 180 ॥
अन्यदा भूषणं पुंसां क्षमा लज्जेव योषिताम्।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव॥ 181 ॥
सांसारिकमुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम्।
कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा॥ 182 ॥
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे।
साधवो नहि सर्वत्र चन्दनं न वने वने॥ 183 ॥
प्रीतिर्लक्ष्मीर्व्ययः क्लेशः सा किं सा किं स किं स किम्।
या लोभाद्या परद्रोहात्परार्थे यः परार्थकृत्॥ 184 ॥
मनो मधुकरो मेघो मानिनी मदनो मरुत्।
मा मदो मर्कटो मत्स्यो मकारा दश चञ्चलाः॥ 185 ॥
यावज्जीवं सुखं जीवेदृष्टं कृत्वा घृतं पिबेत्।
भस्मीभूतस्य जीवस्य पुनरागमनं कुतः॥ 186 ॥
असार एष संसारः सारं सारङ्गलोचनाः।
तदर्थं धनमिच्छन्ति तत्त्यागे तु धनेन किम्॥ 187 ॥
सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी।
अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी॥ 188 ॥
उपाध्यायश्च वैद्यश्च ऋतुकाले वरस्त्रियः।
सूतिका दूतिका नौका कार्यान्ते ते च शष्पवत्॥ 189 ॥
विशाखान्ता गता मेघाः प्रसूतान्तं च यौवनम्।
प्रणामान्तः सतां कोपो याचनान्तं हि गौरवम्॥ 190 ॥
कृतान्तपाशबद्धानां दैवोपहतचेतसाम्।
बुद्धयः कुब्जगामिन्यो भवन्ति महतामपि॥ 191 ॥
सदयं हृदयं यस्य भाषितं सत्यभूषितम्।
कायः परहिते यस्य कलिस्तस्य करोति किम्॥ 192 ॥
अपत्यदर्शनस्यार्थे प्राणानपि च या त्यजेत्।
त्यजन्ति तामपि क्रूरा मातरं दारहेतवे॥ 193 ॥
पुत्रसूः पाककुशला पवित्रा च पतिव्रता।
पद्माक्षी पञ्चपैर्नारी भुवि सय्याति गौरवम्॥ 194 ॥
दातुरुन्नतवित्तस्य गुणयुक्तस्य चार्थिनः।
दुर्लभः खलु संयोगः सद्बीजक्षेत्रयोरिव॥ 195 ॥
आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः।
परिज्ञानफलं विद्या दत्तभुक्तफलं धनम्॥ 196 ॥
आयुर्वित्तं गृहच्छिद्रं मन्त्रमौषधमैथुने।
दानं मानापमानौ च नव गोप्यानि कारयेत्॥ 197 ॥
अग्नौ दग्धं जले मग्नं हृतं तस्करपार्थिवैः।
तत्सर्वं दानमित्याहुर्यदि क्लैब्यं न भाषते॥ 198 ॥
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम्।
विनयो वंशमाख्याति देशमाख्याति भाषितम्॥ 199 ॥
किं विद्यया किं तपसा किं योगेन श्रुतेन च।
किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम्॥ 200 ॥
यश्च मूढतमो लोके यश्च बुद्धेः परं गतः।
तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः॥ 201 ॥
त्यजेत्स्वामिनमत्युग्रमत्युग्रात्कृपणं त्यजेत्।
कृपणादविशेषज्ञं तस्माच्च कृतशासनम्॥ 202 ॥
पात्रापात्रविवेकोऽस्ति धेनुपन्नगयोरिव।
तृणात्सञ्जायते क्षीरं क्षीरात्सञ्जायते विषम्॥ 203 ॥
शनैर्विद्यां शनैरर्थानारोहेत्पर्वतं शनैः।
शनैरध्वसु वर्तेत योजनान्न परं व्रजेत्॥ 204 ॥
द्यूतं पुस्तकवाद्ये च नाटकेषु च सक्तिता।
स्त्रियस्तन्द्री च निद्रा च विद्याविघ्नकराणि षट्॥ 205 ॥
अतिथिर्बालकः पत्नी जननी जनकस्तथा।
पञ्चैते गृहिणः पोष्या इतरे च स्वशक्तितः॥ 206 ॥
गाढं गुणवती विद्या न मुदे विनयं विना।
मूर्खतापि मुदे भूयान्महत्सु विनयान्विता॥ 207 ॥
अहो साहजिकं प्रेम दूरादपि विराजते।
चकोरनयनद्वन्द्वमाह्लादयति चन्द्रमाः॥ 208 ॥
साक्षरा विपरीताश्चेद्राक्षसा एव केवलम्।
सरसो विपरीतश्चेत्सरसत्वं न मुञ्चति॥ 209 ॥
यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा।
परापवादसस्येभ्यो गां चरन्तीं निवारय॥ 210 ॥
एकस्तपो द्विरध्यायी त्रिभिर्गीतं चतुः पथम्।
सप्त पञ्च कृषीणां च सङ्ग्रामो बहुभिर्जनैः॥ 211 ॥
काकः पक्षिषु चाण्डालः स्मृतः पशुषु गर्दभः।
नराणां कोऽपि चाण्डालः स्मृतः सर्वेषु निन्दकः॥ 212 ॥
दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता।
अभ्यासेन न लभ्येयुश्चत्वारः सहजा गुणाः॥ 213 ॥
लोभमूलानि पापानि रसमूलानि व्याधयः।
इष्टमूलानि शोकानि त्रीणि त्यक्त्वा सुखी भव॥ 214 ॥
प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः।
त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः॥ 215 ॥
सुखार्थी त्यजते विद्यां विद्यार्थी त्यजते सुखम्।
सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम्॥ 216 ॥
अन्नदानात्परं दानं विद्यादानमतः परम्।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया॥ 217 ॥
दूरस्थाः पर्वता रम्या वेश्या च मुखमण्डने।
युद्धस्य वार्ता रम्या च त्रीणि रम्याणि दूरतः॥ 218 ॥
माता यदि विषं दद्याद्विक्रीणाति पिता सुतम्।
राजा हरति सर्वस्वं तत्र का परिदेवना॥ 219 ॥
अहेरिव गणाद्भीतः परान्नाच्च विषादिव।
राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति॥ 220 ॥
अवज्ञात्रुटितं प्रेम नवीकर्तुं क ईश्वरः।
सन्धिं न याति स्फुटितं लाक्षालेपेन मौक्तिकम्॥ 221 ॥
सन्निकर्षोऽत्र मर्त्यानामनादरणकारणम्।
गाङ्गं हित्वा यथान्याम्भस्तत्रत्यो याति शुद्धये॥ 222 ॥
लेखनी पुस्तकं रामा परहस्ते गता गता।
कदाचित्पुनरायाता भ्रष्टा मुष्टा च चुम्बिता॥ 223 ॥
पूर्वदत्तेषु या विद्या पूर्वदत्तेषु यद्धनम्।
पूर्वदत्तेषु या भार्या अग्रे धावति धावति॥ 224 ॥
श्रुत्वा धर्मं विजानाति श्रुत्वा त्यजति दुर्मतिम्।
श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च विन्दति॥ 225 ॥
मनो धावति सर्वत्र मदोन्मत्तगजेन्द्रवत्।
ज्ञानाङ्कुशसमा बुद्धिस्तस्य निश्चलते मनः॥ 226 ॥
इच्छेच्चेद्विपुलां मैत्त्रीं त्रीणि तत्र न कारयेत्।
वाग्वादमर्थसम्बन्धं तत्पत्नीपरिभाषणम्॥ 227 ॥
अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम्।
अमृतं राहवे मृत्युर्विषं रुद्रस्य भूषणम्॥ 228 ॥
पण्डिते चैव मूर्खे च बलवत्यदि दुर्जने।
ईश्वरे च दरिद्रे च मृत्योः सर्वत्र तुल्यता॥ 229 ॥
सङ्ग्रामे सुभटेन्द्राणां कवीनां कविमण्डले।
दीप्तिर्वा दीप्तिहानिर्वा मुहूर्तादेव जायते॥ 230 ॥
विषस्य विषयाणां हि दृश्यते महदन्तरम्।
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि॥ 231 ॥
पुराणान्ते श्मशानान्ते मैथुनान्ते च या मतिः।
सा मतिः सर्वदा चेत्स्यात्को न मुच्येत बन्धनात्॥ 232 ॥
आकारेणैव चतुरास्तर्कयन्ति परेङ्गितम्।
गर्भस्थं केतकीपुष्पमामोदेनेव षट्पदाः॥ 233 ॥
न ज्ञातुं नाप्यनुज्ञातुं नेक्षितुं नाप्युपेक्षितुम्।
स्वजनः स्वजने जातं विपत्पातं समीहते॥ 234 ॥
प्रायो दुरन्तपर्यन्ताः सम्पदोऽपि दुरात्मनाम्।
भवन्ति हि सुखोदर्का विपदोऽपि महात्मनाम्॥ 235 ॥
उदर्कभूतिमिच्छद्भिः सद्भिः खलु न दृश्यते।
चतुर्थीचन्द्रलेखेव परस्त्रीभालपट्टिका॥ 236 ॥
अकाण्डपातजातानामार्द्राणां मर्मभेदिनाम्।
गाढशोकप्रहाराणामचिन्तैव महौषधम्॥ 237 ॥
अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा।
निमित्तादपराद्धेषोर्धानुष्कस्यैव वल्गितम्॥ 238 ॥
शम्भुः श्वेतार्कपुष्पेण चन्द्रमा वस्त्रतन्तुना।
अच्युतः स्मृतिमात्रेण साधवः करसम्पुटैः॥ 239 ॥
अकृत्वा पौरुषं या श्रीर्विकासिन्यपि किं तया।
जरद्गवोऽपि चाश्नाति दैवादुपगतं तृणम्॥ 240 ॥
मन्दाकिनीपयःपानं मन्दाक्षीमुखचुम्बनम्।
मन्दरोपवनक्रीडा मन्दानुष्ठानतः कुतः॥ 241 ॥
दीपो भक्षयते ध्वान्तं कज्जलं च प्रसूयते।
यदन्नं भक्षयेन्नित्यं जायते तादृशी प्रजा॥ 242 ॥
मौनं कालविलम्बश्च प्रयाणं भूमिदर्शनम्।
भृकुट्यन्यमुखी वार्ता नकारः षड्विधः स्मृतः॥ 243 ॥
अक्षराणि परीक्ष्यन्तामम्बराडम्बरेण किम्।
शम्भुरम्बरहीनोऽपि सर्वज्ञः किं न जायते॥ 244 ॥
दोषोऽपि गुणतां याति प्रभोर्भवति चेत्कृपा।
अङ्गहीनोऽपि सूर्येण सारथ्ये योजितोऽरुणः॥ 245 ॥
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत्।
नीचमल्पप्रदानेन इष्टं धर्मेण योजयेत्॥ 246 ॥
अकुले पतितो राजा मूर्खपुत्रो हि पण्डितः।
निर्धनस्य धनप्राप्तिस्तृणवन्मन्यते जगत्॥ 247 ॥
लोकेषु निर्धनो दुःखी ऋणग्रस्तस्ततोऽधिकम्।
ताभ्यां रोगयुतो दुःखी तेभ्यो दुःखी कुभार्यकः॥ 248 ॥
आज्ञाभङ्गो नरेन्द्राणां विप्राणां मानखण्डनम्।
पृथक्शय्या च नारीणामशस्त्रवध उच्यते॥ 249 ॥
प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम्।
आत्मशक्तिसमं कोपं कुर्वाणो न विनश्यति॥ 250 ॥
पठकः पाठकश्चैव ये चान्ये शास्त्रपाठकाः।
सर्वे व्यसनिनो ज्ञेया यः क्रियावान्स पण्डितः॥ 251 ॥
पण्डितैःसह साङ्गत्यं पण्डितैः सह सह्कथाः।
पण्डितैः सह मित्त्रत्वं कुर्वाणो नावसीदति॥ 252 ॥
शीलं शौर्यमनालस्यं पाण्डित्यं मित्त्रसङ्ग्रहः।
अचोरहरणीयानि पञ्चैतान्यक्षयो निधिः॥ 253 ॥
मातृवत्परदाराणि परद्रव्याणि लोष्टवत्।
आत्मवत्सर्वभूतानि यः पश्यति स पश्यति॥ 254 ॥
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्॥ 255 ॥
स जीवति गुणा यस्य धर्मो यस्य स जीवति।
गुणधर्मविहीनो यो निष्फलं तस्य जीवितम्॥ 256 ॥
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा।
अथवा विद्यया विद्या चतुर्थी नोपलभ्यते॥ 257 ॥
षट्पदः पुष्पमध्यस्थो यथा सारं समुद्धरेत्।
तथा सर्वेषु शास्त्रेषु सारं गृह्णन्ति पण्डिताः॥ 258 ॥
गुणान्भूषयते रूपं शीलं भूषयते कुलम्।
सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम्॥ 259 ॥
अगुणस्य हतं रूपमशीलस्य हतं कुलम्।
असिद्धेस्तु हता विद्या अभोगस्य हतं धनम्॥ 260 ॥
दिवा पश्यति नोलूकः काको नक्तं न पश्यति।
अपूर्वः कोऽपि कामान्धो दिवा नक्तं न पश्यति॥ 261 ॥
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्॥ 262 ॥
मुख्यमेकं पुरस्कृत्य शून्यात्मानोऽपि साधकाः।
भवन्ति तं विना नैव यथा सङ्ख्याङ्कबिन्दवः॥ 263 ॥
वचस्तत्रैव वक्तव्यं यत्रोक्तं सफलं भवेत्।
स्थायीभवति चात्यन्तं रङ्गः शुक्लपटे यथा॥ 264 ॥
पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।
जातौ जातौ नवाचारा नवा वाणी मुखे मुखे॥ 265 ॥
गान्धर्वं गन्धसंयुक्तं ताम्बूलं भारती कथा।
इष्टा भार्या प्रियं मित्रमपूर्वाणि दिन दिने॥ 266 ॥
विद्यया सह मर्तव्यं कुशिष्याय न दापयेत्।
तथापि दीयते विद्या पश्चात्सञ्जायते रिपुः॥ 267 ॥
मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम्।
तन्मध्ये भूतसञ्चारो यद्वा तद्वा भविष्यति॥ 268 ॥
पुस्तकेषु च या विद्या परहस्तेषु यद्धनम्।
सङ्ग्रामे च गृहे सैन्यं तिस्रः पुम्सां विडम्बनाः॥ 269 ॥
असावधाने पाण्डित्यं क्रयक्रीतं च मैथुनम्।
भोजनं च पराधीनं तिस्रः पुंसां विडम्बनाः॥ 270 ॥
पादेन क्रम्यते पन्था मानहीनं च भोजनम्।
अविवेकिप्रभोः सेवा पातकं किमतः परम्॥ 271 ॥
तुष्यन्ति भोजनैर्विप्रा मयूरा घनगर्जितैः।
साधवः परसन्तोषैः खलाः परविपत्तिषु॥ 272 ॥
प्रत्यक्षे गुरवः स्तुत्याः परोक्षे मित्त्रबान्धवाः।
कर्मान्ते दासभृत्याश्च पुत्रा नैव तथा स्त्रियः॥ 273 ॥
विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम्।
अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत कैतवम्॥ 274 ॥
धनधान्यप्रयोगेषु विद्यासङ्ग्रहणेषु च।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्॥ 275 ॥
मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा।
न कल्पमपि कृष्णेन लोकद्वयविरोधिना॥ 276 ॥
गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत्।
वर्तमानेन कालेन वर्तयन्ति विचक्षणाः॥ 277 ॥
स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषः पिता।
ज्ञातयस्त्वन्नपानेन वाक्प्रदानेन पण्डिताः॥ 278 ॥
नराणां नापितो धूर्तः पक्षिणां चैव वायसः।
चतुष्पदां शृगालस्तु स्वेच्छाचारी तपस्विनाम्॥ 279 ॥
चाण्डालः पक्षिणां काकः पशूनां चैव कुक्कुरः।
कोपो मुनीनां चाण्डालः चाण्डालः सर्वनिन्दकः॥ 280 ॥
भ्रमत्सम्पूज्यते चक्रं भ्रमन्सम्पूज्यते द्विजः।
भ्रमन्सम्पूज्यते राजा स्त्री भ्रमन्ती विनश्यति॥ 281 ॥
न पश्यति च जन्मान्धः कामान्धो नैव पश्यति।
न पश्यति मदोन्मत्तो ह्यर्थी दोषं न पश्यति॥ 282 ॥
स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते।
स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते॥ 283 ॥
खड्गमूलं भवेद्राज्यमस्त्रीमूलं स्थिरं भवेत्।
प्रजामूलं भवेदर्था वैरमूलं विनश्यति॥ 284 ॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी।
अविनीता रिपुर्भार्या पुत्रः शत्रुर1पण्डितः॥ 285 ॥

नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः।
नास्ति क्रोधसमो वह्निर्नास्ति ज्ञानात्परं सुखम्॥ 286 ॥
विद्या मित्त्रं प्रवासेषु भार्या मित्त्रं गृहेषु च।
व्याधितस्यौषधं मित्त्रं धर्मो मित्त्रं मृतस्य च॥ 287 ॥
नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम्।
नास्ति चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम्॥ 288 ॥
अधना धनमिच्छन्ति वादमिच्छन्ति गर्विताः।
मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः॥ 289 ॥
सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वायवो वान्ति सर्वं सत्ये प्रतिष्ठितम्॥ 290 ॥
हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम्।
श्रोत्रस्य भूषणं शास्त्रं भूषणे किं प्रयोजनम्॥ 291 ॥
युक्तमुक्तं पुराविद्भिश्चिन्ता 1जूर्तिः सुदारुणा।
न भेषजैर्लङ्घनैर्वा न चान्यैरुपशाम्यति॥ 292 ॥

आवासः क्रियतां गाङ्गे पापहारिणि वारिणि।
स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि॥ 293 ॥
सुभाषितरसास्वादः प्रौढस्त्रीसङ्गमस्तथा।
सेवा विवेकिनो राज्ञो दुःखनिर्मूलनं त्रयम्॥ 294 ॥
ईर्ष्यी घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः।
परभाग्योपजीवी च षडेते दुःखभागिनः॥ 295 ॥
नवं वस्त्रं नवं छत्रं नव्या स्त्री नूतनं गृहम्।
सर्वत्र नूतनं शस्तं सेवकान्ने पुरातने॥ 296 ॥
वृद्धस्य वचनं ग्राह्यमापत्काले ह्युपस्थिते।
सर्वत्रैवं विचारेण नाहारे न च मैथुने॥ 297 ॥
अतिदूरपथश्रान्ताश्छायां यान्ति च शीतलाम्।
शीतलाश्च पुनर्यान्ति का कस्य परिदेवना॥ 298 ॥
अपमानं पुरस्कृत्य मानं कृत्वा च पृष्ठके।
स्वकार्यमुद्धरेत्प्राज्ञः कार्यध्वंसो हि मूर्खता॥ 299 ॥
कृतस्य करणं नास्ति मृतस्य मरणं तथा।
गतस्य शोचनं नास्ति ह्येतद्वेदविदां मतम्॥ 300 ॥
नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि।
कुशकण्टकविद्धोऽपि प्राप्तकालो न जीवति॥ 301 ॥
निमग्नस्य पयोराशौ पर्वतात्पतितस्य च।
तक्षकेनापि दष्टस्य आयुर्मर्माणि रक्षति॥ 302 ॥
नानृषिः कुरुते काव्यं नारुद्रः क्रमपाठकः।
नादेवांशो ददात्यन्नं नाविष्णुः पृथिवीपतिः॥ 303 ॥
कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः।
मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः॥ 304 ॥
वह्निज्वालेव गृहिणी रक्षणीया प्रयत्नतः।
वृद्धिक्षयविकाराभ्यां स्वाश्रयक्षेममिच्छता॥ 305 ॥
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम्॥ 306 ॥
अस्थिरं जीवितं लोके अस्थिरे धनयौवने।
अस्थिरा पुत्रदाराश्च धर्मः कीर्तिर्द्वयं स्थिरम्॥ 307 ॥
लालयेत्पञ्च वर्षाणि दश वर्षाणि ताडयेत्।
प्राप्ते तु षोडशे वर्षे पुत्रं मित्त्रवदाचरेत्॥ 308 ॥
गणेशः स्तौति मार्जारं स्ववाहस्याभिरक्षणे।
महानपि प्रसङ्गेन नीचं सेवितुमिच्छति॥ 309 ॥
श्यामा मन्थरगामिन्यः पीनोन्नतपयोधराः।
महिष्यश्च महिष्यश्च सन्ति पुण्यवतां गृहे॥ 310 ॥
पदे पदे च रत्नानि योजने रसकूपिका।
भाग्यहीना न पश्यन्ति बहुरत्ना वसुन्धरा॥ 311 ॥
राजा वेश्या यमो वह्निः प्राघूर्णो बालयाचकौ।
परदुःखं न जानाति ह्यष्टमो ग्रामकण्टकः॥ 312 ॥
क्रोधो मूलमनर्थानां क्रोधः संसारबन्धनम्।
धर्मक्षयकरः क्रोधस्तस्मात्क्रोधं विवर्जयेत्॥ 313 ॥
प्रेम सत्यं तयोरेव ययोर्योगवियोगयोः।
वत्सरा वासरीयन्ति वासरीयन्ति वत्सराः॥ 314 ॥
किं धनेन कुबेरस्य सुभाषितगुणेन किम्।
वाचस्पतेश्च दीपेन रवेः सिन्धोश्च बिन्दुना॥ 315 ॥
मधुना सिञ्चयेन्निम्बं निम्बः किं मधुरायते।
जातिस्वभावदोषोऽयं कटुकत्वं न मुञ्चति॥ 316 ॥
कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि।
अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि॥ 317 ॥
अग्निहोत्रं गृहं क्षेत्रं मित्त्रं भार्यां सुतं शिशुम्।
रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम्॥ 318 ॥
उत्तमं स्वार्जितं भुक्तं मध्यमं पितुरार्जितम्।
कनिष्ठं भ्रातृवित्तं च स्त्रीवित्तमधमाधमम्॥ 319 ॥
अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्।
अधनस्य कुतो मित्त्रममित्रस्य कुतः सुखम्॥ 320 ॥
अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते।
अनाश्रया न शोभन्ते पण्डिता वनिता लताः॥ 321 ॥
विप्रार्थेषु धनक्षीणं स्वदारगतयौवनम्।
स्वामिकार्ये हतप्राणमन्ते तिष्ठति माधवः॥ 322 ॥
न विश्वेसदमित्रस्य मित्त्रस्यापि न विश्वसेत्।
कदाचित्कुपितं मित्त्रं सर्वं गुह्यं प्रकाशयेत्॥ 323 ॥
अभ्रच्छाया तृणाग्निश्च खले प्रीतिः स्थले जलम्।
वेश्यासक्तिः कुमित्त्रं च षडेते बुद्बुदोपमाः॥ 324 ॥
प्रमदा मदिरा लक्ष्मीर्विज्ञेया त्रिविधा सुरा।
दृष्ट्वैवोन्मादयत्येका पीता चान्यातिसञ्चयात्॥ 325 ॥
राजपत्नी गुरोः पत्नी भ्रातृपत्नी तथैव च।
पत्नीमाता स्वमाता च पञ्चैता मातरः स्मृताः॥ 326 ॥
इक्षुदण्डास्तिलाः शूद्राः कामिनी हेम मेदिनी।
दधि चन्दनताम्बूले मर्दनं गुणवर्धनम्॥ 327 ॥
पराधीनं वृथा जन्म परस्त्रीषु वृथा सुखम्।
परगेहे वृथा लक्ष्मीर्विद्या या पुस्तके वृथा॥ 328 ॥
असम्माने तपोवृद्धिः सम्मानाच्च तपः-क्षयः।
पूजया पुण्यहानिः स्यान्निन्दया सद्गतिर्भवेत्॥ 329 ॥
ध्यानशस्त्रं बकानां च वेश्यानां मोहशस्त्रकम्।
साधुत्वशस्त्रं मैन्दानां परप्राणार्थहारकम्॥ 330 ॥
ललितान्तानि गीतानि प्रसूतान्तं च यौवनम्।
विशाखान्ता मेघमाला तक्रान्तं खलु भोजनम्॥ 331 ॥
धातुः परीक्षा दुर्भिक्षे स्त्रीपरीक्षा च निर्धने।
युद्धे शूरपरीक्षा च मृत्योरत्यन्तमापदि॥ 332 ॥
अन्यमाश्रयते लक्ष्मीस्त्वन्यमन्यं च मेदिनी।
अनन्यगामिनी पुंसां कीर्तिरेका पतिव्रता॥ 333 ॥
न कालः खड्गमुद्यम्य शिरः कृन्तति कस्यचित्।
कालस्य बलमेतावद्विपरीतार्थदर्शनम्॥ 334 ॥
जानन्नपि जनो दैवात्प्रकरोति विगर्हिचित्।
न कर्म गर्हितं लोके कस्यचिद्रोचते कृतम्॥ 335 ॥
सद्भावेन जयेन्मित्त्रं सद्भावेन च बान्धवान्।
स्त्रीभृत्यान्दानमानाभ्यां दाक्षिण्येनेतरं जनम्॥ 336 ॥
सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने।
त्रिषु चैव न कर्तव्यो दाने तपसि पाठने॥ 337 ॥
न पुत्रात्परमो लाभो न भार्यायाः परं सुखम्।
न धर्मात्परमं मित्त्रं नानृतात्पातकं परम्॥ 338 ॥
1ज्यायाम्समपि शीलेन विहीनं नैव पूजयेत्।
अपि शूद्रं च धर्मज्ञं सद्वृत्तमभिपूजयेत्॥ 339 ॥

शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि।
सर्वदा सर्वयत्नेन पुत्रे शिष्यवदाचरेत्॥ 340 ॥
सुकुले योजयेत्कन्यां पुत्रं विद्यासु योजयेत्।
व्यसने योजयेच्छत्रुमिष्टं धर्मेण योजयेत्॥ 341 ॥
नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः।
पृथिवीभूषणं राजा विद्या सर्वस्य भूषणम्॥ 342 ॥
लालने बहवो दोषास्ताडने बहवो गुणाः।
तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत्॥ 343 ॥
दूरतः शोभते मूर्खो लम्बशाटपटावृतः।
तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषते॥ 344 ॥
सकृद्दुष्टं च मित्त्रं यः पुनः सन्धातुमिच्छति।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा॥ 345 ॥
न कश्चित्कस्यचिन्मित्त्रं न कश्चित्कस्यचिद्रिपुः।
कारेणन हि जायन्ते मित्त्राणि रिपवस्तथा॥ 346 ॥
हस्ती हस्तसहस्रेण शतहस्तेन वाजिनः।
शृङ्गिणो दशहस्तेन स्थानत्यागेन दुर्जनः॥ 347 ॥
आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि॥ 348 ॥
परदारं परद्रव्यं परीवादं परस्य च।
परीहासं गुरोः स्थाने चापल्यं च विवर्जयेत्॥ 349 ॥
अप्रगल्भस्य या विद्या कृपणस्य च यद्धनम्।
यच्च बाहुबलं भीरोर्व्यर्थमेतत्त्रयं भुवि॥ 350 ॥
शरीरनिरपेक्षस्य दक्षस्य व्यवसायिनः।
बुद्धिप्रारब्धकार्यस्य नास्ति किञ्चन दुष्करम्॥ 351 ॥
असूयया हतेनैव पूर्वोपायोद्यमैरपि।
कर्तॄणां गृह्यते सम्पत्सुहृद्भिर्मन्त्रिभिस्तथा॥ 352 ॥
अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे।
परापवादभीरूणां दूरतो यान्ति सम्पदः॥ 353 ॥
आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥ 354 ॥
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः।
एतदेव हि पाण्डित्यं न स्वल्पाद्भूरिनाशनम्॥ 355 ॥
अफलानि दुरन्तानि समव्ययफलानि च।
अशक्यानि च वस्तूनि नारभेत विचक्षणः॥ 356 ॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः।
इति सन्चिन्त्य मनसा प्राज्ञः कुर्वीत वा न वा॥ 357 ॥
देहे पातिनि का रक्षा यशो रक्ष्यमपातवत्।
नरः पतितकायोऽपि यशःकायेन जीवति॥ 358 ॥
निमेषमात्रमपि ते वयो गच्छन्न तिष्ठति।
तस्माद्देहेष्वनित्येषु कीर्तिमेकामुपार्जय॥ 359 ॥
बुधाग्रे न गुणान्ब्रूयात्साधु वेत्ति यतः स्वयम्।
मूर्खाग्रेऽपि च न ब्रूयाद्बुधप्रोक्तं न वेत्ति सः॥ 360 ॥
यावत्स्वस्थमिदं देहं यावन्मृत्युश्च दूरतः।
तावदात्महितं कुर्यात्प्राणान्ते किं करिष्यसि॥ 361 ॥
यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः॥ 362 ॥
मूलं दोषस्य हिंसादेरर्थकामौ स्म मा मुषः।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ॥ 363 ॥
अभिद्रोहेण भूतानामर्जयन्गत्वरीः श्रियः।
उदन्वानिव सिन्धूनामापदामेति पात्रताम्॥ 364 ॥
या गम्याः सत्सहायानां यासु खेदो भयं यतः।
तासां किं यन्न दुःखाय विपदामिव सम्पदाम्॥ 365 ॥
दुरासदानरीनुग्रान्धृतेर्निश्वासजन्मनः।
भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा॥ 366 ॥
नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते।
आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः॥ 367 ॥
कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः।
साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः॥ 368 ॥
कृतवानन्यदेहेषु कर्ता च विधुरं मनः।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह॥ 369 ॥
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे॥ 370 ॥
तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा॥ 371 ॥
युक्तः प्रमाद्यसि हितादपेतः परितप्यसे।
यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने॥ 372 ॥
जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीमिव चलाचलाम्।
भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः॥ 373 ॥
अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव।
व्रजत्यफलतामेव नयद्रुह इवेहितम्॥ 374 ॥
कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी।
तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता॥ 375 ॥
मनसा चिन्तितं कर्म वचसा न प्रकाशयेत्।
अन्यलक्षितार्थस्य यतः सिद्धिर्न जायते॥ 376 ॥
कुदेशं च कुवृत्तिं च कुभार्यां कुनदीं तथा।
कुद्रव्यं च कुभोज्यं च वर्जयेत्तु विचक्षणः॥ 377 ॥
अस्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च।
अभावे सति सन्तोषः स्वर्गस्थोऽसौ महीतले॥ 378 ॥
माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी।
अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्॥ 379 ॥
कोकिलानां स्वरो रूपं नारीरूपं पतिव्रतम्।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्॥ 380 ॥
अविद्यं जीवनं शून्यं दिक्शून्या चेदबान्धवा।
पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता॥ 381 ॥
अदाता वंशदोषेण कर्मधोषाद्दरिद्रता।
उन्मादो मातृदोषेण पितृदोषेण मूर्खता॥ 382 ॥
अतिदर्पे हता लङ्का अतिमाने च कौरवाः।
अतिदाने बलिर्बद्धः सर्वमत्यन्तगर्हितम्॥ 383 ॥
वस्त्रहीनस्त्वलङ्कारो घृतहीनं च भोजनम्।
स्तनहीना च या नारी विद्याहीनं च जीवनम्॥ 384 ॥
पुत्रप्रयोजना दाराः पुत्रः पिण्डप्रयोजनः।
हितप्रयोजनं मित्त्रं धनं सर्वप्रयोजनम्॥ 385 ॥
दुर्लभं संस्कृतं वाक्यं दुर्लभः क्षेमकृत्सुतः।
दुर्लभा सदृशी भार्या दुर्लभः स्वजनः प्रियः॥ 386 ॥
अशोच्यो निर्धनः प्राज्ञोऽशोच्यः पण्डितबान्धवः।
अशोच्या विधवा नारी पुत्रपौत्रप्रतिष्ठिता॥ 387 ॥
अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम्।
निराहाराः प्रजाः शोच्याः शोच्यं राज्यमराजकम्॥ 388 ॥
कुलीनैः सह सम्पर्कं पण्डितैः सह मित्त्रताम्।
ज्ञातिभिश्च समं मेलं कुर्वाणो न विनश्यति॥ 389 ॥
कष्टा वृत्तिः पराधीना कष्टो वासो निराश्रयः।
निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता॥ 390 ॥
तस्करस्य कुतो धर्मो दुर्जनस्य कुतः क्षमा।
वेश्यानां च कुतः स्नेहः कुतः सत्यं च कामिनाम्॥ 391 ॥
प्रेषितस्य कुतो मानं कोपनस्य कुतः सुखम्।
स्त्रीणां कुतः सतीत्वं च कुतो मैत्त्री खलस्य च॥ 392 ॥
दुर्बलस्य बलं राजा बालानां रोदनं बलम्।
बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम्॥ 393 ॥
यो ध्रुवाणि परित्यज्य ह्यध्रवं परिषेवते।
ध्रुवाणि तस्य नश्यन्ति ह्यध्रुवं नष्टमेव च॥ 394 ॥
शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि।
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट्॥ 395 ॥
सद्योमांसं नवान्नं च बाला स्त्री क्षीरभोजनम्।
घृतमुष्णोदकं चैव सद्यः प्राणहराणि षट्॥ 396 ॥
सिंहादेकं बकादेकं षट् शुनस्त्रीणि गर्दभात्।
वायसात्पाञ्च शिक्षेच्च चत्वारि कुक्कुटादपि॥ 397 ॥
प्रभूतमल्पकार्यं वा यो नरः कर्तुमिच्छति।
सर्वारम्भेण तत्कुर्यात् सिंहादेकं प्रकीर्तितम्॥ 398 ॥
सर्वेन्द्रियाणि संयम्य बकवत्पतितो जनः।
कालदेशोपपन्नानि सर्वकार्याणि साधयेत्॥ 399 ॥
बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः।
प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः॥ 400 ॥
अविश्रामं वहेद्भारं शीतोष्णं च न विन्दति।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात्॥ 401 ॥
गूढमैथुनधार्ष्ट्ये च काले चालयसङ्ग्रहम्।
अप्रमादमनालस्यं पञ्च शिक्षेत वायसात्॥ 402 ॥
युद्धं च प्रातरुत्थानं भोजनं सह बन्धुभिः।
स्त्रियमापद्गतां रक्षेच्चतुः शिक्षेत कुक्कुटात्॥ 403 ॥
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्।
को विदेशः सविद्यानां कः परः प्रियवादिनाम्॥ 404 ॥
आपदां कथितः पन्था इन्द्रियाणामसंयमः।
तज्जयः सम्पदां मार्गो येनेष्टं तेन गम्यताम्॥ 405 ॥
न च विद्यासमो बन्धुर्न च व्याधिसमो रिपुः।
न चापत्यसमः स्नेहो न च दैवात्परं बलम्॥ 406 ॥
समुद्रावरणा भूमिः प्राकारावरणं गृहम्।
नरेन्द्रावरणा देशाश्चरित्रावरणाः स्त्रियः॥ 407 ॥
घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान्।
तस्माद्धृतं च वह्निं च नैकत्र स्थापयेद्बुधः॥ 408 ॥
आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा।
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः॥ 409 ॥
जीर्णमन्नं प्रशंसीयाद्भार्यां च गतयौवनम्।
रणात्प्रत्यागतं शूरं सस्यं च गृहमागतम्॥ 410 ॥
असन्तुष्टा द्विजा नष्टाः संतुष्टाश्च महीभुजः।
सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रियः॥ 411 ॥
अवंशपतितो राजा मूर्खपुत्रश्च पण्डितः।
अधनेन धनं प्राप्तं तृणवन्मन्यते जगत्॥ 412 ॥
पुस्तकस्था तु या विद्या परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥ 413 ॥
पादपानां भयं वातात्पद्मानां शिशिराद्भयम्।
पर्वतानां भयं वज्रात्साधूनां दुर्जनाद्भयम्॥ 414 ॥
यस्य क्षेत्रं नदीतीरे भार्या वापि परप्रिया।
पुत्रस्य विनयो नास्ति मृत्युरेव न संशयः॥ 415 ॥
असम्भाव्यं न वक्तव्यं प्रत्यक्षमपि दृश्यते।
शिला तरति पानीयं गीतं गायति वानरः॥ 416 ॥
सुभिक्षं कृषके नित्यं नित्यं सुखमरोगिणि।
भार्या भर्तुः प्रिया यस्य तस्य नित्योत्सवं गृहम्॥ 417 ॥
हेला स्यात्कार्यनाशाय बुद्धिनाशाय निर्धनम्।
याचना माननाशाय कुलनाशाय भोजनम्॥ 418 ॥
प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनम्।
तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति॥ 419 ॥
नदीकूले च ये वृक्षाः परहस्तगतं धनम्।
कार्यं स्त्रीगोचरं यत्स्यात्सर्वं तद्विफलं भवेत्॥ 420 ॥
कूपोदकं वटच्छाया श्यामा स्त्री चेष्टकालयम्।
शीतकाले भवेदुष्णं ग्रीष्मकाले च शीतलम्॥ 421 ॥
विषं चङ्कमणं रात्रौ विषं राज्ञोऽनुकूलता।
विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षितः॥ 422 ॥
दुरधीता विषं विद्या अजीर्णे भोजनं विषम्।
विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम्॥ 423 ॥
प्रदोषे निहतः पन्थाः पतिता निहताः स्त्रियः।
अल्पबीजं हतं क्षेत्रं भृत्यदोषाद्धतः प्रभुः॥ 424 ॥
हतमश्रोत्रियं श्राद्धं हतो यज्ञस्त्वदक्षिणः।
हता रूपवती वन्घ्या हतं सैन्यमनायकम्॥ 425 ॥
किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते।
नग्नक्षपणके देशे रजकः किं करिष्यति॥ 426 ॥
अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत्।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥ 427 ॥
आयुः कर्म च वित्तं च विद्या निधनमेव च।
पञ्चैतान्यपि सृजन्ते गर्भस्थस्यैव देहिनः॥ 428 ॥
यदभावि न तद्भावि भावि चेन्न तदन्यथा।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते॥ 429 ॥
नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत्।
न व्यापारशतेनापि शुकवत्पाठ्यते बकः॥ 430 ॥
शोकस्थानसहस्राणि भयस्थानशतानि च।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ 431 ॥
उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम्।
मरणव्याधिशोकानां किमद्य निपतिष्यति॥ 432 ॥
अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा।
यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे॥ 433 ॥
न संशयमनारुह्य नरो भद्राणि पश्यति।
संशयं पुनरारुह्य यदि जीवति पश्यति॥ 434 ॥
गतानुगतिको लोकः कुट्टनीमुपदेशिनीम्।
प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम्॥ 435 ॥
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः॥ 436 ॥
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति॥ 437 ॥
अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना॥ 438 ॥
शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले।
प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा॥ 439 ॥
सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः।
छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः॥ 440 ॥
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥ 441 ॥
माता मित्त्रं पिता चेति स्वभावात्त्रितयं हितम्।
कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः॥ 442 ॥
जातिमात्रेण किं कश्चिद्धन्यते पूज्यते क्वचित्।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत्॥ 443 ॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन॥ 444 ॥
आपत्सु मित्त्रं जानीयाद्युद्धे शूरमृणे शुचिम्।
भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान्॥ 445 ॥
सुहृदां हितकामानां यः शृणोति न भाषितम्।
विपत्संनिहिता तस्य स नरः शत्रुनन्दनः॥ 446 ॥
अपराधो न मेऽस्तीति नैतद्विश्वासकारणम्।
विद्यते हि नृशंसेभ्यो भयं गुणवतामपि॥ 447 ॥
दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम्।
न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुषः॥ 448 ॥
मार्जारो महिषो मेषः काकः कापुरुषस्तथा।
विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नो हितः॥ 449 ॥
यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत्।
नोदके शकटं याति न च नौर्गच्छति स्थले॥ 450 ॥
द्रवत्वात्सर्वलोहानां निमित्तान्मृगपक्षिणाम्।
भयाल्लोभाच्च मूर्खाणां सङ्गतं दर्शनात्सताम्॥ 451 ॥
पटुत्वं सत्यवादित्वं कथायोगेन बुध्यते।
अस्तब्धत्वमचापल्यं प्रत्यक्षेणावगम्यते॥ 452 ॥
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता।
पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम्॥ 453 ॥
अपुत्रस्य गृहं शून्यं सन्मित्त्ररहितस्य च।
मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता॥ 454 ॥
परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः।
अपरिच्छेदकर्तॄणां विपदः स्युः पदे पदे॥ 455 ॥
पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम्।
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः॥ 456 ॥
जलमग्निर्विषं शस्त्रं क्षुद्व्याधिः पतनं गिरेः।
निमित्तं कञ्चिदासाद्य देही प्राणान्विमुञ्चति॥ 457 ॥
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्।
आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः॥ 458 ॥
सुखमापतितं सेव्यं दुःखमापतितं तथा।
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च॥ 459 ॥
वृत्त्यर्थं नातिचेष्टेत सा हि धात्रैव निर्मिता।
गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ॥ 460 ॥
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः।
मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति॥ 461 ॥
धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्॥ 462 ॥
जन्मनि क्लेशबहुले किं नु दुःखमतः परम्।
इच्छासम्पद्यतो नास्ति यच्चेच्छा न निवर्तते॥ 463 ॥
यद्यदेव हि वाञ्छेत ततो वाञ्छा प्रवर्तते।
प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते॥ 464 ॥
अम्भांसि जलजन्तूनां दुर्गं दुर्गनिवासिनाम्।
स्वभूमिः श्वापदादीनां राज्ञां मन्त्री परं बलम्॥ 465 ॥
कायः संनिहितापायः सम्पदः पदमापदाम्।
समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम्॥ 466 ॥
अधोऽधः पश्यतः कस्य महिमा नोपचीयते।
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति॥ 467 ॥
अलब्धं चैव लिप्सेत लब्धं रक्षेदवेक्षया।
रक्षितं वर्धयेत्सम्यग्वृद्धं तीर्थेषु निक्षिपेत्॥ 468 ॥
शीतवातातपक्लेशान्सहन्ते यान्पराश्रिताः।
तदंशेनापि मेधावी तपस्त्यक्त्वा सुखी भवेत्॥ 469 ॥
एतावज्जन्मसाफल्यं यदनायत्तवृत्तिता।
ये पराधीनतां यातास्ते वै जीवन्ति के मृताः॥ 470 ॥
आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने।
पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः॥ 471 ॥
पृष्ठतः सेवयेदर्कं जठरेण हुताशनम्।
स्वामिनं सर्वभावेन परलोकममायया॥ 472 ॥
पञ्चभिर्याति दासत्वं 1पुराणैः कोऽपि मानवः।
कोऽपि लक्षैः कृती कोऽपि लक्षैरपि न लभ्यते॥ 473 ॥

वाजिवारणलोहानां काष्ठपाषाणवाससाम्।
नारीपुरुषतोयानामन्तरं महदन्तरम्॥ 474 ॥
आरोप्यते शिला शैले यत्नेन महता यथा।
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः॥ 475 ॥
अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते।
आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः॥ 476 ॥
किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम्।
यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम्॥ 477 ॥
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम्।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत्॥ 478 ॥
दोषभीतेरनारम्भस्तत्कापुरुषलक्षणम्।
कैरजीर्णभयाद्भ्रातर्भोजनं परिहीयते॥ 479 ॥
स्थान एव नियोज्यन्ते भृत्याश्चाभरणानि च।
नहि चूडामणिः पादे नूपुरं मूर्ध्नि धार्यते॥ 480 ॥
मुकुटे रोपितः काचश्चरणाभरणे मणिः।
नहि दोषो मणेरस्ति किन्तु साधोरविज्ञता॥ 481 ॥
बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः।
रवेरविषये किं न प्रदीपस्य प्रकाशनम्॥ 482 ॥
बन्धुस्त्रीभृत्यवर्गस्य बुद्देः सत्त्वस्य चात्मनः।
आपन्निकषपाषाणे नरो जानाति सारताम्॥ 483 ॥
आपद्युन्मार्गगमने कार्यकालात्ययेषु च।
कल्याणवचनं ब्रूयादपृष्टोऽपि हितो नरः॥ 484 ॥
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः।
अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः॥ 485 ॥
अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः।
दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः॥ 486 ॥
अप्रियस्यापि पथ्यस्य परिणामः सुखावहः।
वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः॥ 487 ॥
न परस्यापराधेन परेषां दण्डमाचरेत्।
आत्मनावगतं कृत्वा बध्नीयात्पूजयेच्च वा॥ 488 ॥
गुणदोषावनिश्चित्य विधिर्न ग्रहनिग्रहे।
स्वनाशाय यथा न्यस्तो दर्पात्सर्पमुखे करः॥ 489 ॥
पराभवं परिच्छेतुं योग्यायोग्यं न वेत्ति यः।
अस्तीह यस्य विज्ञानं स कृच्छ्रेऽपि न सीदति॥ 490 ॥
ययोरेव समं वित्तं ययोरेव समं बलम्।
तयोर्विवादो मैत्त्री वा नोत्तमाधमयोः क्वचित्॥ 491 ॥
बलवानपि निस्तेजाः कस्य नाभिभवास्पदम्।
निःशङ्कं दीयते लोकैः पश्य भस्मचये पदम्॥ 492 ॥
बन्धुः को नाम दुष्टानां कुप्येत्को नातियाचितः।
को न तृप्यति वित्तेन कुकृत्ये को न पण्डितः॥ 493 ॥
धर्मार्थकामतत्त्वज्ञो नैकान्तकरुणो भवेत्।
नहि हस्तस्थमप्यन्नं क्षमावान्भक्षितुं क्षमः॥ 494 ॥
क्षमा शत्रौ च मित्त्रे च यतीनामेव भूषणम्।
अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम्॥ 495 ॥
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात्फलं नास्ति छाया केन निवार्यते॥ 496 ॥
हीनसेवा न कर्तव्या कर्तव्यो महदाश्रयः।
पयोऽपि शौण्डिकीहस्ते वारुणीत्यभिधीयते॥ 497 ॥
महानप्यल्पतां याति निर्गुणे गुणविस्तरः।
आधाराधेयभावेन गजेन्द्र इव दर्पणे॥ 498 ॥
वैद्यानामातुरः श्रेयान्व्यसनी मौनियोगिनाम्।
विदुषां जीवनं मूर्खः सद्वर्णो जीवनं सताम्॥ 499 ॥
तावद्भयाद्धि भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं वीक्ष्य प्रहर्तव्यमभीतवत्॥ 500 ॥
सुपूरा स्यात्कुनदिका सुपूरो मूषकाञ्जलिः।
सुसन्तुष्टः कापुरुषः स्वल्पकेनापि तुष्यति॥ 501 ॥
अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः।
पैशुन्याद्भिद्यते स्नेहो वाचा भिद्येत कातरः॥ 502 ॥
अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति।
1जातुषाभरणस्येव रूपेणापि हि तस्य किम्॥ 503 ॥

भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत्।
कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात्॥ 504 ॥
न वध्यन्ते ह्यविश्वस्ता बलिभिर्दुर्बला अपि।
विश्वस्तास्त्वेव वध्यन्ते बलिनो दुर्बलैरपि॥ 505 ॥
महामतिरपि प्राज्ञो न विश्वासं व्रजेद्रिपौ।
विश्वासात्त्रिदशेन्द्रेण दितेर्गर्भो विदारितः॥ 506 ॥
मन्त्रिणां भिन्नसन्धाने भिषजां सान्निपातिके।
कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः॥ 507 ॥
अमृतं शिशिरे वह्निरमृतं प्रियदर्शनम्।
अमृतं राजसम्मानममतं क्षीरभोजनम्॥ 508 ॥
सर्पाणां च खलानां च परद्रव्यापहारिणाम्।
अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत्॥ 509 ॥
नाविदग्धः प्रियं ब्रूयात्स्फुटवक्ता न वञ्चकः।
निःस्पृहो नाधिकारी स्यान्नाकामी मण्डनप्रियः॥ 510 ॥
औषधार्थसुमन्त्राणां बुद्धेश्चैव महात्मनाम्।
असाध्यं नास्ति लोकेऽत्र यद्ब्रह्माण्डस्य मध्यगम्॥ 511 ॥
न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम्।
न तस्य विश्वसेत्प्राज्ञो यदीच्छेच्छ्रेय आत्मनः॥ 512 ॥
नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः।
पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः॥ 513 ॥
अशोच्यानीह भूतानि यो मूढस्तानि शोचति।
स दुःखे लभते दुःखं द्वावनर्थौ निषेवते॥ 514 ॥
स सुहृद्व्यसने यः स्यात्स पुत्रो यस्तु भक्तिमान्।
स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः॥ 515 ॥
यत्र देशेऽथवा स्थाने भोगान्भुक्त्वा स्ववीर्यतः।
तस्मिन्विभवहीनो यो वसेत्स पुरुषाधमः॥ 516 ॥
येनाहङ्कारयुक्तेन चिरं विलसितं पुरा।
दीनं वदति तत्रैव यः परेषां स निन्दितः॥ 517 ॥
मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः।
व्रतिनः पापशीलानामसतीनां कुलस्त्रियः॥ 518 ॥
मित्त्रद्रोही कृतघ्नश्च तथा विश्वासघातकः।
ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ॥ 519 ॥
जिह्वालौल्यप्रसक्तानां जलमध्यनिवासिनाम्।
अचिन्तितो वधोऽज्ञानां मीनानामिव जायते॥ 520 ॥
व्यसनेष्वेव सर्वेषु यस्य बुद्धिर्न हीयते।
स तेषां पारमभ्येति तत्प्रभावादसंशयम्॥ 521 ॥
मित्रवान्साधयत्यर्थान्दुःसाध्यानपि वै यतः।
तस्मान्मित्त्राणि कुर्वीत समानान्येव चात्मनः॥ 522 ॥
अपि सम्पूर्णतायुक्तैः कर्तव्याः सुहृदो बुधैः।
नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते॥ 523 ॥
यो मित्त्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः।
हीनं वाप्यधिकं वापि हास्यतां यात्यसौ जनः॥ 524 ॥
कारणान्मित्त्रतां याति कारणाद्याति शत्रुताम्।
तस्मान्मित्त्रत्वमेवात्र योज्यं वैरं न धीमता॥ 525 ॥
उपकाराच्च लोकानां निमित्तान्मृगपक्षिणाम्।
भयाल्लोभाच्च मूर्खाणां मैत्त्री स्याद्दर्शनात्सताम्॥ 526 ॥
यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम्।
न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः॥ 527 ॥
शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम्।
रसायनमिव प्राज्ञैर्हेलया न कदाचन॥ 528 ॥
मृतो दरिद्रः पुरुषो मृतं मैथुनमप्रजम्।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः॥ 529 ॥
गुरोः सुतां मित्त्रभार्यां स्वामिसेवकगेहिनीम्।
यो गच्छति पुमांल्लोके तमाहुर्ब्रह्मघातिनम्॥ 530 ॥
अयशः प्राप्यते येन येन चापगतिर्भवेत्।
स्वर्गाच्च भ्रश्यते येन तत्कर्म न समाचरेत्॥ 531 ॥
यः स्तोकेनापि सन्तोषं कुरुते मन्दधीर्जनः।
तस्य भाग्यविहीनस्य दत्ता श्रीरपि मार्ज्यते॥ 532 ॥
कृतनिश्चयिनो वन्द्यास्तुङ्गिमा नोपभुज्यते।
चातकः को वराकोऽयं यस्येन्द्रो वारिवाहकः॥ 533 ॥
तावत्स्यात्सर्वकृत्येषु पुरुषोऽत्र स्वयं प्रभुः।
स्त्रीवाक्याङ्कुशविक्षुण्णो यावन्नो ध्रियते बलात्॥ 534 ॥
अकृत्यं मन्यते कृत्यमगम्यं मन्यते सुगम्।
अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः॥ 535 ॥
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्।
रतिपुत्रफला दारा दत्तभुक्तफलं धनम्॥ 536 ॥
आपन्नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः।
न तरत्यापदं कश्चिद्योऽत्र मित्त्रविवर्जितः॥ 537 ॥
व्यसनं प्राप्य यो मोहात्केवलं परिदेवयेत्।
क्रन्दनं वर्धयत्येव तस्यान्तं नाधिगच्छति॥ 538 ॥
केवलं व्यसनस्योक्तं भेषजं नयपण्डितैः।
तस्योच्छेदसमारम्भो विषादपरिवर्जनम्॥ 539 ॥
नदीनां च कुलानां च मुनीनां च महात्मनाम्।
परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च॥ 540 ॥
सद्भिः सम्बोध्यमानोऽपि दुरात्मा पापपूरुषः।
घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति॥ 541 ॥
1जनिता 2चोपनेता च यश्च विद्यां प्रयच्छति।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः॥ 542 ॥

वरं वरयते कन्या माता वित्तं पिता श्रुतम्।
बान्धवाः कुलमिच्छन्ति मृष्टान्नमितरे जनाः॥ 543 ॥
यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान्स्वान्हितान्गुरून्।
न तस्य जायते विघ्नः कस्मिंश्चिदपि कर्मणि॥ 544 ॥
कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम्।
कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम्॥ 545 ॥
कृते प्रतिकृतिं कुर्याद्धिंसिते प्रतिहिंसितम्।
न तत्र दोषं पश्यामि दुष्टे दुष्टं समाचरेत्॥ 546 ॥
सर्वहिंसानिवृत्ता ये नराः सर्वं सहाश्च ये।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः॥ 547 ॥
योऽत्ति यस्य यदा मांसमुभयोः पश्यतान्तरम्।
एकस्य क्षणिका प्रीतिरन्यः प्राणैर्विमुच्यते॥ 548 ॥
मर्तव्यमिति यद्दुःखं पुरुषस्योपजायते।
शक्यते नानुमानेन परेण परिवर्णितुम्॥ 549 ॥
स्वच्छन्दवनजातेन शाकेनापि प्रपूर्यते।
अस्य दग्धोदरस्यार्थे कः कुर्यात्पातकं महत्॥ 550 ॥
विद्यया विनयावाप्तिः सा चेदविनयावहा।
किं कुर्मः कं प्रति ब्रूमो 1गरदायां स्वमातरि॥ 551 ॥

वेधा द्वेधा भ्रमं चक्रे कान्तासु कनकेषु च।
तासु तेष्वप्यनासक्तः साक्षाद्भर्गो नराकृतिः॥ 552 ॥
द्विः शरं नाभिसन्धत्ते द्विः स्थापयति नाश्रितान्।
द्विर्ददाति न चार्थिभ्यो रामो द्विर्नैव भाषते॥ 553 ॥
मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः।
तत्रापि सम्भवन्त्येते मित्त्रोदासीनशत्रवः॥ 554 ॥
पञ्चैतानि विलिख्यन्ते गर्भस्थस्यैव देहिनः।
आयुः कर्म च विद्या च वित्तं निधनमेव च॥ 555 ॥
नास्ति सत्यं द्यूतकारे न शौचं वृषलीपतौ।
मद्यपे सौहृदं नास्ति धूर्तेषु त्रितयं नहि॥ 556 ॥
सर्वंसहा ये ऋजवः प्रतिज्ञातार्थपालकाः।
परोपकारिणः सेव्या निर्धना अपि ते जनाः॥ 557 ॥
शरणागतरक्षार्थं स्त्रीगोद्विजहिताय च।
स्वाम्यर्थं यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः॥ 558 ॥
कृतघ्नस्य शिशुघ्नस्य स्त्रीघ्नस्य पिशुनस्य च।
चतुर्णामपि चैतेषां निष्कृतिं नैव शुश्रुम॥ 559 ॥
परं पलितकायेन कर्तव्यः श्रुतसङ्ग्रहः।
न तत्र धनिनो यान्ति यत्र यान्ति बहुश्रुताः॥ 560 ॥
विश्वासप्रतिपन्नानां वञ्चने का विदग्धता।
अङ्कमारुह्य सुप्तानां हन्तुः किं नाम पौरुषम्॥ 561 ॥
नाजारजः पितृद्वेषी नाजारा भर्तृवैरिणी।
नालम्पटोऽधिकारी स्यान्नाकामी मण्डनप्रियः॥ 562 ॥
अचला कमला कस्य कस्य मित्त्रं महीपतिः।
शरीरं च स्थिरं कस्य कस्य वश्या वराङ्गना॥ 563 ॥
गर्दभः पटहो दासी ग्रामण्यः पशवः स्त्रियः।
दण्डेनाक्रम्य भुञ्जीयान्न ते सम्मानभाजनम्॥ 564 ॥
बहुभिर्न विरोद्धव्यं दुर्जनैः स्वजनैरपि।
स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः॥ 565 ॥
क्षन्तव्यो मन्दबुद्धीनामपराधो मनीषिणा।
नहि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित्॥ 566 ॥
राजा पश्यति कर्णाभ्यां युक्त्या पश्यन्ति पण्डिताः।
पशुः पश्यति गन्धेन भूतैः पश्यन्ति बर्बराः॥ 567 ॥
प्रत्यूहः सर्वसिद्धीनामुत्तापः प्रथमः किल।
अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतः॥ 568 ॥
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति।
स तत्र निधनं याति कीलोत्पाटीव वानरः॥ 569 ॥
हतं ज्ञानं क्रियाहीनं हताश्चाज्ञानिनो नराः।
हतं चानायकं सैन्यमभर्तारो हताः स्त्रियः॥ 570 ॥
कन्या निष्कासिता श्रेष्ठा वधूः श्रेष्ठा प्रवेशिता।
अन्नं सङ्कलितं श्रेष्ठं धर्मः श्रेष्ठो दिने दिने॥ 571 ॥
सत्यं सत्यं मुनेर्वाक्यं नादत्तमुपतिष्ठते।
अम्बुभिः पूरिता पृथ्वी चातकस्य मरुस्थली॥ 572 ॥
न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत्।
नेन्धनेन यजेद्वह्निं न पानेन सुरां जयेत्॥ 573 ॥
तद्गृहं यत्र वसतिस्तद्भोग्यं येन जीवति।
तन्मुक्तये यदेवाक्तं ज्ञानमज्ञानमन्यथा॥ 574 ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति॥ 575 ॥
पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम्।
स्वप्नमन्यगृहे वासो नारीणां दूषणानि षट्॥ 576 ॥
हन्तुं मेषोऽपसरति मृगेन्द्रः सङ्कुचत्यपि।
बुद्धिमन्तः सहन्ते च निधाय हृदि किञ्चन॥ 577 ॥
यदपथ्यवतामायुर्यदनीतिमतां श्रियः।
तदेतत्काकतालीयं तदेतच्च घुणाक्षरम्॥ 578 ॥
वस्त्रं गां च बहुक्षीरां जलपात्रमुपानहौ।
औषधं बीजमाहारं सङ्क्रीणीत यथाप्नुयात्॥ 579 ॥
रागे द्वेषे च माने च द्रोहे पापे च कर्मणि।
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते॥ 580 ॥
बन्धीनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च।
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते॥ 581 ॥
चिरेण मित्त्रं सन्धीयाच्चिरेण न कृतं त्यजेत्।
चिरेण विहितं मित्त्रं चिरं वारणमर्हति॥ 582 ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः।
येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः॥ 583 ॥
धनाशा जीविताशा च गुर्वी प्राणभृतां सदा।
वृद्धस्य तरुणी भार्या प्राणेभ्योऽपि गरीयसी॥ 584 ॥
चित्रास्वाती गतावर्षाः प्रसूता गतयौवना।
प्रवासी गतसौख्यश्च याचना गतगौरवा॥ 585 ॥
शाखामृगस्य शाखायाः शाखां गन्तुं पराक्रमः।
उल्लङ्घितो यदम्भोधिः प्रभावः प्रभवो हि सः॥ 586 ॥
राः पुण्यं च कलत्राणि पुत्रोत्पत्तिर्निधिस्तथा।
सुकृतादेव लभ्यन्ते नैव पार्थपराक्रमात्॥ 587 ॥
धर्महान्यर्जिते वित्तेऽनुभवन्ति सुखं परे।
स्वयं पापस्य पात्रं स्यात्सिंहो गजवधादिव॥ 588 ॥
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः।
तथा वेदं विना विप्रस्त्रयस्ते नामधारकाः॥ 589 ॥
वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान्।
प्रकृत्या ह्यगुणः श्रेयान्नालङ्कारश्च्युतोपलः॥ 590 ॥
दूरस्थोऽपि समीपस्थो यो यस्य हृदि वर्तते।
यो यस्य हृदये नास्ति समीपस्थोऽपि दूरगः॥ 591 ॥
मद्यपाः किं न जल्पन्ति किं न भक्षन्ति वायसाः।
कवयः किं न पश्यन्ति किं न कुर्वन्ति योषितः॥ 592 ॥
अशक्तः सततं साधुः कुरूपा च पतिव्रता।
व्याधितो देवभक्तश्च निर्धना ब्रह्मचारिणः॥ 593 ॥
तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता।
यावज्ज्वलति नाङ्गेषु स्वतः पञ्चेषु पावकः॥ 594 ॥
वाहितं चाश्ववाणिज्यं राजसेवा तपोवनम्।
धीराश्चत्वारि कुर्वन्ति कृषिं कुर्वन्ति कातराः॥ 595 ॥
न देवो विद्यते काष्ठे न पाषाणे न मृण्मये।
भावेषु विद्यते देवस्तस्माद्भावो हि कारणम्॥ 596 ॥
अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति।
प्राप्ते चैकादशे वर्षे समूलं न विनश्यति॥ 597 ॥
तृप्त्यर्थं भोजनं येषां सन्तानार्थं च मैथुनम्।
वाक्सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते॥ 598 ॥
नित्यं क्रोधाच्छ्रियं रक्षेत्तपो रक्षेच्च मत्सरात्।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः॥ 599 ॥
क्षमातुल्यं तपो नास्ति न सन्तोषात्परं सुखम्।
न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः॥ 600 ॥
दानेन भोगी भवति मेधावी वृद्धसेवया।
अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः॥ 601 ॥
यच्छक्यं ग्रसितुं ग्रासं ग्रस्तं परिणमेच्च यत्।
हितं च परिणामे स्यात्तत्कार्यं भूतिमिच्छता॥ 602 ॥
बुद्धौ कलुषिभूतायां विकारे प्रत्युपस्थिते।
अनयो नयसङ्काशो हृदयान्नापसर्पति॥ 603 ॥
यदैव भर्ता जानीयान्मन्त्रमूलपरां स्त्रियम्।
उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव॥ 604 ॥
न क्रोधयातुधानस्य धीमान्गच्छेद्विधेयताम्।
निपतीभ्रातृरुधिरः प्राप निन्दां वृकोदरः॥ 605 ॥
न लोकायतवादेन नास्तिकः स्याददैवतः।
हरिर्हिरण्यकशिपुं जघान स्तम्भनिर्गतः॥ 606 ॥
सन्देहो वैष्णवे मार्गे न कार्योऽन्यैः कुदर्शनैः।
रामप्रभावमद्यापि पयोब्धौ पश्य सेतुना॥ 607 ॥
गौर्गौः1 कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः।
दुःप्रयुक्ता पुनर्गोत्वं2 प्रयोक्तुः सैव शंसति॥ 608 ॥

न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥ 609 ॥
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः।
जानन्नपि हि मेधावी जडवल्लोक आचरेत्॥ 610 ॥
धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा।
तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे॥ 611 ॥
विद्ययैव समं कामं स्मर्तव्यं ब्रह्मवादिना।
आपद्यपि हि घोरायां न त्वेनामिरिणे1 वपेत्॥ 612 ॥

सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः।
नायन्त्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयी॥ 613 ॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्॥ 614 ॥
नारुन्तुदः स्यादार्तोऽपि न परद्रोहकर्मभिः।
ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत्॥ 615 ॥
यथा खनन्खनित्रेण नरो वार्यधिगच्छति।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति॥ 616 ॥
यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि॥ 617 ॥
पित्रोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा।
तेषु हि त्रिषु तुष्टेषु तपः सर्वं समाप्यते॥ 618 ॥
श्रद्दधानः शुभां विद्यामाददीतावरादपि।
अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि॥ 619 ॥
यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत्।
यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः॥ 620 ॥
यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत्॥ 621 ॥
न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहेत्।
प्रातः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा॥ 622 ॥
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्।
योऽर्थो शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः॥ 623 ॥
नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥ 624 ॥
नात्यर्थमर्थार्थितया लुब्धमुद्वेजयेज्जनम्।
अब्धिर्दत्त्वाश्वरत्नं स्त्रीर्मथ्यमानोऽसृजद्विषम्॥ 625 ॥
न स्थातव्यं न गन्तव्यं क्षणमप्यधमैः सह।
पयोऽपि 2शौण्डिकीहस्ते 3मदिरां मन्यते जनः॥ 626 ॥

अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥ 627 ॥
अत्युष्णात्सघृतादन्नादच्चिद्राच्चैव वाससः।
अपरप्रेष्यभावाच्च भूय इच्छन्पतत्यधः॥ 628 ॥
आपदामापतन्तीनां हितोऽप्यायाति हेतुताम्।
मातृजङ्घैव वत्सस्य स्तम्भो भवति बन्धने॥ 629 ॥
भवत्येकस्थले जन्म गन्धस्तेषां पृथक्पृथक्।
उत्पलस्य मृणालस्य मत्स्यस्य कुमुदस्य च॥ 630 ॥
तत्र मित्रं न वस्तव्यं यत्र नास्ति चतुष्टयम्।
ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी॥ 631 ॥
सच्छिद्रनिकटे वासो न कर्तव्यः कदाचन।
घटी पिबति पानीयं ताड्यते झल्लरी यथा॥ 632 ॥
तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम्।
जिताक्षस्य तृणं नारी निस्पृहस्य तृणं जगत्॥ 633 ॥
गुरोरप्य1वलिप्तस्य कार्याकार्यमजानतः।
2उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम्॥ 634 ॥

मनसैव कृतं पापं न शरीरकृतं कृतम्।
येनैवालिङ्गिता कान्ता तेनैवालिङ्गिता सुता॥ 635 ॥
भिन्ने चित्ते कुतः प्रीतिः स्याद्वा प्रीतिः कुतः सुखम्।
त्वं च स्मरसि तं पुत्रं पुच्छच्छेदं स्मराम्यहम्॥ 636 ॥
मक्षिका व्रणमिच्छन्ति धनमिच्छन्ति पार्थिवाः।
नीचाः कलहमिच्छन्ति शान्तिमिच्छन्ति साधवः॥ 637 ॥
हस्ती चाङ्कुशहस्तेन कशाहस्तेन वाजिनः।
शृङ्गी लगुडहस्तेन खड्गहस्तेन दुर्जनः॥ 638 ॥
देशानुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषा गजाः।
तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः॥ 639 ॥
वाग्वादमर्थसम्बन्धं परोक्षे दारदर्शनम्।
यदीच्छेद्विपुलां प्रीतिं त्रीणि तत्र न कारयेत्॥ 640 ॥
अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा।
भक्ष्यमाणो निरादायः सुमेरुरपि हीयते॥ 641 ॥
आपदर्थं धनं रक्षेन्महतां कुत आपदः।
कदाचित्कुपितो देवः सञ्चितं चापि नश्यति॥ 642 ॥
युध्यन्ति पशवः सर्वे पठन्ति शुकसारिकाः।
दातुं जानाति यो वित्तं स शूरः स च पण्डितः॥ 643 ॥
नदीतीरेषु ये वृक्षा यस्य नारी निरङ्कुशा।
मन्त्रिहीनो भवेद्राजा तस्य राज्यं विनश्यति॥ 644 ॥
गुणं पृच्छस्व मा रूपं शीलं पृच्छस्व मा कुलम्।
सिद्धिं पृच्छस्व मा विद्यां भोगं पृच्छस्व मा धनम्॥ 645 ॥
गुणो भूषयते रूपं शीलं भूषयते कुलम्।
सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम्॥ 646 ॥
यस्य न ज्ञायते शीलं कुलं विद्या नरस्य च।
कस्तेन सह विश्वासं पुमान्कुर्याद्विचक्षणः॥ 647 ॥
का प्रीतिः सह मार्जारैः का प्रीतिरवनीपतौ।
गणिकाभिश्च का प्रीतिः का प्रीतिर्भिक्षुकैः सह॥ 648 ॥
धीराणां भूषणं विद्या मन्त्रिणां भूषणं नृपः।
भूषणं च पतिः स्त्रीणां शीलं सर्वस्य भूषणम्॥ 649 ॥
महानदीप्रतरणं महापुरुषविग्रहम्।
महाजनविरोधं च दूरतः परिवर्जयेत्॥ 650 ॥
नारुहेद्विषमं वृक्षं जीर्णां नावं न चारुहेत्।
कूपे नालोकयेत्तोयं न वात्मानं विनाशयेत्॥ 651 ॥
सङ्कटे3 न च गन्तव्यं विषमे न कदाचन।
महापथे न गन्तव्यं गन्तव्यं चात्मनः पथम्॥ 652 ॥

(3. ‘परस्त्री सङ्कटं प्रोक्तं रण्डां च विषमं पथम्।
वेश्या महापथं प्रोक्तं स्वपर्यायः पिता श्रुताः॥’.)
अनादायी व्ययं कुर्यादसहायी रणप्रियः।
आतुरः सर्वभक्षी च नरः शीघ्रं विनश्यति॥ 653 ॥
सुसन्दिग्धस्य भक्तस्य दन्तस्य चलितस्य च।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं वरम्॥ 654 ॥
दीर्घशृङ्गमनड्वाहं रण्डां च बहुभाषिणीम्।
शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत्॥ 655 ॥
सिद्धमन्त्रौषधं धर्मं गृहच्छिद्रं च मैथुनम्।
कुभुक्तिं कुश्रुतं चैव वचनं न प्रकाशयेत्॥ 656 ॥
धनेषु जीवितव्येषु स्त्रीषु भोजनवृत्तिषु।
अतृप्ता मानवाः सर्वे याता यास्यन्ति यान्ति च॥ 657 ॥
सौहार्दस्वर्णरेखाणामुच्चावचभिदाजुषाम्।
परोक्षमिति कोऽप्यस्ति परीक्षानिकषोपलः॥ 658 ॥
परापकारनिरतैर्दुर्जनैः सह संहतिः।
वदामि भवतस्तत्त्वं न विधेया कदाचन॥ 659 ॥
नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा॥ 660 ॥
वारिजेनेव सरसी शशिनेव निशीथिनी।
यौवनेनेव वनिता नयेन श्रीर्मनोहरा॥ 661 ॥
दानं वित्तादृतं वाचः कीर्तिधर्मौ तथायुषः।
परोपकरणं कायादसारात्सारमाहरेत्॥ 662 ॥
श्रुतं कृतधियां सङ्गाज्जायते विनयः श्रुतात्।
लोकानुरागो विनयान्न किं लोकानुरागतः॥ 663 ॥
किमाराध्यं सदा पुण्यं कश्च सेव्यः सदागमः।
को ध्येयो भगवान्विष्णुः किं काम्यं परमं पदम्॥ 664 ॥
एकामिषाभिलाषो हि बीजं वैरमहातरोः।
तिलोत्तमाभिलाषो हि यथा सुन्दोपसुन्दयोः॥ 665 ॥
आचान्तकान्तिरुन्निद्रैर्मयूकैरहिमत्विषः।
धूसरापि कला चान्द्री किं न बध्नाति लोचनम्॥ 666 ॥
हेतुर्नैसर्गिकः कोऽपि प्रतेर्यद्धि न वर्तते।
मालती मधुरास्तीति मधुपः केन शिक्ष्यते॥ 667 ॥
देवे तीर्थे द्विजे मन्त्रे दैवज्ञे भेषजे गुरौ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी॥ 668 ॥
न माता शपते पुत्रं न दोषं लभते मही।
न हिंसां कुरुते साधुर्न देवः सृष्टिनाशकः॥ 669 ॥
प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः।
तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः क्वचित्॥ 670 ॥
1संस्तितस्य गुणोत्कर्षः प्रायः प्रस्फुरति स्फुटम्।
दग्धस्यागुरुखण्डस्य स्फारीभवति सौरभम्॥ 671 ॥

उपकर्तुं यथा स्वल्पः समर्थो न तथा महान्।
प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः॥ 672 ॥
जडे प्रभवति प्रायो दुःखं बिभ्रति साधवः।
शीतांशावुदिते पद्माः सङ्कोचं यान्ति वारिणि॥ 673 ॥
कश्चित्कस्यचिदेव स्यात्सुहृद्विस्रम्भभाजनम्।
पद्मं विकासयत्यर्कः सङ्कोचयति कैरवम्॥ 674 ॥
ईश्वराः पिशुनाञ्शश्वद्बिभ्रतीति किमद्भुतम्।
प्रायो निधय एवाहीन्द्विजिह्वान्दधतेतराम्॥ 675 ॥
सम्पद्यास्ते परैः साकं विपदि स्वजनैर्जडः।
जृम्भत्यम्भोरुहे भृङ्गः शुष्यत्युदकशैवलैः॥ 676 ॥
नीचावमानमलिनां यो भुङ्क्ते सम्पदं पुमान्।
लशुनाक्तां स कर्पूरचर्चां वितनुते तनौ॥ 677 ॥
व्यसनानन्तरं सौख्यं स्वल्पमप्यधिकं भवेत्।
काषायरसमास्वाद्य स्वाद्वतीवाम्बु विन्दते॥ 678 ॥
गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः।
मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनम्॥ 679 ॥
प्रभूतवयसः पुंसो धियः पाकः प्रवर्तते।
जीर्णस्य चन्दनतरोरामोद उपजायते॥ 680 ॥
धनागमेऽधिकं पुंसां लोभमभ्येति मानसम्।
निदाघकाले प्रालेयः प्रायः शैत्यं वहत्यलम्॥ 681 ॥
सहजोऽपि गुणः पुंसां साधुवादेन वर्धते।
कामं सुरसलेपेन कान्तिं वहति काञ्चनम्॥ 682 ॥
निन्दां यः कुरुते साधोस्तथा स्वं दूषयत्यसौ।
खे भूतिं यस्त्यजेदुच्चैर्मूर्ध्नि तस्यैव सा पतेत्॥ 683 ॥
शुभं वाप्यशुभं कर्म फलकालमपेक्षते।
शरद्येव फलत्याशु शालिर्न सुरभौ क्वचित्॥ 684 ॥
भोगेच्छा नोपभोगेन भोगिनां जातु शाम्यति।
लवणेनान्तरालेन तृष्णा प्रत्युत जायते॥ 685 ॥
दुर्लभोऽप्युत्तमः प्रायः स्वजातीयेन लभ्यते।
कर्णकोटरगं वारि वारिणैवावकृष्यते॥ 686 ॥
जन्तोर्निरुपभोगस्य दृश्यते भुवि रूक्षता।
वाताशिनो द्विजिह्वत्वं विहितं पश्य वेधसा॥ 687 ॥
आकरः कारणं जन्तोर्दौर्जन्यस्य न जायते।
कालकूटः सुधासिन्धोः प्राणिनां प्राणहारकः॥ 688 ॥
न व्याप्तिरेषा गुणिनो गुणवाञ्जायते ध्रुवम्।
चन्दनोऽनलसन्दग्धो न भस्म सुरभि क्वचित्॥ 689 ॥
कार्यापेक्षी जनः प्रायः प्रीतिमाविष्करोत्यलम्।
लोभार्थी शौण्डिकः शष्पैर्मेषं पुष्णाति पेशलैः॥ 690 ॥
दुर्जनो जीयते युक्त्या विग्रहेण न धीमता।
निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात्॥ 691 ॥
स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते।
मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते॥ 692 ॥
येनात्मा पण्यतां नीतः स एवान्विष्यते जनैः।
हस्ती हेमसहस्रेण क्रीयते न मृगाधिपः॥ 693 ॥
विक्रीतं निजमात्मानं वस्त्रैः संस्कुरुते जडः।
परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते॥ 694 ॥
असम्भवगुणस्तुत्या जायते स्वात्मनस्त्रपा।
कर्णिकारं सुगन्धीति वदन्को नोपहास्यते॥ 695 ॥
तटस्थैः ख्यापिताश्चेतो विशन्ति गुणिनां गुणाः।
उत्कोचितानां पद्मानां गन्धो वायुभिराहृतः॥ 696 ॥
निजाशयवदाभाति पुंसां चित्ते पराशयः।
प्रतिमा मुखचन्द्रस्य कृपाणे याति दीर्घताम्॥ 697 ॥
अधमं बाधते भूयो दुःखवेगो न तूत्तमम्।
पादद्वयं रुजत्याशु शीतस्पर्शो न चक्षुषी॥ 698 ॥
यत एवागतो दोषस्तत एव निवर्तते।
अग्निदग्धस्य विस्फोटशान्तिः स्यादग्निना ध्रुवम्॥ 699 ॥
बुद्धिमत्त्वाभिमानः को भवेत्प्रज्ञोपजीविनाम्।
अन्यदीयैरलङ्कारैर्नाहङ्कारो विभूषणे॥ 700 ॥
उत्तमोऽप्यधमस्य स्याद्याचञ्चानम्रकरः क्वचित्।
कौस्तुभादीनि रत्नानि ययाचे हरिरम्बुधिम्॥ 701 ॥
प्रयत्ने समके केचिदेव स्युः फलभागिनः।
क्षीरोदमथनाद्देवैरमृतं प्रापि नासुरैः॥ 702 ॥
भोगः परोपतापेन पुंसां दुःखाय न स्थिरः।
पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसाम्॥ 703 ॥
नोपभोगपरानर्थान्कोऽपि सञ्चिनुते चिरम्।
आखवः किमलङ्कारानात्मन्याहृत्य कुर्वते॥ 704 ॥
विवर्णवचनैर्मृत्युर्गूढोऽप्यन्तः प्रकाशते।
इन्धनान्तरसंस्थैश्च ज्वलत्यग्निः पयःकणैः॥ 705 ॥
निकटस्थं गरीयांसमपि लोको न मन्यते।
पवित्रमपि यन्मर्त्या न नमस्यन्ति जाह्नवीम्॥ 706 ॥
स्वजनः स्वात्मवज्जन्तुर्ज्ञायते गुणवान्परैः।
गोपैर्गोपवदाज्ञायि हरिर्देवो जगत्पतिः॥ 707 ॥
उत्तमस्तोषमायाति तदङ्गं पोष्यते यदि।
वृक्षः प्रसीदति प्रायः पादाभ्यङ्गेन न स्वयम्॥ 708 ॥
दुर्भगः स्यात्प्रकृत्या यो विभूत्यापि स तादृशः।
गोमयं श्रीनिवासोऽस्ति न तथापि मनोहरम्॥ 709 ॥
आगच्छदुत्सवो भाति यथैव न तथा गतः।
हिमांसोरुदयः सायं चकास्ति न तथोषसि॥ 710 ॥
सन्तोषक्षतये पुंसामाकस्मिकधनागमः।
सरसां सेतुभेदाय वर्षौघः स च न स्थिरः॥ 711 ॥
सन्तुष्यत्युत्तमः स्तुत्या धनेन महताधमः।
प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहाः॥ 712 ॥
स्वजातीयविघाताय माहात्म्यं दृश्यते नृणाम्।
श्येनो विहंगमानेव हिनस्ति न भुजङ्गमान्॥ 713 ॥
गुरुं प्रयोजनोद्देशादर्जयन्ति न भक्तितः।
दुग्धदात्रीति गौर्गेहे पोष्यते न तु धर्मतः॥ 714 ॥
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।
पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः॥ 715 ॥
बहुभिर्मुर्खसङ्घातैरन्योन्यं पशुवृत्तिभिः।
प्रच्छाद्यन्ते गुणाः सर्वे मेघैरिव दिवाकरः॥ 716 ॥
मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी।
क्रियासमभिहारेण विराध्यन्तं क्षमेत कः॥ 717 ॥
कामाय स्पृहयत्यात्मा संयतोऽपि मनीषिणः।
वीथीनियमितोऽप्युक्षा शष्पमासाद्य धावति॥ 718 ॥
रोगशोकपरीतापबन्धनव्यसनानि च।
आत्मापराधवृक्षाणां फलान्येतानि देहिनाम्॥ 719 ॥
भूमिपतावर्थपतौ बाले वृद्धे तपोनिधौ विदुषि।
योषिति मूर्खे गुरुषु च विदुषा नैवोत्तरं देयम्॥ 720 ॥
कटुकं वा मधुरं वा प्रस्तुतवाक्यं मनोहारि।
वामे गर्दभनादश्चित्तप्रीत्यै प्रयाणेषु॥ 721 ॥
अतिपरिचयादवज्ञा सततगमनादनादरो भवति।
लोकः प्रयागवासी कूपे स्नानं समाचरति॥ 722 ॥
अतिपरिचयादवज्ञा सततगमनादनादरो भवति।
1मलये 2भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते॥ 723 ॥

अतिपरिचयादवज्ञा इति यद्वाक्यं मृषैव तद्भाति।
अतिपरिचितेऽप्यनादौ संसारेऽस्मिन्न जायतेऽवज्ञा॥ 724 ॥
अविधेयो भृत्यजनःशठानि मित्त्राण्यदायकः स्वामी।
अविनयवती च भार्या मस्तकशूलानि चत्वारि॥ 725 ॥
वैद्यस्तर्कविहीनो निर्लज्जा कुलवधूर्यतिर्मूखः।
कटके च 3प्राहुणिको मस्तकशूलानि चत्वारि॥ 726 ॥

शक्तिरहितोऽपि कुप्यति सेवासक्तोऽपि मानमुद्वहति।
अधनोऽपि हि कामयते जानाति विधिर्विडम्बयितुम्॥ 727 ॥
त्यजति भयमकृतपापं सुमित्त्रमयशः प्रमादिनं विद्या।
ह्रीः कामिनमसं श्रीः क्रूरं स्त्री दुर्जनं लोकः॥ 728 ॥
अनुचितकर्मारम्भः स्वजनविरोधो बलीयसा स्पर्धा।
4प्रमदाजनविश्वासो मृत्युद्वाराणि चत्वारि॥ 729 ॥

अन्यमुखे 5दुर्वादो यः प्रियवदने स एव परिहासः।
इतरेन्ध6नजन्मा यो धूमः सोऽगुरुभवो धूपः॥ 730 ॥

अशठमलोभम7जिह्मं 8त्यागिनमनुरागिणं विशेषज्ञम्।
यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र॥ 731 ॥

व्यथयतितरामुपेतः स्वस्थप्रकृतेरवद्यलेशोऽपि।
भृशमुद्विजते चक्षुः सक्तेन रजःकणेनापि॥ 732 ॥
शरदि समग्रनिशाकरकरशतहततिमिरसञ्चया रजनी।
जलदान्तरितार्कामपि दिवसच्छायां न पूरयति॥ 733 ॥
यत्र न फलितास्तरवो विकसितसरसीरुहाः सरस्यो वा।
न च सज्जनाः स देशो गच्छतु निधनं श्मशानसमः॥ 734 ॥
गुणमधिगतमपि धनवानचिरान्नाशयति रक्षति दरिद्रः।
मज्जयति रज्जुमम्भसि पूर्णः कुम्भो न खलु तुच्छः॥ 735 ॥
अबुधा अजङ्गमा अपि कयापि गत्या परं पदमवाप्ताः।
मन्त्रिण इति कीर्त्यन्ते 1नयवलगुटिका इव जनेन॥ 736 ॥

स्वल्पा इति रामबलैर्ये न्यस्ता नाशये पयोराशेः।
ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहुमानः॥ 737 ॥
यत्रार्जवेन लघिमा गरिमाणं वक्रता तनुते।
छन्दःशास्त्र इवास्मिंल्लोके सरलः सखे किमसि॥ 738 ॥
सुहृदि निरन्तरचित्ते गुणवति भृत्ये प्रियासु नारीषु।
स्वामिनि शक्तिसमेते निवेद्य दुःखं जनः सुखी भवति॥ 739 ॥
प्राप्य चलानधिकाराञ्शत्रुषु मित्त्रेषु बन्धुवर्गेषु।
नापकृतं नोपकृतं न सत्कृतं किं कृतं तेन॥ 740 ॥
वित्तं परिमितमधिकव्ययशीलं पुरुषमाकुलीकुरुते।
2ऊनांशुकमिव पीनस्तनजघनायाः कुलीनायाः॥ 741 ॥

3अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यम्।
नयनविहीने भर्तरि लावण्यमिवेह 4खञ्जनाक्षीणाम्॥ 742 ॥

5बहुतरहिते रसातल उत्तिष्ठन्ते हि 6सुमनसस्त7पसि।
8कान्तारैर्जनवेगं विषह्य सद्रसफलास्तु विरलाः स्युः॥ 743 ॥

प्रतिगृहकोणं गुणिनो लूताकीटा इव स्फुरन्ति शतम्।
9तद्भासकः 10स्वगोभिः को वा रविरिव गुणज्ञोऽस्ति॥ 744 ॥

रमणीयः स हि पुरुषो रमणी यत्रैव रज्यति विदग्धा11
श्लोकः स एव सुभगश्चित्तं सक्तं हि यत्र रसिकस्य॥ 745 ॥

आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्।
बलवदपि शिक्षितानामात्म12न्यप्रत्ययं चेतः॥ 146 ॥

अबला यत्र प्रबला शिशुरवनीशो निरक्षरो मन्त्री।
नहि नहि तत्र धनाशा जीवित13 आशापि दुर्लभा भवति॥ 747 ॥

ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते जन्तुः॥ 748 ॥
राजनि विदुषां मध्ये वरसुरतानां समागमे स्त्रीणाम्।
14साध्वसदूषितहृदयो 15वाक्पटुरपि कातरो भवति॥ 749 ॥

अलिरनुसरति परिमलं लक्ष्मीरनुसरति नयगुणसमृद्धिम्।
निम्नमनुसरति सलिलं विधिलिखितं बुद्धिरनुसरति॥ 750 ॥
स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति।
सम्पूर्णेऽपि तटाके काकः कुम्भोदकं पिबति॥ 751 ॥
किं क्रूरं फणिहृदयं पुनरपि किं क्रूरमङ्गनाहृदयम्।
क्रूरात्क्रूरतरं किं पतिसुतधनहीनकामिनीहृदयम्॥ 752 ॥
अनुकूलां विमलाङ्गीं कुलजां कुशलां सुशीलसम्पन्नाम्।
पञ्चलकारां भार्यां पुरुषः पुण्योदयाल्लभते॥ 753 ॥
अरसिकजनभाषणतो रसिकजनैः सह वरं कलहः।
लम्बकुचालिङ्गनतो लिकुचकुचापादताडनं श्रेयः॥ 754 ॥
आपदि मित्त्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति।
विनये वंशपरीक्षा स्त्रियः परीक्षा तु निर्धने पुंसि॥ 755 ॥
अनवसरे च यदुक्तं सुभाषितं तच्च भति हास्याय।
रहसि प्रौढवधूनां रतिसमये वेदपाठ इव॥ 756 ॥
आरोग्यं विद्वत्ता सज्जनमैत्त्री महाकुले जन्म।
स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः॥ 757 ॥
अवसरपठिता वाणी गुणगणरहितापि शोभते पुंसाम्।
रतिसमये युवतीनां भूषाहानिर्विभूषणं भवति॥ 758 ॥
अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम्।
भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम्॥ 759 ॥
यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः॥ 760 ॥
विरला जानन्ति गुणान्विरलाः कुर्वन्ति निर्धने स्नेहम्।
विरलाः परकार्यरताः परदुःखेनापि दुःखिता विरलाः॥ 761 ॥
उद्वेजयति दरिद्रं परमुद्राया झणत्कारः।
गृहपतिरतिमिलतायाः कङ्कणनादो यथा जारम्॥ 762 ॥
कोऽन्धो योऽकार्यरतः को बधिरो यः शृणोति नैतानि।
को मूको यः काले प्रियाणि वक्तुं न जानाति॥ 763 ॥
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने।
अवधीरणा क्व कार्या खलपरयोषित्परधनेषु॥ 764 ॥
कुत्र विधेयो वासः सज्जनकण्ठे यथा काश्याम्।
कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च॥ 765 ॥
दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव।
तस्य तदेव हि मधुरं यस्य मनो यत्र सम्लग्नम्॥ 766 ॥
अविदितपरमानन्दो वदति जनो विषयमेव रमणीयम्।
तिलतैलमेव मृष्टं येन न दृष्टं घृतं क्वापि॥ 767 ॥
रोगी चिरप्रवासी परान्नभोजी परावसथशायी।
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः॥ 768 ॥
को धर्मो भूतदया किं सौख्यमरोगिता जगति।
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः॥ 769 ॥
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम्।
वित्तं त्यागनियुक्तं दुर्लभमेतच्चतुर्भद्रम्॥ 770 ॥
कल्पयति येन वृत्तिं येन च लोके प्रशस्यते सद्भिः।
स गुणस्तेन च गुणिना रक्ष्यः सम्वर्धनीयश्च॥ 771 ॥
दुर्जनगम्या नार्यः प्रायेणापात्रभृद्भवति राजा।
कृपणानुसारि च धनं मेघो गिरिजलधिवर्षी च॥ 772 ॥
कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु।
वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम्॥ 773 ॥
दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी।
उद्युक्तो विद्यान्तं धर्मार्थयशांसि च विनीतः॥ 774 ॥
निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः।
यत्कमपि वहति गर्भं महतामपि यो गुरुर्भवति॥ 775 ॥
अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते।
निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः॥ 776 ॥
विषमस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम्।
उष्ट्राणामिव तेषां मन्येऽहं शम्सतिं जन्म॥ 777 ॥
दुरधिगमः 1परभागो यावत्पुरुषेण पौरुषं न कृतम्।
जयति तुलामधिरूढो भास्वानपि जलदपटलानि॥ 778 ॥

आपदि येनोपकृतं येन च हसितं दशासु चान्त्यासु।
उपकृदपकृदपि च तयोर्यस्तं पुरुषं परं मन्ये॥ 779 ॥
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति।
दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः॥ 780 ॥
पश्यति परस्य युवतिं सकाममपि तन्मनोरथं कुरुते।
ज्ञात्वैव तदप्राप्तिं व्यर्थं मनुजो हि पापभाग्भवति॥ 781 ॥
स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि।
मधुरापि हि मूर्छयते विष2विटपिसमाश्रिता 3वल्ली॥ 782 ॥

सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य।
हस्ततुलयापि निपुणाः पलप्रमाणं विजानन्ति॥ 783 ॥
कविहृदयेष्वनसूया कस्तूरीकर्दमेष्वमालिन्यम्।
अक्षारता पयोधाववनीपालेषु पाण्डित्यम्॥ 784 ॥
वस्तुनि चिराभिलषिते कथमपि दैवात्प्रसक्तसङ्घटने।
प्राक्प्राप्तान्यपि बहुशो दुःखानि परं सुखानि जायन्ते॥ 785 ॥
4विस्रब्धघातदोषः स्ववधाय खलस्य वीरकोपकरः।
नवतरुभङ्गध्वनिरिव हरिनिद्रात5स्करः करिणः॥ 786 ॥

सत्यपि च सुकृतकर्मणि दुर्नीतिश्चेच्छ्रियं हरत्येव।
तैलैः सदोपयुक्तां दीपशिखां दलति वातालिः॥ 787 ॥
उपचारः कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः।
उत्पन्नसौहृदानामुपचारः कैतवं भवति॥ 788 ॥
स्नेहो हि वरमघटितो न वरं सञ्जातविघटितस्नेहः।
हृतनयनो हि विषादी न विषादी भवति जात्यन्धः॥ 789 ॥
नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः।
के शशधरकरनिकरानुकारिणः सज्जना एव॥ 790 ॥
किं क्रूरं स्त्रीहृदयं किं गृहिणः प्रियहिताय दारगुणाः।
कः कामः सङ्कल्पः किं दुष्करसाधनं प्रज्ञा॥ 791 ॥
वितरति यावद्दाता तावत्सकलोऽपि भवति कलभाषी।
विरते पयसि घनेभ्यः शाम्यन्ति शिखण्डिनां ध्वनयः॥ 792 ॥
व्यसने मित्त्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति।
विनये भृत्यपरीक्षा दानपरीक्षा च दुर्भिक्षे॥ 793 ॥
आलस्यं स्त्रीसेवा सरोगता 1जन्मभूमिवात्सल्यम्।
सन्तोषो भीरुत्वं षड् व्याघाता महत्त्वस्य॥ 794 ॥

अप्येकवंशजनुषोः पश्यत पूर्णत्वतुच्छताभाजोः।
ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि भर्ता॥ 795 ॥
अन्धत्वमन्धसमये बधिरत्वं बधिरकाल आलम्ब्य।
श्रीकेशवयोः प्रणयी परमेष्ठी नाभिवास्तव्यः॥ 796 ॥
नियतैः पदैर्निषेव्यं स्खलितेऽनर्थावहं समाश्रयति।
सम्भवदन्यगतिः कः सङ्क्रमकाष्ठं दुरीशं च॥ 797 ॥
सम्यगनिष्पन्नः सन्योऽर्थस्त्वरया स्फुटीक्रियते।
स व्यङ्ग्य एव भवति प्रथमो विनतातनूज इव॥ 798 ॥
अधरस्य मधुरिमाणं कुचकाठिन्यं दृशोस्तथा तैक्ष्ण्यम्।
कवितायाः परिपाकाननुभवरसिको विजानाति॥ 799 ॥
सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः।
यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि॥ 800 ॥
निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम्।
पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम्॥ 801 ॥
राज्ये सारं वसुधा वसुधायामपि पुरं पुरे सौधम्।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम्॥ 802 ॥
वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु।
कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम्॥ 803 ॥
सन्निहितेऽपि दुरापे वस्तुनि मनसोऽनवाप्तविषयस्य।
भवति न संशयनाशो बहुशोऽप्याश्वास्यमानस्य॥ 804 ॥
स्ववशः करोति कर्म प्रमादयुक्तस्तु परवशो भवति।
स्ववशो रोहति वृक्षं निपतत्यवशस्ततः पुरुषः॥ 805 ॥
भोगाक्षमस्य रक्षां दृङ्मात्रेणैव कुर्वतोऽनभिमतस्य।
वृद्धस्य प्रमदापि श्रीरपि भृत्यस्य भोगाय॥ 806 ॥
सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः।
विद्यते नहि स कश्चिदुपायः सर्वलोकपरितोषकरो यः॥ 807 ॥
कस्यचित्किमपि नो हरणीयं मर्मवाक्यमपि नोच्चरणीयम्।
श्रीपतेः पदयुगं स्मरणीयं लीलया भवजलं तरणीयम्॥ 808 ॥
आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणीयम्।
रामधाम शरणीकरणीयं लीलया भवजलं तरणीयम्॥ 809 ॥
जीवितं तदपि जीवितमध्ये गण्यते सुकृतिभिः किमु पुंसाम्।
ज्ञानविक्रमकलाकुललज्जात्यागभोगरहितं विफलं यत्॥ 810 ॥
लोक एष गतलोचनत्रपः कस्य वा न विवृणोति वाच्यताम्।
लोचनोत्सवमशेषजीवनं यत्कलङ्कयति चन्द्रमण्डलम्॥ 811 ॥
यः परस्य विषमं विचिन्तयेत्प्राप्नुयात्स कुमतिः स्वयं हि तत्।
पूतना हरिवधार्थमाययौ प्राप सैव वधमात्मनस्ततः॥ 812 ॥
काके शौचं द्यूतकारे च सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः।
क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्त्रं केन दृष्टं श्रुतं वा॥ 813 ॥
एको देवः केशवो वा शिवो वा एकं मित्त्रं भूपतिर्वा यतिर्वा।
एका भार्या सुन्दरी वा दरी वा एको वासः पत्तने वा वने वा॥ 814 ॥
चित्तायत्तं धातुबद्धं शरीरं नष्टे चित्ते धातवो यान्ति नाशम्।
तस्माच्चित्तं सर्वदा रक्षणीयं स्वस्थे चित्ते बुद्धयः सम्भवन्ति॥ 815 ॥
शुक्ले पक्षे शीतरश्मिर्बलीयान्न प्राधान्यं तारकायास्तु दृष्टम्।
शक्त्या युक्ते विद्यमानेऽपि कान्ते न प्राधान्यं योषितां क्वापि दृष्टम्॥ 816 ॥
दाता दानस्यान्तरा स्यात्पृथिव्यां गेहे गेहे याचकानां समूहः।
चिन्तारत्नस्यास्ति सत्त्वे विवादो मार्गे मार्गे रेणवः सन्त्यसङ्ख्याः॥ 817 ॥
मांसं मृगाणां 1दशनौ गजानां 2मृगद्विषां चर्म फलं द्रुमाणाम्।
स्त्रीणां सुरूपं च नृणां हिरण्यमेते गुणा वैरकरा भवन्ति॥ 818 ॥

शाठ्येन धर्मं कपटेन मित्त्रं परोपतापेन समृद्धिभावम्।
सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये व्यक्तमपण्डितास्ते॥ 819 ॥
राजा घृणी ब्राह्मणः सर्वभक्षी स्त्री चावशा दुष्टबुद्धिः सहायः।
प्रेष्यः प्रतीपोऽधिकृतः प्रमादी त्याज्या इमे यश्च कृतं न वेत्ति॥ 820 ॥
मूर्खो द्विजातिः स्थविरो गृहस्तः कामी दरिद्रो धनवांस्तपस्वी।
वेश्या कुरूपा नृपतिः कदर्यो लोके षडेतानि विडम्बितानि॥ 821 ॥
दानं दरिद्रस्य विभोश्च शान्तिर्यूनां तपो ज्ञानवतां च मौनम्।
इच्छानिवृत्तिश्च सुखान्वितानां दया च भूतेषु दिवं नयन्ति॥ 822 ॥
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन्॥ 823 ॥
आरोग्यमानृण्यमविप्रवासः सप्रत्यया वृत्तिरभीतिवासः।
सद्भिर्मनुष्यैः सह सम्प्रयोगः षड् जीवलोकस्य सुखानि राजन्॥ 824 ॥
मृतस्य लिप्सा1 कृपणस्य दित्सा2 विमार्गगायाश्च रुचिः स्वकान्ते।
सर्पस्य शान्तिः कुटिलस्य मैत्त्री विधातृसृष्टौ नहि दृष्टपूर्वा॥ 825 ॥

आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्त्री खलसज्जनानाम्॥ 826 ॥
भार्यावियोगः स्वजनापवादो ऋणस्य शेषं कृपणस्य सेवा।
दारिद्र्यकाले प्रियदर्शनं च विनाग्निना पञ्च दहन्ति कायम्॥ 827 ॥
अश्वप्लुतं वासवगर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम्।
अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः॥ 828 ॥
राष्ट्रस्य चित्तं कृपणस्य वित्तं मनोरथं दुर्जनमानुषाणाम्।
स्त्रियश्चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः॥ 829 ॥
किं पौरुषं रक्षति यो न वार्तान्किं वा धनं नार्थिजनाय यत्स्यात्।
सा किं क्रिया या न हितानुबद्धा किं जीवितं साधुविरोधि यद्वै॥ 830 ॥
अन्यायवित्तेन कृतोऽपि धर्मः सव्याज इत्याहुरशेषलोकाः।
न्यायार्जितार्थेन स एव धर्मो निर्व्याज इत्यार्यजना वदन्ति॥ 831 ॥
यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्तितुं वा।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः॥ 832 ॥
शास्त्रेषु निष्ठा सहजश्च बोधः प्रागल्भ्यमभ्यस्तगुणा च वाणी।
कालानुरोधः प्रतिभानवत्त्वमेते गुणाः कामदुघाः क्रियासु॥ 833 ॥
न स्वल्पमप्यध्यवसायभीरोः करोति विज्ञानविधिर्गुणं हि।
अन्धस्य किं हस्ततलस्थितोऽपि प्रकाशयत्यर्थमिह प्रदीपः॥ 834 ॥
न कस्यचित्कश्चिदिह स्वभावाद्भवत्युदारोऽभिमतः खलो वा।
लोके गुरुत्वं विपरीततां वा स्वचेष्टितान्येव नरं नयन्ति॥ 835 ॥
अपायसन्दर्शनजां विपत्तिमुपायसन्दर्शजां च सिद्धिम्।
मेधाविनो नीतिविधिप्रयुक्तां पुरःस्फुरन्तीमिव दर्शयन्ति॥ 836 ॥
दन्तस्य निर्घर्षणकेन राजन्कर्णस्य कण्डूयनकेन वापि।
तृणेन कार्यं भवतीश्वराणां किमङ्ग वाक्पाणिमता नरेण॥ 837 ॥
त्यजेत्क्षुधार्तो महिलां सपुत्रां खादेत्क्षुधार्ता भुजगी स्वमण्डम्।
बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति॥ 838 ॥
दारेषु किञ्चित्स्वजनेषु किञ्चिद्गोप्यं वयस्येषु सुतेषु किञ्चित्।
युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात्॥ 839 ॥
मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरङ्गैः।
मूर्खाश्च मूर्खैः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम्॥ 840 ॥
त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात्कदाचिद्गतिमाप्नुयात्सः।
यथा समुद्रेऽपि च पोतभङ्गे सांयात्रिको वाञ्छति तर्तुमेव॥ 841 ॥
दानेन तुल्यो विधिरस्ति नान्यो लोभाच्च नान्योऽस्ति परः पृथिव्याम्।
विभूषणं शीलसमं न चान्यत्सन्तोषतुल्यं धनमस्ति नान्यत्॥ 842 ॥
एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारमिवार्णवस्य।
तावद्द्वितीयं समुपस्थितं मे छिद्रेष्वनर्था बहुलीभवन्ति॥ 843 ॥
क्षते प्रहारा निपतन्त्यभीक्ष्णं धनक्षये वर्धति जाठराग्निः।
आपत्सु वैराणि समुद्भवन्ति छिद्रेष्वनर्था बहुलीभवन्ति॥ 844 ॥
अर्थातुराणां न गुरुर्न बन्धुः कामातुराणां न भयं न लज्जा।
विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न रुचिर्न वेला॥ 845 ॥
विवाहकाले ऋतुसम्प्रयोगे प्राणात्यये सर्वधनापहारे।
विप्रस्य चार्थेऽप्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि॥ 846 ॥
यत्रास्तिलक्ष्मीर्विनयो न तत्र ह्यभ्यागतो यत्र न तत्र लक्ष्मीः।
उभौ च तौ यत्र न तत्र विद्या नैकत्र सर्वो गुणसन्निपातः॥ 847 ॥
द्वारि प्रविष्टः सहसा ततः किं दृष्टः प्रभुः स्मेरमुखस्ततः किम्।
कथा श्रुता श्रोत्ररसा ततः किं व्यथा न शान्ता यदि जाठरीया॥ 848 ॥
सुपात्रदानाच्च भवेद्धनाढ्यो धनप्रभावेण करोति पुण्यम्।
पुण्यप्रभावात्सुरलोकवासी पुनर्धनाढ्यः पुनरेव भोगी॥ 849 ॥
कुपात्रदानाच्च भवेद्दरिद्रो दारिद्र्यदोषेण करोति पापम्।
पापप्रभावान्नरकं प्रयाति पुनर्दरिद्रः पुनरेव पापी॥ 850 ॥
प्रभुर्विवेकी धनवांश्च दाता विद्वान्विरागी प्रमदा सुशीला।
तुरङ्गमः शस्त्रनिपातधीरो भूमण्डलस्याभरणानि पञ्च॥ 851 ॥
स्वदेशजातस्य नरस्य नूनं गुणाधिकस्यापि भवेदवज्ञा।
निजाङ्गना यद्यपि रूपराशिस्तथापि लोकः परदारसक्तः॥ 852 ॥
गन्धः सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु।
विद्वान्धनाढ्यो न तु दीर्घजीवी धातुः पुरा कोऽपि न बुद्धिदोऽभूत्॥ 853 ॥
सर्पस्य रत्ने कृपणस्य वित्ते सत्याः कुचे केसरिणश्च केशे।
मानोन्नतानां शरणागते च मृतौ भवेदन्यकरप्रचारः॥ 854 ॥
श्रुतिर्विभिन्ना स्मृतयश्च भिन्ना नैको मुनिर्यस्य वचोऽप्रमाणम्।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः॥ 855 ॥
प्रागल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते।
न तृप्तिमुत्पादयते शरीरे वृद्धस्य दारा इव दर्शनीयाः॥ 856 ॥
राजाश्रयस्तस्करताश्वपण्यमाथर्वणं चापि समुद्रयानम्।
एतानि सिद्ध्यन्ति महाफलानि विपर्यये प्राणहराणि पञ्च॥ 857 ॥
स्वर्गच्युतानामिह भूमिलोके चत्वारि चिह्नानि वसन्ति देहे।
दानप्रसङ्गो मधुरा च वाणी सुरार्चनं ब्राह्मणतर्पणं च॥ 858 ॥
निरक्षरे वीक्ष्य महाधनत्वं विद्यानवद्या विदुषा न हेया।
रत्नावतंसाः कुलटाः समीक्ष्य किमार्यनार्यः कुलटा भवन्ति॥ 859 ॥
गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम्।
अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति॥ 860 ॥
किमिष्टमन्नं खरसूकराणां किं रत्नहारो मृगपक्षिणां च।
अन्धस्य दीपो बधिरस्य गीतं मूर्खस्य किं शास्त्रकथाप्रसङ्गः॥ 861 ॥
ये शान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः स्त्रीविषये निवृत्ताः।
प्रतिग्रहे सङ्कुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः॥ 862 ॥
पतिव्रतायाः कुचकुम्भयुग्ममत्युग्रशार्दूलनखावलिश्च।
वीरस्य शस्त्रं कृपणस्य वित्तं लभ्यानि चत्वारि तदन्तकाले॥ 863 ॥
देशाटनं पण्डितमित्त्रता च वाराङ्गना राजसभाप्रवेशः।
अनेकशास्त्रार्थविलोकनं च चातुर्यमूलानि भवन्ति पञ्च॥ 864 ॥
न वेत्ति यो यस्य गुणप्रकर्षं स तं सदा निन्दति नात्र चित्रम्।
यथा किराती करिकुम्भजातां मुक्तां परित्यज्य बिभर्ति गुञ्जाम्॥ 865 ॥
गिरौ मयूरा गगने पयोदा लक्षान्तरेऽर्कश्च जलेषु पद्मम्।
इन्दुर्द्विलक्षं कुमुदस्य बन्धुर्यो यस्य मित्त्रं नहि तस्य दूरम्॥ 866 ॥
सुभाषितज्ञेन जनेन साकं सम्भाषणं सुप्रभुसेवनं च।
आलिङ्गनं तुङ्गपयोधराणां प्रत्यक्षसौख्यं त्रयमेव लोके॥ 867 ॥
अर्थो नराणां पतिरङ्गनानां वर्षा नदीनामृतुराट् तरूणाम्।
स्वधर्मचारी नृपतिः प्रजानां गतं गतं यौवनमानयन्ति॥ 868 ॥
जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते।
गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवो हि सम्पदः॥ 869 ॥
सम्पूर्णकुम्भो न करोति शब्दमर्धो घटो घोषमुपैति नूनम्।
विद्वान्कुलीनो न करोति गर्वं गुणैर्विहीना बहु जल्पयन्ति॥ 870 ॥
धिग्जीवितं शास्त्रकलोज्झितस्य धिग्जीवितं चोद्यमवर्जितस्य।
धिग्जीवितं व्यर्थमनोरथस्य धिग्जीवितं ज्ञातपराजितस्य॥ 871 ॥
रूपं जरा सर्वसुखानि तृष्णा खलेषु सेवा पुरुषाभिमानम्।
याञ्चा गुरुत्वं गुणमात्मपूजा चिन्ता बलं हन्त्यदया च लक्ष्मीम्॥ 872 ॥
शुष्केन्धने वह्निरुपैति वृद्धिं बालेषु शोकश्चपलेषु कोपः।
कान्तासु कामो निपुणेषु वित्तं धर्मो दयावत्सु महत्सु धैर्यम्॥ 873 ॥
निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम्।
वयोगते किं वनिताविलासः पयोगते किं खलु सेतुबन्धः॥ 874 ॥
त्रिविक्रमोऽभूदपि वामनोऽसौ स शूकरश्चेति स वै नृसिंहः।
नीचैरनीचैरतिनीचनीचैः सर्वैरुपायैः पलमेव साध्यम्॥ 875 ॥
कुग्रामवासः कुजनस्य सेवा कुभोजनं क्रोधमुखी च भार्या।
मूर्खश्च पुत्रो विधवा च कन्या विनाग्निना सन्दहते शरीरम्॥ 876 ॥
अल्पीयसामेव निवासभूमित्यागाद्विपत्तिर्महतां न जातु।
रत्नाकरात्सन्मणयोऽभियान्ति राज्ञां शिरः काकमुखानि भेकाः॥ 877 ॥
अनेकशास्त्रं बहु वेदितव्यमल्पश्च कालो बहवश्च विघ्नाः।
यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात्॥ 878 ॥
अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः।
सारं ततो ग्राह्यमपास्य फल्गु हंसो यथा क्षीरमिवाम्बुमध्यात्॥ 879 ॥
क्रोधो हि शत्रुः प्रथमो नराणां देहस्थितो देहविनाशनाय।
यथा स्थितः काष्ठगतो हि वह्निः स एव वह्निर्दहते शरीरम्॥ 880 ॥
यथा विहङ्गास्तरुमाश्रयन्ति नद्यो यथा सागरमाश्रयन्ति।
यथा तरुण्यः पतिमाश्रयन्ति सर्वे गुणाः काञ्चनमाश्रयन्ति॥ 881 ॥
यती व्रती चापि पतिव्रताश्च वीराश्च शूराश्च दयापराश्च।
त्यागी च भोगी च बहुश्रुतश्च सुसङ्गमात्रेण दहन्ति पापम्॥ 882 ॥
वसन्त्यरण्येषु चरन्ति दूर्वाः पिबन्ति तोयान्यपरिग्रहाणि।
तथापि वघ्या हरिणा नराणां को लोकमाराधयितुं समर्थः॥ 883 ॥
न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम्।
धर्मो न वै यत्र च नास्ति सत्यं सत्यं न तद्यच्छलनानुविद्धम्॥ 884 ॥
वरं सखे सत्पुरुषापमानितो न नीचसम्सर्गगुणैरलङ्कृतः।
वराश्वपादेन हतो विराजते न रासभस्योपरि संस्थितो नरः॥ 885 ॥
आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्॥ 886 ॥
उपाधिभिः सन्ततसङ्गतोऽपि नहि स्वभावं विजहाति भावः।
आजन्म उन्मज्जति दुग्धसिन्धौ तथापि काकः किल कृष्ण एव॥ 887 ॥
किं वाससा तत्र विचारणीयं वासः प्रधानं खलु योग्यतायाः।
पीताम्बरं वीक्ष्य ददौ स्वकन्यां चर्माम्बरं वीक्ष्य विषं समुद्रः॥ 888 ॥
करोति नोऽशेषजनातिरिक्तां सम्भावनामर्थवतीं क्रियाभिः।
सम्सत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति सङ्ख्या॥ 889 ॥
नरस्य चिह्नं नरकागतस्य विरोधिता बन्धुजनेषु नित्यम्।
सरोगता नीचगतेषु सेवा ह्यतीव दोषः कटुका च वाणी॥ 890 ॥
स्थितो न खादामि हसन्न जल्पे गतं न शोचामि कृतं न मन्ये।
द्वयोस्तृतीयो न भवामि राजन्केनास्मि मूर्खो वद कारणेन॥ 891 ॥
यस्मिन्कुले यः पुरुषः प्रधानः स सर्वयत्नेन हि रक्षणीयः।
तस्मिन्विनष्टे सकलं विनष्टं न नाभिभङ्गे ह्यरका वहन्ति॥ 892 ॥
पुराणमित्येव न साधु सर्वं न चापि काव्यं नवनित्यवद्यम्।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥ 893 ॥
सञ्चिन्त्य सञ्चिन्त्य जगत्समस्तं त्रयः पदार्था हृदयं प्रविष्टाः।
इक्षोर्विकाराः कृतयः कवीनां मुग्धाङ्गनापाङ्गतरङ्गितानि॥ 894 ॥
बालसखित्वमकारणहास्यं स्त्रीषु विवादमसज्जनसेवा।
गर्दभयानमसम्स्कृतवाणी षट्सु नरो लघुतामुपयाति॥ 895 ॥
वयसि गते कः कामविकारः क्षीणे वित्ते कः परिवारः।
शुष्के नीरे कः कासारो ज्ञाते तत्त्वे कः सम्सारः॥ 896 ॥
जवो हि 1सप्तेः परमं विभूषणं त्रपाङ्गनायाः कृशता तपस्विनः।
द्विजस्य विद्या नृपतेरपि क्षमा पराक्रमः शस्त्रबलोपजीविनाम्॥ 897 ॥

धनेन किं यो न ददाति याचके बलेन किं यश्च रिपुं न बाधते।
श्रुतेन किं यो न च धर्ममाचरेत्किमात्मना यो न जितेन्द्रियो भवेत्॥ 898 ॥
श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा।
निशा शशाङ्केन धृतिः समाधिना नयेन चालङ्क्रियते नरेन्द्रता॥ 899 ॥
प्रकीर्णकेशामनवेक्ष्यकारिणीं सदा च भर्तुः प्रतिकूलभाषिणीम्।
परस्य वेश्माभिरतामपत्रपामेवंविधां योषितमाशु वर्जयेत्॥ 900 ॥
सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते।
अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः॥ 901 ॥
मनीषिणः सन्ति न ते हितैषिणो हितैषिणः सन्ति न ते मनीषिणः।
सुहृच्च विद्वानपि दुर्लभो नृणां यथौषधं स्वादु हितं च दुर्लभम्॥ 902 ॥
परोऽवजानाति यदज्ञताजडस्तदुन्नतानां न विहन्ति धीरताम्।
समानवीर्यान्वयपौरुषेषु यः करोत्यतिक्रान्तिमसौ तिरस्क्रिया॥ 903 ॥
यदा विगृह्णाति हतं तदा यशः करोति मैत्रीमथ दूषिता गुणाः।
स्थितिं समीक्ष्योभयथा परीक्षकः करोत्यवज्ञोपहतं पृथग्जनम्॥ 904 ॥
वनेषु दोषाः प्रभवन्ति रागिणां गृहेषु पञ्चेन्द्रियनिग्रहस्तपः।
अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम्॥ 905 ॥
सुजीर्णमन्नं सुविचक्षणः सुतः सुशासितास्त्रीनृपतिः सुसेवितः।
सुचिन्त्य चोक्तं सुविचार्य यत्कृतं सुदीर्घकालेऽपि न याति विक्रियाम्॥ 906 ॥
तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः।
समुच्छ्रितानेव तरून्प्रबाधते महान्महत्स्वेन करोति विक्रमम्॥ 907 ॥
निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै कथं जनस्तं परितोषयिष्यति॥ 908 ॥
न साहसैकान्तरसानुवर्तिना न चाप्यपायोपहतान्तरात्मना।
विभूतयः शक्यमवाप्तुमूर्जिता नये च शौर्ये च वसन्ति सम्पदः॥ 909 ॥
मुदं विषादः शरदं हिमगमस्तमो विवस्वान्सुकृतं कृतघ्नता।
प्रियोपपत्तिः शुचमापदं नयः श्रियः समृद्धा अपि हन्ति दुर्नयः॥ 910 ॥
उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः।
अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः॥ 911 ॥
असत्यता निष्ठुरताकृतज्ञता भयं प्रमादोऽलसता विषादिता।
वृथाभिमानो ह्यतिदीर्घसूत्रता तथाङ्गरौक्ष्यादि विनाशनं श्रियः॥ 912 ॥
दरिद्रता धीरतया विराजते कुरूपता शीलतया विराजते।
कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते॥ 913 ॥
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः।
तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा॥ 914 ॥
कुदेशमासाद्य कुतोऽर्थसञ्चयः कुपुत्रमासाद्य कुतो जलाञ्जलिः।
कुगेहिनीं प्राप्य गृहे कुतः सुखं कुशिष्यमध्यापयतः कुतो यशः॥ 915 ॥
मात्रा समं नास्ति शरीरपोषणं चिन्तासमं नास्ति शरीरशोषणम्।
भार्यासमं नास्ति शरीरतोषणं विद्यासमं नास्ति शरीरभूषणम्॥ 916 ॥
गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः॥ 917 ॥
सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम्।
सुखाच्च यो याति नरो दरिद्रतां धृतः शरीरेण मृतः स जीवति॥ 918 ॥
स दीक्षितो यः सकलं सदीक्षते स पण्डितो यः करणैरखण्डितः।
स तापसो यः परतापकर्षणः स धार्मिको यः परमर्म न स्पृशेत्॥ 919 ॥
यशस्करे कर्मणि मित्त्रसङ्ग्रहे प्रियासु नारीष्वधनेषु बन्धुषु।
क्रतौ विवाहे व्यसने रिपुक्षये धनव्ययस्त्वेषु न गण्यते बुधैः॥ 920 ॥
विवादशीलां स्वयमर्थचोरिणीं परानुकूलां बहुपाकपाकिनीम्।
सक्रोधिनीं चान्यगृहेषु वासिनीं त्यजन्ति भार्यां दशपुत्रमातरम्॥ 921 ॥
अतिप्रचण्डा बहुदुःखभागिनी विवादशीला परगेहगामिनी।
भर्तुः स्वयं निन्दति या च तस्करी त्यजेत्स्वभार्यां दशपुत्रपुत्रिणीम्॥ 922 ॥
कुले कलङ्कः कवले कदन्नता सुतः कुबुद्धिर्भवने दरिद्रता।
रुजः शरीरे कलहप्रिया प्रिया गृहागमे दुर्गतयः षडेते॥ 923 ॥
प्रकटं मृदु नाम जल्पतः परुषं सूचयतोऽर्थमन्तरा।
शकुनादिव मार्गवर्तिभिः पुरुषादुद्विजितव्यमीदृशात्॥ 924 ॥
मतिरेव बलाद्गरीयसी यदभावे करिणामियं दशा।
इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन्॥ 925 ॥
महतां यदि निन्दने रतिर्गुणसङ्ख्यैव तदा विधीयताम्।
असतामपि चेत्स्तवे रतिर्ननु तद्दूषणमेव गण्यताम्॥ 926 ॥
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम्।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम्॥ 927 ॥
महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति।
कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः॥ 928 ॥
क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः।
शिरसौघमधत्त शङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा॥ 929 ॥
कृतिनामकृती कथं कथं वा तुलनां यातु कृतैर्वचःप्रपञ्चैः।
बहुभिर्विधृतैः कचैः कलापैर्विधवा किं सधवोपमानमेति॥ 930 ॥
अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः।
उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः॥ 931 ॥
उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः।
अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम्॥ 932 ॥
जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया।
कामो ह्रियं वृत्तमनार्यसेवा क्रोधः श्रियं सर्वमेवाभिमानः॥ 933 ॥
गुणवानपि नोपयाति पूजां पुरुषः सत्पुरुषैरकथ्यमानः।
न हि सौरमणिः स्वभावकान्तिं रविपादैरनधिष्ठितः करोति॥ 934 ॥
सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥ 935 ॥
विना गोरसं को रसो भोजनानां विना गोरसं को रसो भूपतीनाम्।
विना गोरसं को रसः कामिनीनां विना गोरसं को रसः पण्डितानाम्॥ 936 ॥
सकलापि कला कलावतां विकलां पुण्यकलां विना खलु।
सकले नयने वृथा यथा तनुभाजां हि कनीनिकां विना॥ 937 ॥
सुकुलजन्म वि1भूतिरनेकधा प्रियसमागमसौख्यपरम्परा।
नृपकुले 2गुरुता विमलं यशो भवति पुण्यतरोः फलमीदृशम्॥ 938 ॥

3कनकभूषणसङ्ग्रहणोचितो यदि 4मणिस्त्र5पुणि प्रणिधीयते।
न स विरौति न चापि हि शोभते भवति योजयितुर्वच6नीयता॥ 939 ॥

सहजमलिनवक्रभावभाजां भवति भवः प्रभवात्मनाशहेतुः।
जलधरपदवीमवाप्य धूमो ज्वलनविनाशमनुप्रयाति नाशम्॥ 940 ॥
परिहरतपराङ्गनानुषङ्गं बत यदि जीवितमस्ति वल्लभं वः।
हरहर हरिणीदृशो निमित्तं दश दशकन्धरमौलयो लुठन्ति॥ 941 ॥
शिशुरपि नि1पुणे 2गुरोर्गरीयान्न तु वपुषैव महान्मह3त्प्रतिष्ठः।
मणिरणुरपि भूषणाय पुंसां न तु पृथुलैव शिला विलासहेतुः॥ 942 ॥

अनुदिनमनुकूलमाचरन्तं विहितमतिः प्रतिकूलमाचरेत्कः।
शमितगरलजातकण्ठदाहं शितिकण्ठः शशिनं शिरःसु धत्ते॥ 943 ॥
नितम्बो विशालः कटिर्मध्यसूक्ष्मा कुचद्वन्द्वमत्यन्तभव्यं मुखं च।
वचश्चेन्न किञ्चिद्रसालं रमण्यास्ततः किं ततः किं ततः किं ततः किम्॥ 944 ॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्त्री नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य॥ 945 ॥
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः सन्तापयन्ति कमपथ्यभुजं न रोगाः।
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषया ननु तापयन्ति॥ 946 ॥
वित्तेन किं वितरणं यदि नास्ति दीने किं सेवया यदि परोपकृतौ न यत्नः।
किं सङ्गमेन तनयो यदि नेक्षणीयः किं यौवनेन विरहो यदि वल्लभायाः॥ 947 ॥
किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः।
किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम्॥ 948 ॥
प्राप्ताः श्रियः सकलकामदुघास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम्।
सम्प्रीणिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम्॥ 949 ॥
आदौ न वा प्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदनं परिपोषणीयः।
उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां भूमौ स्थितस्य पतनाद्भयमेव नास्ति॥ 950 ॥
वाञ्छैव सूचयति पूर्वतरं भविष्यं पुंसां यदन्यतनुजं त्वशुभं शुभं वा।
विज्ञायते शिशुरजातकलापचिह्नः प्रत्युद्गतैरपसरन्सरसः(?) कलापि॥ 951 ॥
शस्त्रैर्हतास्तु रिपवो न हता भवन्ति प्रज्ञाहताश्च नितरां सुहता भवन्ति।
शश्त्रं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवं च यशश्च हन्ति॥ 952 ॥
स्थानेषु शिष्यनिवहैर्विनियुज्यमाना विद्या गुरुं हि गुणवत्तरमातनोति।
आदाय शुक्तिषु बलाहकविप्रकीर्णै रत्नाकरो भवति वारिभिरम्बुराशिः॥ 953 ॥
वार्ता4 च कौतुककरी5 विमला च विद्या लोकोत्तरः परिमलश्च कुरह्गनाभेः।
तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्त्रयं प्रसरति स्वयमेव भूमौ॥ 954 ॥

अत्यन्तमन्थनकदर्थनमुत्सहन्ते मर्यादया नियमिताः किमु साधवोऽपि।
लक्ष्मीसुधाकरसुधाद्युपनीय शेषे रत्नाकरोऽपि गरलं किमु नोज्जगार॥ 955 ॥
अर्था हसन्त्युचितदानविहीनलुब्धं भूम्यो हसन्ति मम भूमिरिति ब्रुवाणम्।
जारा हसन्ति तनयानुपलालयन्तं मृत्युर्हसत्यवनिपं रणरङ्गभीरुम्॥ 956 ॥
वैद्या वदन्ति कफपित्तमरुद्विकाराञ्ज्योतिर्विदो ग्रहगतिं परिवर्तयन्ति।
1भूताभिषङ्ग इति भूतविदो वदन्ति प्राचीनकर्म बलवन्मुनयो वदन्ति॥ 957 ॥

कस्यापि कोऽप्यतिशयोऽस्ति स तेन लोके ख्यातिं प्रयाति नहि सर्वविदस्तु सर्वे।
किं केतकी फलति किं पनसः सुपुष्पः किं नागवल्ल्यपि च पुष्पफलैरुपेता॥ 958 ॥
शीलावलम्बनमहर्निशमिष्टचिन्ता वित्तानुरूपमशनाभरणादि कार्यम्।
कार्यं च दुर्जनसमाजनिजप्रशंसा हास्यादि सज्जनवचो हृदये निधेयम्॥ 959 ॥
पश्यन्ति नैव कवयो निजकाव्यदोषं भक्षन्ति नो बलिभुजो निजजातिमांसम्।
जल्पन्ति नैव मधुपा निजमर्मवाक्यं कुर्वन्ति नो युवतयः पुरुषेषु बीजम्॥ 960 ॥
कीर्तिं मृणालकमनीयभुजामनिद्रचन्द्राननां स्मितसरोरुहचारुनेत्राम्।
ज्योत्स्नास्मितामपहतां दयितामिव स्वां लब्धुं न कं परमुपक्रममातनोति॥ 961 ॥
शास्त्रं सुनिश्चलधिया परिचिन्तनीयं सेव्यो नृपोऽपि सततं परिसेवनीयः।
अङ्के स्थितापि युवतिः परिरक्षणीया शास्त्रे नृपे च युवतौ च कुतः स्थिरत्वम्॥ 962 ॥
हंसो विभाति नलिनीदलपुञ्जमध्ये सिंहो विभाति गिरिगह्वरकन्दरासु।
जात्यो विभाति तुरगो रणयुद्धमध्ये विद्वान्विभाति पुरुषेषु विचक्षणेषु॥ 963 ॥
हंसो न भाति बलिभोजनवृन्दमध्ये गोमायुमण्डलगतो न विभाति सिंहः।
जात्यो न बाति तुरगः खरयूथमध्ये विद्वान्न भाति पुरुषेषु निरक्षरेषु॥ 964 ॥
विश्वेश्वरस्तु सुधिया गलितेऽपि भेदे भावेन भक्तिसहितेन समर्चनीयः।
प्राणेश्वरश्चतुरया मिलितेऽपि चित्ते चैलाञ्चलव्यवहितेन निरीक्षणीयः॥ 965 ॥
किं कोकिलस्य विरुतेन गते वसन्ते किं कातरस्य बहुशस्त्रपरिग्रहेण।
मित्त्रेण किं व्यसनकालपराङ्मुखेन किं जीवितेन पुरुषस्य निरक्षरेण॥ 966 ॥
हारः प्रलम्बितपयोधरमध्यवर्ती शुष्कस्तनान्तरगतो वरकञ्चुकश्च।
काणेक्षणाञ्जनममूर्ध्नि च पुष्पमाला दीनाश्रयो बुधजनः खलु पञ्च दुःखम्॥ 967 ॥
नीचं समृद्धमपि सेवति नीच एव तं दूरतः परिहरन्ति पुनर्महान्तः।
शाखोटकं मधुरपक्वफलैरुपेतं सेवन्ति वायसगणा न तु राजहंसाः॥ 968 ॥
माकन्दराजपरिरम्भणलालितापि मल्लीवधूर्मधुपरागवती बभूव।
दृष्ट्वापि तत्कुटिलतां न जहाति चूतः प्रायः कुजातिनिवहेषु कुतोऽभिमानः॥ 969 ॥
कालक्रमेण परिणामवशादनव्या भावा भवन्ति खलु पूर्वमतीव तुच्छाः।
मुक्तामणिर्जलदतोयकणोऽप्यणीयान् सम्पद्यते च चिरकीचकरन्ध्रमध्ये॥ 970 ॥
यच्चिन्तितं तदिह दूरतरं प्रयाति यच्चेतसापि न कृतं तदिहाभ्युपैति।
इत्थं विधेर्विधिविपर्ययमाकलय्य सन्तः सदा सुरसरित्तटमाश्रयन्ति॥ 971 ॥
अन्तःप्रतप्तमरुसैकतदह्यमानमूलस्य चम्पकतरोः क्व विकासचिन्ता।
प्रायो भवत्यनुचितस्थितिदेशभाजां श्रेयः स्वजीवपरिपालनमात्रमेव॥ 972 ॥
उचितमनुचितं वा कुर्वता 1कार्यजातं 2परिणतिरवधार्या यत्नतः पण्डितेन।
अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः॥ 973 ॥

व्यतिषजति पदार्थानान्तरः कोऽपि हेतुर्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते।
विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥ 974 ॥
प्रथमदिवसचन्द्रः सर्वलोकैकवन्द्यः स च सकलकलाभिः पूर्णचन्द्रो न वन्द्यः।
अतिपरिचयदोषात्कस्य नो मानहानिर्नवनवगुणरागी प्रायशः सर्वलोकः॥ 975 ॥
भवति हृदयहारी कोऽपि कस्यापि हेतुर्न खलु गुणविशेषः प्रेमबन्धप्रयोगे।
किसलयितवनान्ते कोकिलारावरम्ये विकसति न वसन्ते मालती कोऽत्र हेतुः॥ 976 ॥
परीवादस्तथ्यो भवति वितथो वापि महता तथाप्युच्चैर्धाम्नो हरति महिमानं जनरवः।
तुलोत्तीर्णस्यापि प्रकटीतहताशेतमसो रवेस्तादृक्तेजो नहि भवति कन्यां गतवतः॥ 977 ॥
बहिः सर्वाकारप्रगुणरमणीयं व्यवहरन्पराभ्यूहस्थानान्यपि तनुतराणि स्थगयति।
जनं विद्वानेकः सकलमभिसन्धाय कपटैस्तटस्थः स्वानर्थान्घटयति च मौनं च भजते॥ 978 ॥
कलारत्नं गीतं गगनतलरत्नं दिनमणिः सभारत्नं विद्वाञ्श्रवणपुटरत्नं हरिकथा।
निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी महीरत्नं श्रीमाञ्जयति रघुनाथो नृपवरः॥ 979 ॥
नराः संस्कारार्हा जगति किल केचित्सुकृतिनः समानायां जात्यामपि वयसि सत्यां परधियः।
अयं दृष्टान्तोऽत्र स्फुटकरगतोऽत्यभ्यसनतः शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि॥ 980 ॥
वरं तुङ्गाच्छृङ्गाद्गुरुशिखरिणः क्वापि पुलिने पतित्वायं कायः कठिनदृषदन्तर्विदलितः।
वरं न्यस्तो हस्तः फणिपतिमुखे तीव्रदशने वरं वह्नौ पातस्तदपि न कृतः शीलविलयः॥ 981 ॥
विदैवज्ञं ग्रामं विबुधविधुरां3 भूपतिसभां मुखं श्रुत्या हीनं मनुजपतिशून्यं च विषयम्।1
अनाचारान्दारानपहरिकथं काव्यमपि च प्रवक्तृत्वापेतं गुरुमपि सुबुद्धिः परिहरेत्॥ 982 ॥

मणिः 2शाणोल्लीढः समरविजयी हेतिनिहतो3 मदक्षीणो नागः4 शरदि सरतिः 5श्यानपुलिनाः।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः॥ 983 ॥

किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः।
किमाराध्यं पुण्यं किमभिलषणीयं च करुणा यदासक्त्या चेतो निरवधि विमुक्तौ प्रभवति॥ 984 ॥
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं वरं क्लैब्यं6 पुंसां न च परकलत्राभिगमनम्।
वरं प्राणत्यागो न च पिशुनवाक्येष्वभिरुचिर्वरं भिक्षाशित्वं न च परधनास्वादनसुखम्॥ 985 ॥

वरं शून्या शाला न च खलु वरो दुष्टवृषभो वरं वेश्या पत्नी न पुनर7विनीता कुलवधूः।
वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे वरं प्राणत्यागो न पुनरधमानामुपगमः॥ 986 ॥

दृढः प्रेमा भग्नः 8सदसिरिव सन्धिं न भजते भजेतापि प्रायः स्खलति खलु यत्नैरपि धृतः।
स्खलेन्नो चेत्साम्यं भजति न भजेद्वा न भवति च्युताशङ्कश्चेत्स्यात्स्मृतिमुपगतस्तु व्यथयति॥ 987 ॥

इयं प्रीतिर्वल्ली हृदयभुवि दैवात्समुदिता तथा यत्नाद्रक्ष्या प्रकृतिमृदुलापायबहुला।
यथा नैनां स्फीतां पिशुनजनदुर्वाक्यदहनो दहत्यन्तः शोषं व्रजति न पुनः सौहृदनिधे॥ 988 ॥
न रम्यं नारम्यं प्रकृतिगुणतो वस्तु किमपि प्रियत्वं यत्र स्यादितरदपि तद्ग्राहकवशात्।
रथाङ्गाह्वानानां भवति विधुरङ्गारशकटी पटीराम्भःकुम्भः स भवति चकोरीनयनयोः॥ 989 ॥
अरण्यं 9सारङ्गैर्गिरिकुहरगर्भाश्च 10हरिभिर्दिशो दिङ्मा11तङ्गैः सलिलमुषितं पङ्कजवनैः।
प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः सतां माने म्लाने मरणमथवा दूरगमनम्॥ 990 ॥

नभोभूषा 12पूषा कमलवनभूषा मधुकरो वचोभूषा सत्यं वरविभवभूषा वितरणम्।
मनोभूषा मैत्त्री मधुसमयभूषा मनसिजः 13सदोभूषा सूक्तिः सकलगुणभूषा च विनयः॥ 991 ॥

कलासीमा काव्यं सकलगुणसीमा वितरणं भये सीमा मृत्युः सकलसुखसीमा सुवदना।
तपः-सीमा मुक्तिः सकलकृतिसीमाश्रितभृतिः प्रिये सीमाह्लादः श्रवणसुखसीमा हरिकथा॥ 992 ॥
शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः।
प्रभुर्धनपरायणः सततदुर्गतः1 सज्जनो नृपाङ्गन गतः खलो मनसि सप्त शल्यानि मे॥ 993 ॥

प्रसरति मनः कार्यारम्भे दृढीभवति स्पृहा स्वयमुपनयन्नर्थान्मतन्त्रो न गच्छति विप्लवम्।
फलति सकलं कृत्यं चित्तं समुन्नतिमश्नुते भवति च रतिः श्लाघ्ये कृत्ये नरस्य भविष्यतः॥ 994 ॥
सरसि बहुशस्ताराच्छाये क्षणात्परिवञ्चितः कुमुदविटपान्वेषी हंसो निशासु विचक्षणः।
न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं कुहकचकितो लोकः सत्येऽप्यपायमपेक्षते॥ 995 ॥
स्वफलनिचयः शाखाभङ्गं करोति वनस्पतेर्गमनमलसं बर्हाटोपः करोति शिखण्डिनः।
चतुरगमनो जात्यो योऽश्वः स गौरिव वाह्यते गुणवति जने प्रायेणैते गुणाः खलु दूषणम्॥ 996 ॥
2कृमिकुलचित 3लालाक्लिन्नं 4विगन्धि 5जुगुप्सितं निरुपमरसप्रीत्या खादन्नरास्थि 6निरामिषम्।
7सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम्8॥ 997 ॥

मधुकरगणश्चूतं त्यक्त्वा गतो नवमल्लिकां पुनरपि गतो रक्ताशोकं कदम्बवनं ततः।
तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं परिचितजनद्वेषी लोको नवं नवमीहते॥ 998 ॥
दद्यात्साधुर्यदि निजपदे दुर्जनाय प्रवेशं तन्नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः।
तस्माद्देयो विपुलमतिभिर्नावकाशोऽधमानां जारोऽपि स्याद्गृहपतिरिति श्रूयते वाक्यतोऽत्र॥ 999 ॥
मौने मौनी गुणिनि गुणवान्पण्डिते पण्डितोऽसौ दीने दीनः सुखिनि सुखवान्भोगिनि प्राप्तभोगः।
मूर्खे मूर्खो युवतिषु युवा वाग्मिषु प्रौढवाग्मी धन्यः कोऽपि त्रिभुवनजयी योऽवधूतेऽवधूतः॥ 1000 ॥
विद्यातीर्थे जगति विबुधाः साधवः सत्यतीर्थे गङ्गातीर्थे मलिनमनसो योगिनो ध्यानतीर्थे।
धारातीर्थे धरणिपतयो दानतीर्थे धनाढ्या लज्जातीर्थे कुलयुवतयः पातकं क्षालयन्ति॥ 1001 ॥
साध्वीस्त्रीणां दयितविरहे मानिनां मानभङ्गे सल्लोकानामपि जररवे निग्रहे पण्डितानाम्।
अन्योद्रेके कुटिलमनसां निर्गुणानां विदेशे भृत्याभावे भवति मरणं किं तु संभावितानाम्॥ 1002 ॥
शीतेऽतीते वसनमशनं वासरान्ते निशान्ते क्रीडारम्भं कुवलयदृशां यौवनान्ते विवाहम्।
सेतोर्बन्धं पयसि चलिते वार्धके तीर्थयात्रां वित्तेऽतीते वितरणमतिं कर्तुमिच्छन्ति मूढाः॥ 1003 ॥
श्रेयो नूनं व्रजति स पुमाञ्शिक्षया वर्दितो यः स्वच्छन्दं यश्चरति स पराभूतिमाप्नोति काले।
पूज्यो वेणुर्भवति च नतिं प्रापितो भूपतीनामन्यं नृत्तोचितमिति करे नर्तकाः कल्पयन्ति॥ 1004 ॥
बाले बाला विदुषि विबुधा गायने गायनेशाः शूरे शूरा निगमविदि चाम्नायलीलागृहाणि।
सिद्धे सिद्धा मुनिषु मुनयः सत्सु सन्तो महान्तः प्रौढे प्रौढाः किमिति वचसा तादृशा यादृशेषु॥ 1005 ॥
चान्द्रीं लेखां दशति दशनैर्दारुणः सैंहिकेयो नव्यां वल्लीं दवदहनकश्चान्दनीं दन्दहीति।
अप्युन्मत्तः कुवलयमयीं मालिकामालुनीते मूलादुन्मूलयति नलिनीं दुष्टहस्ती करेण॥ 1006 ॥
यावत्स्वस्थमिदं शरीरमरुजं1 यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्सन्दीप्ते भवने तु कूपखननं 2प्रत्युद्यमः कीदृशः॥ 1007 ॥

निर्वृत्ता3ध्वरकृत्य ऋत्विजमहो तीर्णापगो4 नाविकं युद्धान्ते 5सुभटं च सिद्धविजयो वोढारमाप्तस्थलः।
वृद्धं वारवधूजनं च कितवो6 निर्घृष्टतद्यौवनो ध्व7स्तातङ्कचयश्चि8कित्सकमपि द्वेष्टि प्रदेयार्थिनम्॥ 1008 ॥

मित्त्रं स्वच्छतया रिपुं नय9बलैर्लुब्धं धनैरीश्वरं कार्येण द्विजमादरेण युवतिं प्रेम्णा शमैर्बान्धवान्।
अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधं विद्याभी रसिकं रसेन सकलं शीलेन कुर्याद्वशम्॥ 1009 ॥

दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालनाद्विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात्।
ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान्मैत्त्री चाप्रणयात्समृद्धिरनयात्त्यागात्प्रमादाद्धनम्॥ 1010 ॥
कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः।
कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान्॥ 1011 ॥
वैद्यं पानरतं नटं कुपठिनं स्वाध्यायहीनं द्विजं योधं कापुरुषं हयं गतरयं मूर्खं परिव्राजकम्।
राजानं च कुमन्त्रिभिः परिवृतं देशं च सोपद्रवं भार्यां यौवनगर्वितां पररतां मुञ्चन्ति ते पण्डिताः॥ 1012 ॥
वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसा निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः।
पुष्पं पर्युषितं त्यजन्ति मधुमा दग्धं वनान्तं मृगाः सर्वः कार्यवशाज्जनोऽभिरमते तत्कस्य को वल्लभः॥ 1013 ॥
सन्तश्चेदमृतेन किं यदि खलस्तत्कालकूटेन किं दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः।
किं कर्पूरशलाकया यदि दृशः पन्थानमेति प्रिया सम्सारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम्॥ 1014 ॥
लोभश्चेदगुणेन किं पिशुनता1 यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम्।
सौजन्यं यदि किं गुणैः स्वमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना॥ 1015 ॥

छेदश्चन्दनचूतचम्पकवने रक्षापि शाखोटके हिंसा हंसमयूरकोकिलकुले काकेषु नित्यादरः।
मातङ्गेन खरक्रयः समतुला कर्पूरकार्पासयोरेषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः॥ 1016 ॥
या राका शशिशोभना गतघना सा यामिनी यामिनी या सौन्दर्यगुणान्विता पतिरता सा कामिनी कामिनी।
या गोविन्दरसप्रमोदमधुरा सा माधुरी माधुरी या लोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी॥ 1017 ॥
किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः।
किं मित्त्रं सततोपकाररसिकं तत्त्वावबोधः सखे कः शत्रुर्वद खेददानकुशलो दुर्वासनासञ्चयः॥ 1018 ॥
क्षान्तिश्चेद्वचनेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम्।
किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्यानवद्या यदि व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम्॥ 1019 ॥
सूनुः सच्चरितं सती प्रियतमा स्वामी प्रसादोन्मुखः स्निग्धं मित्त्रमवञ्चकः परिजनो निःक्लेशलेशं मनः।
आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं तुष्टे विष्टपकष्टहारिणि हरौ सम्प्राप्यते देहिना॥ 1020 ॥
का श्लाघ्या गुणिनां क्षमा परिभवः को यः स्वकुल्यैः कृतः किं दुःखं परसम्श्रयो जगति कः श्लाघ्यो य आश्रीयते।
को मृत्युर्व्यसनं शुचं जहति के यैर्निर्जिताः शत्रवः कैर्विज्ञातमिदं विराटनगरे छन्नस्थितैः पाण्डवैः॥ 1021 ॥
स स्निग्धोऽकुशलान्निवारयति यस्तत्कर्म यन्निर्मलं सा स्त्री यानुविधायिनी स मतिमान्यः सद्भिरभ्यर्च्यते।
सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते तन्मिन्त्रं यदकृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः॥ 1022 ॥
प्रायेणात्र कुलान्वितं कुकुलजाः श्रीवल्लभं दुर्भगा दातारं कृपण ऋजूननृजवो वित्तान्वितं निर्धनाः।
वैरूप्योपहताश्च कान्तवपुषं धर्माश्रयं पापिनो नानाशास्त्रविचक्षणं च पुरुषं निन्दन्ति मूर्खा जनाः॥ 1023 ॥
पौलस्त्यः2 कथमन्यदारहरणे दोषं न विज्ञातवान् रामेणापि कथं न हेमहरिणस्यासम्भवो लक्षितः।
3अक्षैश्चापि युधिष्ठिरेण सहसा प्राप्तो ह्यनर्थः कथं प्रत्यासन्निविपत्तिमूढमनसां प्रायो मतिः श्रीयते॥ 1024 ॥

सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिनेर्मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम्।
छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलमज्ञानावृतचेतसामतिरुषां कोऽर्थस्तिरश्चां गुणैः॥ 1025 ॥
शक्तेनापि सता जनेन विदुषा कालान्तरप्रेक्षिणा वस्तव्यं खलु वज्रपातविषमे क्षुद्रेऽपि पापे जने।
दर्वीव्यग्रकरेण धूममलिनेनायासयुक्तेन किं भीमेनातिबलेन मत्स्यभवनेऽपूपा न सङ्घट्टिताः॥ 1026 ॥
सिद्धिं वाञ्छयता जनेन विदुषा तेजो निगृह्य स्वकं सत्त्वोत्साहवतापि दैवगतिषु स्थैर्यं प्रकार्यं क्रमात्।
देवेन्द्रद्रुहिणोपमैर्बहुगुणैरभ्यर्चितो भ्रातृभिः किं क्लिष्टः सुचिरं विराटभवने पूर्वं न धर्मात्मजः॥ 1027 ॥
रूपेणाप्रतिमेन यौवनगुणैः श्रेष्ठे कुले जन्मना गन्तव्यानि दिनानि दैववशतो भूयो धनं वाञ्छता।
सैरन्ध्रीति विगर्हिता युवतिभिः साक्षेपमाज्ञाभयाद्द्रौपद्या किल मत्स्यराजभवने घृष्टं न किं चन्दनम्॥ 1028 ॥
किं चित्रं यदि राजनीतिकुशलो राजा भवेद्धार्मिकः किं चित्रं यदि वेदशास्त्रनिपुणो विप्रो भवेत्पण्डितः।
तच्चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी तच्चित्रं यदि निर्धनोऽपि पुरुषः पापं न कुर्यात्क्वचित्॥ 1029 ॥
वासांसि व्रजचारिवारिजदृशां हृत्वा हठादुच्चकैर्यः प्राग्भूरुहमारुरोह स पुनर्वस्त्राणि विस्तारयन्।
व्रीडाभारमपाचकार सहसा पाञ्चालजायाः स्वयं को जानाति जनो जनार्दनमनोवृत्तिः कदा कीदृशी॥ 1030 ॥
अर्थी लाघवमुच्छ्रितो निपतनं कामातुरो 1लाञ्छनं निः2स्वो वञ्चनमु3न्मना विकलतां दोषाकुलः संशयम्।
लुब्धोऽकीर्ति4मसङ्गरः परिभवं दुष्टोऽन्यदोषे रतिं 5दुर्वागप्रियतां 6दुरोदरवशः प्राप्नोति कष्टं मुहुः॥ 1031 ॥

नीतिर्भूमिभुजां नतिर्गुणवतां 7ह्रीरङ्गनानां रतिर्दम्पत्योः शिशवो गृहस्य कविता बुद्धेः 8प्रसादो गिराम्।
लावण्यं वपुषः श्रुतं सुमनसः शान्तिर्द्विजस्य क्षमा शक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यं सतां मण्डनम्॥ 1032 ॥

कार्पण्येन यशः 9क्रुधा 10गुणचयो दम्भेन सत्यं क्षुधा मर्यादा व्यसनैर्धनं च विपदा स्थैर्यं प्रमादैर्द्विजः।
पैशुन्येन कुलं मदेन विनयो दुश्चेष्टया पौरुषं दारिद्र्येण जनादरो ममतया चात्मप्रकाशो हतः॥ 1033 ॥

तारुण्यं तरुणीजने विकचता पुष्पे विधौ चन्द्रिका कासारे कुमुदं वने पिचुवनं दानं द्विपेऽनर्गले।
आनृण्यं गृहिणां गृहस्य गृहिणी पित्रोः शुभा सन्ततिर्लावण्यं तनुते द्विजेऽतिपलिते विद्वच्चतुर्थाश्रमः॥ 1034 ॥
माधुर्यं प्रमदाजनेषु ललितं दाक्षिण्यमार्ये जने शौर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुषु ॥
मर्मज्ञेष्वनुवर्तनं बहुविधं मानं जने पण्डिते शाठ्यं पापिजने नरस्य कथिताः पर्यन्तमष्टौ गुणाः॥ 1035 ॥
इन्दुं निन्दति तस्करो गृहपतिं जारो सुशीलं खलः साध्वीमप्यसती कुलीनमकुलो जह्याज्जरन्तं युवा।
विद्यावन्तमनक्षरो धनपतिं नीचश्च रूपोज्ज्वलं वैरुप्येण हतः प्रबुद्धमबुधो कृष्टं निकृष्टो जनः॥ 1036 ॥
विद्वान्सं1सदि 2पाक्षिकः परवशो मानी दरिद्रो 3गृही द्रव्याढ्यः कृपणो यतिर्वसुमना वृद्धो विवाहोद्यतः।
राजा दुःसचिवप्रियः सुकुलजो मूर्खः पुमान्स्त्रीजितो वेदान्ती हतसत्क्रियः किमपरं 5हास्यास्पदं भूतले॥ 1037 ॥

का विद्या कवितां विनार्थिनि जने त्यागं विना श्रीश्च का को धर्मः कृपया विना क्षितिपतिः को नाम नीतिं विना।
कः सूनुर्विनयं विना कुलवधूः का स्वामिभक्तिं विना भोग्यं किं रमणीं विना क्षितितले किं जन्म कीर्तिं विना॥ 1038 ॥
6दाक्षिण्यं स्वजने दया परजने 7शाठ्यं सदा दुर्जने प्रातिः साधुजने 8नयो नृपजने विद्वज्जनेष्वार्जवम्।
शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः॥ 1039 ॥

स्वाधीना दयिता सुतावधि सुतोऽसौ षोडशाब्दावधि स्यात्कन्या करपीडनावधि सुतस्त्रीस्तद्वशत्वावधि।
जामाता बहुलार्पितावधि सखा साधुप्रलापावधि शिष्यो गुह्यनिरूपणावधि परे चैतेऽधनत्वावधि॥ 1040 ॥
स्त्रीणां यौवनमर्थिनामनुगमो राज्ञां प्रतापः सतां स्वास्थ्यं स्वल्पधनस्य संहतिरसद्वृत्तेश्च वाग्डम्बरः।
स्वाचारस्य सदर्चनं परिणतेर्विद्या कुलस्यैकता प्रज्ञाया धनमुन्नतेरतिनतिः शान्तेर्विवेको बलम्॥ 1041 ॥
नागो भाति मदेन कं9 जलरुहैः पूर्णेन्दुना शर्वरी शीलेन प्रमदा 10जवेन तुरगो नित्योत्सवैर्मन्दिरम्।
वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः सत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं विष्णुना॥ 1042 ॥

एहि स्वागतमाविशासनमिदं कस्माच्चिराद्दृश्यते का वार्ता 11परिदुर्बलोऽसि नितरां प्रीतोऽस्मि ते दर्शनात्।
इत्येवं समुपागतं द्विजवरं सम्भावयन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा गेहेषु गन्तुं सदा॥ 1043 ॥

स्यादत्यन्तनिरक्षरः क्षितपतिः श्रीकारमात्राश्रयान्मन्त्री तत्कथितार्थलेखनपरस्तत्सेवको जायते।
अध्येता तदगारमेव भजते विद्वांस्तु तं याचते यावान्यस्य गिरा समं परिचयस्तावान्विदूरे1 श्रियः॥ 1044 ॥

को लाभो गुणिसङ्गमः किमसुखं 2प्राज्ञेतरैः सङ्गतिः का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः।
कः शूरो विजितेन्द्रियः प्रियतमा कानुव्रता किं धनं विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम्॥ 1045 ॥

सस्यानि स्वयमत्ति चेद्वसुमती माता सुतं हन्ति चेद्वेलामम्बुनिधिर्विलङ्घयति चेद्भूमिं दहेत्पावकः।
आकाशं जनमस्तके पतति चेदन्नं विषं चेद्भवेदन्यायं कुरुते यदि क्षितिपतिः कस्तं निरोद्धुं क्षमः॥ 1046 ॥
वासः शुभ्रमृतुर्वसन्तसमयः पुष्पं शरन्मालती धानुष्कः कुसुमायुधः परिमलः कस्तूरिकास्त्रं धनुः।
वाणी तर्करसोज्ज्वला प्रियतमा श्यामा वयो नूतनं मार्गः शाम्भव एव पञ्चमलया गीतिः कविर्बिह्लणः॥ 1047 ॥
3रोलम्बैर्न विलम्बितं4 विघटितं धूमाकुलैः कोकिलैर्मा5यूरैश्चलितं पुरैव रभसात्की6रैरधीरैर्गतम्।
एकेनापि सुपल्लवेन तरुणा दावानलोपप्लवः सोढः कोन विपत्सु मुञ्चति जनो मूर्ध्नापि यो लालितः॥ 1048 ॥

7क्षोणीशाश्रयिणां परोपकरणाभावा8दवाप्तश्रियां कार्पण्यात्सुधियामनध्ययनतो यूनां प्रवासाश्रयात्।
ज्ञातॄणां जगदीशभक्तिविरहादायुर्वृथा गच्छतीत्येवं कांस्यसमुद्भवः प्रतिदिनं नादो वदत्युच्चकैः॥ 1049 ॥

मानुष्ये सति दुर्लभा पुरुषता पुंस्त्वे पुनर्विप्रता विप्रत्वे बहुविद्यतातिगुणता विद्यावतोऽर्थज्ञता।
अर्थज्ञस्य विचित्रवाक्यपटुता तत्रापि लोकज्ञता लोकज्ञस्य समस्तशास्त्रविदुषो धर्मे मतिर्दुर्लभा॥ 1050 ॥
आयाते च तिरोहितो यदि पुनर्दृष्टोऽन्यकार्ये रतो वाचि स्मेरमुखो विषण्णवदनः स्वक्लेशवादे मुहुः।
अन्तर्वेश्मनि वासमिच्छति भृशं व्याधीति यो भाषते भृत्यानामपराधकीर्तनपरस्तन्मन्दिरं न व्रजेत्॥ 1051 ॥
बन्दी विन्दति चेदमात्यपदवीं शिष्टैरलं भूरिभिः पुम्भिश्चेत्प्रतिपाद्यते रतिकला क्वैणीदृशामादरः।
विश्रान्ता यदि वैखरीषु कविता काव्येन भव्येन किं भूपाले यवने समस्तभुवने वैदग्ध्यमस्तं गतम्॥ 1052 ॥
आहूतेषु विहङ्गमेषु मशको नायान्पुरो वार्यते मध्येवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम्।
खद्योतोऽपि न कम्पते प्रविचलन्मध्येऽपि तेजस्विनां धिक्सामान्यमचेतसं प्रभुमिवानामृष्टतत्त्वान्तरम्॥ 1053 ॥
मूर्खोऽशान्तस्तपस्वी क्षितिपतिरलसो मत्सरी धर्मशीलो दुःस्थो मानी गृहस्थः प्रभुरतिकृपणः शास्त्रभृद्धर्महीनः।
आज्ञाहीनो नरेन्द्रः शुचिरपि सततं यः परान्नोपभोजी वृद्धो रोगी दरिद्रः स च युवतिपतिर्धिग्विडम्बप्रकारान्॥ 1054 ॥
ख्यातः शक्रो भगाङ्को विधुरपि मलिनो माधवो गोपजातो वेश्यापुत्रो वसिष्ठो रतिपतिरतनुः सर्वभक्षी हुताशः।
व्यासो मत्स्योदरीयो लवणजलनिधिः पाण्डवा जारजाता रुद्रः प्रेतास्थिधारी त्रिभुवनविषये कस्य दोषो न चास्ति॥ 1055 ॥
प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम्।
तृष्णास्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः॥ 1056 ॥
आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः पत्त्रच्छायैः पुरस्तादुपवनतरवो दूरमाश्वेव गत्वा।
एते तस्मिन्निवृत्ताः पुनरितरककुप्प्रान्तपर्यस्तबिम्बे प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः॥ 1057 ॥
मणिना वलयं वलयेन मणिर्मणिना वलयेन विभाति करः कविना च विभुर्विभुना च कविः कविना विभुना च विभाति सभा।
शशिना च निशा निशया च शशी शशिना निशया च विभाति नभः पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः॥ 1058 ॥

इति श्रीसुभाषितरत्नभाण्डागारे तृतीयं प्रकरणं समाप्तम्।
— ** —


  1. वृद्धत्वेऽपि. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. तिर्यग्जातीयाः. पशव इत्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. क्रोष्टरि. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. स्त्री. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. अश्वः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. सगर्वं न भवति. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. कुलस्त्रियः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. श्वानः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  9. प्रकाशकः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  10. स्ववाणीभिः; [पक्षे] स्वकिरणैः. ↩︎ ↩︎ ↩︎ ↩︎

  11. चतुरा. ↩︎ ↩︎ ↩︎

  12. अविश्वस्तम्. ↩︎ ↩︎

  13. जीवने. ↩︎ ↩︎

  14. भयम्. ↩︎

  15. वाग्मी. ↩︎