सुलभाः पुरुषा राजन्सततं प्रियवादिनः।
अप्रियस्य च 1पथ्यस्य वक्ता श्रोता च दुर्लभः॥ 115 ॥
यः कुलाभिजनाचारैरतिशुद्धः प्रतापवान्।
धार्मिको नीतिकुशलः स स्वामी युज्यते भुवि॥ 116 ॥
प्रजां सम्रक्षति नृपः सा वर्धयति पार्थिवम्।
वर्धनाद्रक्षणं श्रेयस्तन्नाशेऽन्यत्सदप्यसत्॥ 117 ॥
आत्मानं प्रथमं राजा विनयेनोपपादयेत्।
ततोऽमात्यांस्ततो भृत्यांस्ततः पुत्रांस्ततः प्रजाः॥ 118 ॥
राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः।
लोकास्तमनुवर्तन्ते यथा राजा तथा प्रजाः॥ 119 ॥
नृपाणां च नराणां च केवलं तुल्यमूर्तिता।
आधिक्यं तु क्षमा धैर्यमाज्ञा दानं पराक्रमः॥ 120 ॥
प्रजां न रञ्जयेद्यस्तु राजा रक्षादिभिर्गुणैः।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्॥ 121 ॥
अजामिव प्रजां हन्याद्यो मोहात्पृथिवीपतिः।
तस्यैका जायते तृप्तिर्द्वितीया न कथञ्चन॥ 122 ॥
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः।
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते॥ 123 ॥
यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिवर्धितः।
फलप्रदो भवेत्काले तद्वल्लोकाः सुरक्षिताः॥ 124 ॥
निजवर्षाहितस्नेहा बहुभक्तजनान्विताः।
सुकाला इव जायन्ते प्रजापुण्येन भूभृतः॥ 125 ॥
यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥ 126 ॥
प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति।
अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि॥ 127 ॥
नरेशे जीवलोकोऽयं 1निमीलति निमीलति।
उदेत्युदीयमाने च रवाविव सरोरुहम्॥ 128 ॥
हिरण्यधान्यरत्नानि गजेन्द्राश्चापि वाजिनः।
तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्यान्महीपतेः॥ 129 ॥
मा तात साहसं कार्षीर्विभवैर्गर्वमागतः।
स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये॥ 130 ॥
मा त्वं तात बले स्थित्वा बाधिष्ठा दुर्बलं जनम्।
नहि दुर्बलदग्धानां काले किञ्चित्प्ररोहति॥ 131 ॥
यानि मिथ्याभिभूतानां पतन्त्यश्रूणि रोदताम्।
तानि सन्तापकान्घ्नन्ति सपुत्रपशुबान्धवान्॥ 132 ॥
मा तात सम्पदामग्रमारूढोऽस्मीति विश्वसीः।
दूरारोहपरिभ्रम्शविनिपातो हि दारुणः॥ 133 ॥
कितवा यं प्रशंसन्ति यं प्रशंसन्ति चारणाः।
यं प्रशंसन्ति बन्धक्यः स पार्थ पुरुषाधमः॥ 134 ॥
राजानो यं प्रशंसन्ति यं प्रशंसन्ति वै द्विजाः।
साधवो यं प्रशंसन्ति स पार्थ पुरुषोत्तमः॥ 135 ॥
प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः।
गृहीतहस्तच्छत्त्रस्य वारिधारा इवारयः॥ 136 ॥
कोऽत्रेत्यहमिति ब्रूयात्सम्यगादेशयेति च।
आज्ञामवितथां कुर्याद्यथाशक्ति महीपतेः॥ 137 ॥
अल्पेच्छुर्धृतिमान्प्राज्ञश्छायेवानुगतः सदा।
आदिष्टो न विकल्पेत स राजवसतिं वसेत्॥ 138 ॥
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्।
प्राप्नुयाद्बुद्ध्यवज्ञानमपमानं च शाश्वतम्॥ 139 ॥
किं भक्तेनासमर्थेन किं शक्तेनापकारिणा।
भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि॥ 140 ॥
जनं जनपदा नित्यमर्चयन्ति नृपार्चितम्।
नृपेणावमतो यस्तु स सर्वैरवमन्यते॥ 141 ॥
नानिवेद्य प्रकुर्वीत भर्तुः किञ्चिदपि स्वयम्।
कार्यमापत्प्रतीकारादन्यत्र जगतीपतेः॥ 142 ॥
अतिव्ययोऽनवेक्षा च तथार्जनमधर्मतः।
मोक्षणं दूरसंस्थानं कोषव्यसनमुच्यते॥ 143 ॥
क्षिप्रमायमनालोच्य व्ययानश्च स्ववाञ्छया।
परिक्षीयत एवासौ धनी वैश्रवणोपमः॥ 144 ॥
यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत्।
कर्मस्वदृष्टकर्मा यः शास्त्रज्ञोऽपि विमुह्यति॥ 145 ॥
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता।
बुद्धिर्बुद्धिमता युक्ता हन्ति राष्ट्रं सनायकम्॥ 146 ॥
न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न च पत्तिभिः।
कार्यं सम्सिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम्॥ 147 ॥
दुर्योधनः समर्थोऽपि दुर्मन्त्री प्रलयं गतः।
राज्यमेकश्चकारोच्चैः सुमन्त्री चन्द्रगुप्तकः॥ 148 ॥
अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः।
यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः॥ 149 ॥
सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम्।
अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी॥ 150 ॥
तस्मात्सभ्यः सभां गत्वा रागद्वेषविवर्जितः।
वचस्तथाविधं ब्रूयाद्यथा न नरकं व्रजेत्॥ 151 ॥
माता पिता गुरुर्भ्राता भार्या पुत्रः पुरोहितः।
नादण्ड्यो नाम राज्ञोऽस्ति स्वधर्मे यो न तिष्ठति॥ 152 ॥
विशोधयेन्महीपालो मन्त्रिशालामशेषतः।
अयुक्तो नार्हति स्थातुमस्यां मन्त्ररहस्यवित्॥ 153 ॥
षट्कर्णो 1भिद्यते 2मन्त्रश्चतुःकर्मः स्थिरो भवेत्।
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्यन्तं3 न गच्छति॥ 154 ॥
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः।
नियोजयेत्तथैवैतांस्त्रिविधेष्वपि कर्मसु॥ 155 ॥
तुल्यार्थं तुल्यसामर्थ्यं सर्वज्ञं व्यवसायिनम्।
अर्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते॥ 156 ॥
निर्विशेषो यदा राजा समं भृत्येषु तिष्ठति।
तत्रोद्यमसमर्थानामुत्साहः परिहीयते॥ 157 ॥
प्रसादो निष्फलो यस्य यस्य क्रोधो निरर्थकः।
न तं राजानमिच्छन्ति षण्ढं पतिमिवाङ्गनाः॥ 158 ॥
अविवेकिनि भूपाले नश्यन्ति गुणिनां गुणाः।
प्रवासरसिके कान्ते यथा साध्व्याः स्तनोन्नतिः॥ 159 ॥
न कश्चिच्चण्डकोपानामात्मीयो नाम भूभृताम्।
होतारमपि 4जुह्वन्तं दहत्येव हुताशनः॥ 160 ॥
चक्रं सेव्यं नृपः सेव्यो न सेव्यः केवलो नृपः।
पश्य चक्रस्य माहात्म्यं मृत्पिण्डः पात्रतां गतः॥ 161 ॥
यस्मिन्नेवाधिकं चक्षुरारोपयति पार्थिवः।
कुलीनो वाकुलीनो वा स श्रियो भाजनं भवेत्॥ 162 ॥
राज्ञि मातरि देव्यां च कुमारे मुख्यमन्त्रिणि।
पुरोहिते प्रतीहारे समं वर्तेत राजवत्॥ 163 ॥
पानमक्षास्तथा नार्यो मृगया गीतवादिते।
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान्॥ 164 ॥
आयाच्चतुर्थभागेन व्ययकर्म प्रवर्तयेत्।
प्रभूततैलदीपो हि चिरं भद्राणि पश्यति॥ 165 ॥
कर्मणा मनसा वाचा चक्षुषापि चतुर्विधम्।
प्रसाधयति लोकं यस्तं लोको नु प्रसीदति॥ 166 ॥
सम्भोजनं सङ्कथनं सम्प्रश्नोऽथ समागमः।
ज्ञातिभिः सह कार्याणि न विरोधः कदाचन॥ 167 ॥
मृदोः परिभवो नित्यं वैरं तीक्ष्णस्य नित्यशः।
उत्सृज्य तद्द्वयं तस्मान्मध्यां वृत्तिं समाश्रयेत्॥ 168 ॥
अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम्।
नहि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित्॥ 169 ॥
किमप्यसाध्यं महतां सिद्धिमेति लघीयसाम्।
प्रदीपो भूमिगेहान्तर्ध्वान्तं हन्ति न भानुमान्॥ 170 ॥
अरावप्युचितं कार्यमातिथ्यं गृहमागते।
छेत्तुमप्यागते च्छायां नोपसंहरते द्रुमः॥ 171 ॥
अगाधहृदया भूपाः कूपा इव दुरासदाः।
1घटका 2गुणिनो नो चेत्कथं लभ्येत 3जीवनम्॥ 172 ॥
कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः।
अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान्॥ 173 ॥
भोगिनः4 5कञ्चुकासक्ताः क्रूराः कुटिलगामिनः।
सुदुष्टा 6मन्त्रसाध्याश्च राजानः 7पन्नगा इव॥ 174 ॥
अकस्माद्द्वेष्टि यो 8भक्तमाजन्मपरिसेवितम्।
9नव्यञ्जने रुचिर्यस्य त्याज्यो नृप इवातुरः10॥ 175 ॥
सुगन्धं केतकीपुष्पं कण्टकैः परिवेष्टितम्।
यथा पुष्पं तथा राजा दुर्जनैः परिवेष्टितः॥ 176 ॥
असत्प्रलापः पारुष्यं पैशुन्यमनृतं तथा।
चत्वारि वाचा राजेन्द्र न जल्पेन्नैव चिन्तयेत्॥ 177 ॥
प्राज्ञे नियोज्यमाने तु सन्ति राज्ञस्त्रयो गुणाः।
यशः स्वर्गनिवासश्च विपुलश्च धनागमः॥ 178 ॥
मूर्खे नियोज्यमाने तु त्रयो दोषा महीपतेः।
अयशश्चार्थनाशश्च नरके गमनं तथा॥ 179 ॥
इदमेव नरेन्द्राणां स्वर्गद्वारमनर्गलम्।
यदात्मनः प्रतिज्ञा च प्रजा च परिपाल्यते॥ 180 ॥
मन्त्रो योध इवाधीरः सर्वाङ्गैः सम्वृतैरपि।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया॥ 181 ॥
आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते॥ 182 ॥
तृप्तियोगः परेणापि महिम्ना न महात्मनाम्।
पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः॥ 183 ॥
बुद्धिशस्त्रः प्रकृत्यङ्गो धनसंवृतिकञ्चुकः।
चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः॥ 184 ॥
तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः।
नैकमोजः प्रसादो वा रसभावविदः कवेः॥ 185 ॥
कृतापचारोऽपि परैरनाविष्कृतविक्रियः।
असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा॥ 186 ॥
मृदुव्यवहितं तेजो भोक्तुमर्थान्प्रकल्पते।
प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया॥ 187 ॥
नालम्बते दैष्टिकतां न निषीदति पौरुषे।
शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते॥ 188 ॥
स्थायिनोऽर्थे प्रवर्तन्ते भावाः सञ्चारिणो यथा।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः॥ 189 ॥
तन्त्रावापविदा योगैर्मण्डलान्यधितिष्ठता।
सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः॥ 190 ॥
करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रथीयसीम्।
प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः॥ 191 ॥
स दोषः सचिवस्यैव यदसत्कुरुते नृपः।
याति यन्तुः प्रमादेन गजो व्यालत्ववाच्यताम्॥ 192 ॥
न सर्पस्य मुखे रक्तं न दष्टस्य कलेवरे।
न प्रजासु न भूपाले धनं दुरधिकारिणि॥ 193 ॥
यद्यपि क्षितिपालानामाज्ञा सर्वत्रगा स्वयम्।
तथापि शास्त्रदीपेन चरत्येव मतिः सताम्॥ 194 ॥
असाध्यमन्यथा दोषं परिच्छिद्य शरीरिणाम्।
यथा वैद्यस्तथा राजा शस्त्रपाणिर्विषह्यति॥ 195 ॥
जातमात्रं न यः शत्रुं व्याधिं वा प्रशमं नयेत्।
अतिपुष्टाङ्गयुक्तोऽपि स पश्चात्तेन हन्यते॥ 196 ॥
पातकानां समस्तानां द्वे परे तात पातके।
एकं दुःसचिवो राजा द्वितीयं च तदाश्रयः॥ 197 ॥
राजा सम्पत्तिहीनोऽपि सेव्यः सेव्यगुणाश्रयः।
भवत्याजीवनं तस्मात्फलं कालान्तरादपि॥ 198 ॥
स जयी वरमातङ्गा यस्य तस्यास्ति मेदिनी।
कोशो यस्य सुदुर्धर्षो दुर्गस्तस्य सुदुर्जयः॥ 199 ॥
सुवर्णैः पट्टचेलैश्च शोभा स्याद्वारयोषिताम्।
पराक्रमेण दानेन राजन्ते राजनन्दनाः॥ 200 ॥
यं यं नृपोऽनुरागेण सम्मानयति संसदि।
तस्य तस्योत्सारणाय यतन्ते राजवल्लभाः॥ 201 ॥
ब्राह्मणः क्षत्रियो बन्धुर्नाधिकारे प्रशस्यते।
ब्राह्मणः सिद्धमप्यर्थं कृच्छ्रेणापि न यच्छति॥ 202 ॥
नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम्।
सर्वस्वं ग्रसते बन्धुराक्रम्य ज्ञातिभावतः॥ 203 ॥
अपराधेऽपि निःशङ्को नियोगी चिरसेवकः।
स स्वामिनमवज्ञाय चरेच्च निरवग्रहः॥ 204 ॥
उपकर्ताधिकारस्थः स्वापराधं न मन्यते।
उपकारं ध्वजीकृत्य सर्वमेवावलुम्पति॥ 205 ॥
आज्ञाभङ्गकरान्राजा न क्षाम्येत्स्वसुतानपि।
विशेषः कोऽनुरागस्य राजचित्तगतस्य च॥ 206 ॥
तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृपवल्लभात्।
नृपतिर्निजलोभाच्च प्रजा रक्षेत्पितेव हि॥ 207 ॥
भोगस्य भाजनं राजा न राजा कार्यभाजनम्।
राजकार्यपरिध्वंसान्मन्त्री दोषेण लिप्यते॥ 208 ॥
वरं प्राणपरित्यागः शिरसो वापि कर्तनम्।
न तु स्वामिपदावाप्तिपातकेच्छोरुपेक्षणम्॥ 209 ॥
विषदिग्धस्य भक्तस्य दन्तस्य चलितस्य च।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम्॥ 210 ॥
यः कुर्यात्सचिवायत्तां श्रियं तद्व्यसने सति।
सोऽन्धवज्जगतीपालः सीदेत्सञ्चारकैर्विना॥ 211 ॥
सदामात्यो न सिद्धः स्यात्समृद्धः सर्व एव हि।
सिद्धानामयमादेशः ऋद्धिश्चित्तविकारिणी॥ 212 ॥
मूलभृत्यान्परित्यज्य नागन्तून्प्रतिमानयेत्।
नातः परतरो दोषो राज्यभेदकरो यतः॥ 213 ॥
मन्त्रबीजमिदं गुप्तं रक्षणीयं यथा तथा।
मनागपि न भिद्येत तद्भिन्नं न प्ररोहति॥ 214 ॥
मन्त्रिणा पृथिवीपालचित्तं विघटितं क्वचित्।
वलयं स्फटिकस्येव को हि सन्धातुमीश्वरः॥ 215 ॥
वज्रं च राजतेजश्च द्वयमेवातिभीषणम्।
एकमेकत्र पतति पतत्यन्यत्समन्ततः॥ 216 ॥
मृतः प्राप्नोति वा स्वर्गं शत्रुं हत्वा सुखानि वा।
उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ॥ 217 ॥
यत्रायुद्धे ध्रुवं मृत्युर्युद्धे जीवितसंशयः।
तमेव कालं युद्धस्य प्रवदन्ति मनीषिणः॥ 218 ॥
अयुद्धे हि यदा पश्यन्न किञ्चिद्धितमात्मनः।
युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह॥ 219 ॥
जये च लभते लक्ष्मीं मृते चापि सुराङ्गनाम्।
क्षणविध्वंसिनः कायाः का चिन्ता मरणे रणे॥ 220 ॥
पिता वा यदि वा भ्राता पुत्रो वा यदि वा सुहृत्।
प्राणच्छेदकरा राज्ञा हन्तव्या भूतिमिच्छता॥ 221 ॥
राज्यलोभादहङ्कारादिच्छतः स्वामिनः पदम्।
प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम्॥ 222 ॥
आत्मनश्च परेषां च यः समीक्ष्य बलाबलम्।
अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः॥ 223 ॥
राजा मत्तः शिशुश्चैव प्रमादी धनगर्वितः।
अप्राप्यमपि वाञ्छन्ति किं पुनर्लभ्यतेऽपि यत्॥ 224 ॥
वर्णाकारप्रतिध्वानैर्नेत्रवक्त्रविकारतः।
अप्यहन्ति मनो धीरास्तस्माद्रहसि मन्त्रयेत्॥ 225 ॥
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च।
नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्गतं मनः॥ 226 ॥
षट्कर्णो भिद्यते मन्त्रस्तथा प्राप्तश्च वार्तया।
इत्यात्मना द्वितीयेन मन्त्रः कार्यो महीभृता॥ 227 ॥
मन्त्रभेदेऽपि ये दोषा भवन्ति पृथिवीपतेः।
न शक्यास्ते समाधात्तुमिति नीतिविदां मतम्॥ 228 ॥
न तथोत्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा।
अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत्॥ 229 ॥
विजेतुं प्रयतेतारीन्न युद्धेन कदाचन।
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः॥ 230 ॥
साम्ना दानेन भेदेन समस्तैरथवा पृथक्।
साधितुं प्रयतेतारीन्न युद्धेन कदाचन॥ 231 ॥
बलिना सह योद्धव्यमिति नास्ति निदर्शनम्।
यद्युद्धं हस्तिना सार्धं नराणां मृत्युमावहेत्॥ 232 ॥
स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते।
कलिर्बलवता सार्धं कीटपक्षोद्गमो यथा॥ 233 ॥
महत्यल्पेऽप्युपायज्ञः सममेव भवेत्क्षमः।
समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः॥ 234 ॥
धान्यानां सङ्ग्रहो राजन्नुत्तमः सर्वसङ्ग्रहात्।
निक्षिप्तं हि मुखे रत्नं न कुर्यात्प्राणधारणम्॥ 235 ॥
यथा प्रभुकृतान्मानाद्युध्यन्ते भुवि मानवाः।
न तथा बहुभिर्दत्तैर्द्रविणैरपि भूपते॥ 236 ॥
अविद्वानपि भूपालो विद्यावृद्धोपसेवया।
परां श्रियमवाप्नोति जलासन्नतरुर्यथा॥ 237 ॥
पानं स्त्री मृगया द्यूतमर्थदूषणमेव च।
वाग्दण्डयोश्च पारुष्यं व्यसनानि महीभुजाम्॥ 238 ॥
शिष्टैरप्यविशेषज्ञ उग्रश्च कृतनायकः।
त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मम्भरिर्नरः॥ 239 ॥
सत्यं शौर्यं दया त्यागो नृपस्यैव महागुणाः।
एभिर्मुक्तो महीपालः प्राप्नोति खलु वाच्यताम्॥ 240 ॥
यो येन प्रतिबद्धः स्यात्सह तेनोदयी व्ययी।
स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च॥ 241 ॥
धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः।
अनीतिपवनक्षिप्तः कार्याब्दौ स निमज्जति॥ 242 ॥
हर्षक्रोधौ समौ यस्य शास्त्रार्थे प्रत्ययः सदा।
नित्यं भृत्यानपेक्षा च तस्य स्याद्धनदा धरा॥ 243 ॥
दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते।
शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः॥ 244 ॥
आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः।
भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः॥ 245 ॥
कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत्।
फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत्॥ 246 ॥
कोपप्रसादवस्तूनि ये विचिन्वन्ति सेवकाः।
आरोहन्ति शनैः पश्चाद्धुन्वन्तमपि पार्थिवम्॥ 247 ॥
विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम्।
सेवावृत्तिविदां चैव नाश्रयः पार्थिवं विना॥ 248 ॥
ये जात्यादिमहागर्वान्नरेन्द्रान्नोपयान्ति च।
तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम्॥ 249 ॥
ये च प्राहुर्दुरात्मानो दुराराध्या महीभुजः।
प्रमादालस्य जाड्यानि ख्यापितानि निजानि तैः॥ 250 ॥
सर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर्वशीकृतान्।
राजेति कियती मात्रा धीमतामप्रमादिनाम्॥ 251 ॥
राजानमेव संश्रित्य विद्वान् याति परां गतिम्।
विना मलयमन्यत्र चन्दनो न प्ररोहति॥ 252 ॥
धवलान् यातपत्राणि वाजिनश्च मनोरमाः।
सदा मत्ताश्च नागेन्द्राः प्रसङ्गे सति भूपतौ॥ 253 ॥
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्॥ 254 ॥
सा सेवा या प्रभुहिता ग्राह्या वाक्यविशेषतः।
आश्रयेत्पार्थिवं विद्वांस्तद्द्वारेणैव नान्यथा॥ 255 ॥
यो न वेत्ति गुणान्यस्य न तं सेवेत पण्डितः।
नहि तस्मात्फलं तस्य सुकृष्टादूषरादिव॥ 256 ॥
द्रव्यप्रकृतिहीनोऽपि सेव्यः सेव्यगुणान्वितः।
भवत्याजीवनं तस्मात्फलं कालान्तरादपि॥ 257 ॥
अपि स्थाणुवदासीनः शुष्यन्परिगतः क्षुधा।
न त्वेवानात्मसम्पन्नाद्वृत्तिमीहेत पण्डितः॥ 258 ॥
सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम्।
आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः॥ 259 ॥
यमाश्रित्य न विश्रामं क्षुधार्ता यान्ति सेवकाः।
सोऽर्कवन्नृपतिस्त्याज्यः सदा पुष्पफलोऽपि सन्॥ 260 ॥
जीवेति प्रबुवन्प्रोक्तः कृत्यं कृत्यविचक्षणः।
करोति निर्विकल्पं यः स भवेद्राजवल्लभः॥ 261 ॥
प्रभुप्रसादजं वित्तं सुपात्रे यो नियोजयेत्।
वस्त्राद्यं विदधात्यङ्गे स भवेद्राजवल्लभः॥ 262 ॥
अन्तःपुरचरैः सार्धं यो मन्त्रं न समाचरेत्।
न कलत्रैर्नरेन्द्रस्य स भवेद्राजवल्लभः॥ 263 ॥
सम्मतोऽहं प्रभोर्नित्यमिति मत्वा व्यतिक्रमेत्।
कृच्छ्रेष्वपि न मर्यादां स भवेद्राजवल्लभः॥ 264 ॥
द्वेषिद्वेषपरो नित्यमिष्टानामिष्टकर्मकृत्।
यो नरो नरनाथस्य स भवेद्राजवल्लभः॥ 265 ॥
द्यूतं यो यमदूताभं हालां हालाहलोपमाम्।
पश्येद्दारान्वृथाकारान्स भवेद्राजवल्लभः॥ 266 ॥
युद्धकालेऽग्रगो यः स्यात्सदा पृष्ठानुगः पुरे।
प्रभोर्द्वाराश्रितो हर्म्ये स भवेद्राजवल्लभः॥ 267 ॥
दुराराध्या हि राजानः पर्वता इव सर्वदा।
व्यालाकीर्णाः सुविषमाः कठिना दुःखसेविताः॥ 268 ॥
दुरारोहं पदं राज्ञां सर्वलोकनमस्कृतम्।
स्वल्पेनाप्यपचारेण ब्राह्मण्यमिव दुष्यति॥ 269 ॥
दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः।
तिष्ठन्त्याप इवाधारे चिरमात्मनि संस्थिताः॥ 270 ॥
अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते।
धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः॥ 271 ॥
सव्यदक्षिणयोर्यत्र विशेषो नोपलभ्यते।
कस्तत्र क्षणमप्यार्यो विद्यमानगतिर्वसेत्॥ 272 ॥
काचे मणिर्मणौ काचो येषां बुद्धिः प्रवर्तते।
न तेषां सन्निधौ भृत्यो नाममात्रोऽपि तिष्ठति॥ 273 ॥
यस्मिन्कृत्यं समावेश्य निर्विशङ्केन चेतसा।
आस्यते सेवकः स स्यात्कलत्रमिव चापरम्॥ 274 ॥
यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम्।
लज्जया वक्ति नो किञ्चित्तेन राजा सहायवान्॥ 275 ॥
कुतः सेवाविहीनानां चामरोद्भूतसम्पदः।
उद्दण्डधवलच्छत्त्रवाजिवारणवाहिनी॥ 276 ॥
अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम्।
देवानां च विनश्येत स द्रुतं सुमहानपि॥ 277 ॥
अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते।
अपि सम्मानहीनोऽपि स सर्वत्रापि पूज्यते॥ 278 ॥
अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः।
यदाप्नोति फलं लोकात्तस्यांशमपि नो गुणी॥ 279 ॥
यत्सकाशान्न लाभः स्यात्केवलाः स्युर्विपत्तयः।
स स्वामी दूरतस्त्याज्यो विशेषादनुजीविभिः॥ 280 ॥
फलहीनं नृपं भृत्याः कुलीनमपि चोन्नतम्।
सन्त्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः॥ 281 ॥
भूपः कूप इवाभाति 1नमज्जनसुखावहः।
ददाति 2गुणसम्बन्धाद्यथापात्रानुरूपतः॥ 282 ॥
अपि सम्मानसंयुक्ताः कुलीना भक्तितत्पराः।
वृत्तिभङ्गान्महीपालं त्यक्त्वा यान्ति सुसेवकाः॥ 283 ॥
कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः।
कदाचित्तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः॥ 284 ॥
देशानामुपरि क्ष्मापा आतुराणां चिकित्सकाः।
वणिजो ग्राहकाणां च मूर्खाणामपि पण्डिताः॥ 285 ॥
प्रमादिनां तथा चौरा भिक्षुका गृहमेधिनाम्।
गणिकाः कामुकानां च सर्वलोकस्य शिल्पिनः॥ 286 ॥
सामादिसज्जितैः पाशैः प्रतीक्षन्ते दिवानिशम्।
भुञ्जते च यथाशक्ति जलजाञ्जलजा यथा॥ 287 ॥
शनैः शनैश्च यो राज्यमुपभुङ्क्ते यथाबलम्।
रसायनमिव प्राज्ञः स पुष्टिं परमां व्रजेत्॥ 288 ॥
विधिना मन्त्रयुक्तेन रूक्षापि मथितापि च।
प्रयच्छति फलं भूमिररणीव हुताशनम्॥ 289 ॥
प्रजानां पालनं शस्यं स्वर्गकोशस्य वर्धनम्।
पीडनं धर्मनाशाय पापायायशसे स्थितम्॥ 290 ॥
गोपालेन प्रजाधेनोर्वित्तदुग्धं शनैः शनैः।
पालनात्पोषणाद्ग्राह्यं न्याय्यां वृत्तिं समाचरेत्॥ 291 ॥
फलार्थी नृपतिर्लोकान्पालयेद्यत्नामास्थितः।
दानमानादितोयेन मालाकारोऽङ्कुरानिव॥ 292 ॥
नृपदीपौ धनस्नेहं प्रजाभ्यः संहरन्नपि।
अन्तरस्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित्॥ 293 ॥
यथा गौर्दुह्यते काले पाल्यते च तथा प्रजा।
सिच्यते चीयते चैव लता पुष्पफलप्रदा॥ 294 ॥
लोकानुग्रहकर्तारः प्रवर्धन्ते नरेश्वराः।
लोकानां सङ्क्षयाच्चैव क्षयं यान्ति न संशयः॥ 295 ॥
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च॥ 296 ॥
मृतानां स्वामिनः कार्ये भृत्यानामनुवर्तिनाम्।
भवेत्स्वर्गेऽक्षयो वासः कीर्तिश्च धरणीतले॥ 297 ॥
न यज्वानोऽपि गच्छन्ति तां गतिं नैव योगिनः।
यां यान्ति प्रोज्झितप्राणाः स्वाम्यर्थे सेवकोत्तमाः॥ 298 ॥
चाटतस्करदुर्वृत्तैस्तथा साहसिकादिभिः।
पीड्यमानाः प्रजा रक्ष्याः कूटच्छद्मादिभिस्तथा॥ 299 ॥
प्रजानां धर्मषड्भागो राज्ञो भवति रक्षितुः।
अधर्मादपि षड्भागो जायते यो न रक्षति॥ 300 ॥
राजा बन्धुरबन्धूनां राजा चक्षुरचक्षुषाम्।
राजा पिता च माता च सर्वेषां न्यायवर्तिनाम्॥ 301 ॥
गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते।
प्रसन्नस्वादुसलिलो दुष्टग्राहो यथा ह्रदः॥ 302 ॥
चित्रास्वादकथैर्भृत्यैरनायासितकार्मुकैः।
ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया॥ 303 ॥
यः सम्मानं समाधत्ते भृत्यानां क्षितिपोऽधिकम्।
वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित्॥ 304 ॥
विश्वासः सम्पदां मूलं तेन यूथपतिर्गजः।
सिंहो मृगाधिपत्येऽपि न मृगैरुपयुज्यते॥ 305 ॥
कारुण्यं सम्विभागश्च यस्य भृत्येषु सर्वदा।
सम्भवेत्समहीपालस्त्रैलोक्यस्यापि रक्षणे॥ 306 ॥
अपृष्टस्तु नरः किञ्चिद्यो ब्रूते राजसंसदि।
न केवलमसम्मानं लभते च विडम्बनम्॥ 307 ॥
अजन्मा पुरुषस्तावद्गतासुस्तृणमेव वा।
यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः॥ 308 ॥
विपाकदारुणो राज्ञां रिपुरल्पोऽप्यरुन्तुदः।
उद्वेजयति सूक्ष्मोऽपि चरणं कण्टकाङ्कुरः॥ 309 ॥
निर्विषोऽपि यथा सर्पः फटाटोपैर्भयङ्करः।
तथाडम्बरवान्राजा न परैः परिभूयते॥ 310 ॥
भूमिर्मित्त्रं हिरण्यं वा विग्रहस्य फलत्रयम्।
नास्त्येकमपि यद्येषां न तत्कुर्यात्कथञ्चन॥ 311 ॥
सामैव हि प्रयोक्तव्यमादौ कार्यं विजानता।
सामसिद्धानि कार्याणि विक्रियां यान्ति न क्वचित्॥ 312 ॥
शपथैः सन्धितस्यापि न विश्वासं व्रजेद्रिपोः।
राज्यलोभाद्यतो विप्रः शक्रेण शपथैर्हतः॥ 313 ॥
उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत्।
पादलग्नं करस्थेन कण्टकेनेव कण्टकम्॥ 314 ॥
नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पोऽप्यवज्ञया।
वह्निरल्पोऽपि सम्वृद्धः कुरुते भस्मसाद्वनम्॥ 315 ॥
कौर्मं सङ्कोचमास्थाय प्रहारानपि मर्षयेत्।
प्राप्ते काले च मतिमानुत्तिष्ठेत्कृष्णसर्पवत्॥ 316 ॥
स्वाम्यमात्यश्च राज्यं च कोषो दुर्गं बलं सुहृत्।
एतावदुच्यते राज्यं सत्त्वबुद्धिव्यपाश्रयम्॥ 317 ॥
सन्धिविग्रहयानानि संस्थितिः संश्रयस्तथा।
द्वैधीभावश्च भूपानां षड्गुणाः परिकीर्तिताः॥ 318 ॥
उत्साहस्य प्रभोर्मन्त्रस्यैवं शक्तित्रयं मतम्।
आत्मनः सुहृदश्चैव तन्मित्रस्योदयास्त्रयः॥ 319 ॥
सामदाने भेददण्डावित्युपायचतुष्टयम्।
हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्॥ 320 ॥
क्षत्रियस्योरसि क्षत्त्रं पृष्ठे ब्रह्म व्यवस्थितम्।
तेन पृष्ठं न दातव्यं पृष्ठदो ब्रह्महा भवेत्॥ 321 ॥
रक्षाधिकारादीशत्वाद्दूतानुग्रहकारणात्।
यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः॥ 322 ॥
राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक्।
न तस्याज्ञामतिक्रम्य सन्तिष्ठेरन्निमाः प्रजाः॥ 323 ॥
राज्ञामाज्ञाभयाद्यस्मान्न च्यवन्ते पथः प्रजाः।
व्यवहारस्ततो ज्ञेयः शान्तितो राजशासनम्॥ 324 ॥
नित्यार्यपृथिवीपालैश्चारित्रविधयः कृताः।
चारित्रेभ्यस्ततः प्राहुर्गरीयो राजशासनम्॥ 325 ॥
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः।
जये भवति सन्देहः प्रधानपुरुषक्षयः॥ 326 ॥
अभिभूतोऽप्यवज्ञातो यो राज्ञां द्वारि तिष्ठति।
स तु राज्ञां श्रियं भुङ्क्ते नाभिमानी कदाचन॥ 327 ॥
अन्तःपुरधनाध्यक्षैर्वैरिभूते निराकृते।
संसर्गं न व्रजेल्लोके विना पार्थिवशासनात्॥ 328 ॥
जृम्भां निष्ठीवनं क्रौर्यं कोपं पर्यङ्किकां श्रमम्।
भ्रुकुटिं वातमुद्रां च तत्समीपे विवर्जयेत्॥ 329 ॥
राज्ञस्तु दर्शनं कुर्याज्ज्ञात्वावसरसौष्ठवम्।
गुणादिख्यापनात्पूर्वमुपनीतो महाशयैः॥ 330 ॥
दर्शनं नाधमद्वारा राज्ञः कार्यं विपश्चिता।
गरिष्ठोऽप्यतिनीचः स्यादुपनीतो लघुर्भवेत्॥ 331 ॥
शत्रोरत्यन्तमित्रं यत्तेन मैत्त्रीं विवर्जयेत्।
अर्दयेत्तद्विरोधेन प्रतिष्ठा घातकारिणा॥ 332 ॥
यत्रात्मीयो जनो नास्ति भेदस्तत्र न विद्यते।
कुठारैर्दण्डनिर्मुक्तैर्भिद्यन्ते तरवः कथम्॥ 333 ॥
एतदर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम्।
आदिमध्यावसानेषु न ते यास्यन्ति विक्रियाम्॥ 334 ॥
सर्व एव जनः शूरो ह्यनासादितसङ्गरः।
अदृष्टपरसामर्थ्यः सदर्पः को भवेन्नहि॥ 335 ॥
रुष्टोऽपि राजा यद्दद्यान्न तत्तुष्टो वणिग्जनः।
अतो भूमिपतिः सेव्यस्त्याज्यो दूरतरेण सः॥ 336 ॥
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत्।
विसृजेन्नैव लुब्धेभ्यो विश्वसेन्नापकारिषु॥ 337 ॥
चरेद्धीमानकटको युञ्जेत्स्नेहं न नास्तिकः।
अनृशंसश्चरेदर्थं चरेत्कार्यमनुद्धतः॥ 338 ॥
सन्दधीत न चानार्यैर्विगृह्णीयान्न बन्धुभिः।
नाभक्तं चारयेच्चारं कुर्यात्कार्यमपीडया॥ 339 ॥
सर्वे यत्र विनेतारः सर्वे यत्राभिमानिनः।
सर्वे महत्त्वमिच्छन्ति कुलं तदवसीदति॥ 340 ॥
अकृत्वा निजदेशस्य रक्षां यो विजिगीषते।
स नृपः परिधानेन वृतमौलिः पुमानिव॥ 341 ॥
विजिगीषुररिर्मित्त्रं पार्ष्णिग्राहोऽप्यमध्यमः।
उदासीनोऽन्तरान्तर्धिरित्येषा नृपतेः स्थितिः॥ 342 ॥
गृध्राकारोऽपि सेव्यः स्याद्धंसाकारैः सभासदैः।
हंसाकारोऽपि सन्त्याज्यो गृध्राकारैः सभासदैः॥ 343 ॥
ये ह्याहवेषु वध्यन्ते स्वाम्यर्थमपराङ्मुखाः।
विकटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा॥ 344 ॥
पदानि क्रतुतुल्यानि आहवेष्वनिवर्तिनाम्।
राजा सुकृतमादत्ते हतानां विपलायिनाम्॥ 345 ॥
तवाहं वादिनं क्लीबं निर्हेतिं परमागतिम्।
न हन्याद्विनिवृत्तं च युद्धं प्रेक्षितुमागतम्॥ 346 ॥
सुतभृत्यसुहृद्वैरिस्वामिसद्गुरुदैवते।
एकैकोत्तरतो वृद्ध्या श्रीकारः पत्त्रमूर्धनि॥ 347 ॥
सपक्षो लभते काको वृक्षस्य विविधं फलम्।
पक्षहीनो मृगेन्द्रोऽपि भूमिसंस्थो निरीक्षते॥ 348 ॥
सपक्षो लभते लक्षं गुणमुक्तोऽपि मार्गणः।
न लक्षस्थो विपक्षः स्याद्गुणैरापूर्यते यदि॥ 349 ॥
परस्परानुरक्ता ये योधाः शार्ङ्गधनुर्धराः।
सन्नद्धास्तुरगारूढास्ते जयन्ति रणे रिपून्॥ 350 ॥
जिते लक्ष्मीर्मृते स्वर्गः कीर्तिश्च धरणीतले।
तस्माद्युद्धं विधातव्यं हन्तव्या परवाहिनी॥ 351 ॥
विधाय वैरं सामर्षे नरोऽरौ य उदासते।
प्रक्षिप्योद1र्चिषं 2कक्षे शेरते तेऽभिमारुतम्॥ 352 ॥
सद्वंशसम्भवः शुद्धः कोटिदोऽपि गुणान्वितः।
कामं धनुरिव क्रूरो वर्जनीयः सतां प्रभुः॥ 353 ॥
असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः।
अनाक्रम्य जगत्कृत्स्नं नो सन्ध्यां भजते रविः॥ 354 ॥
चिन्त्यते नय एवादावमन्दं समुपेप्सुभिः।
विनम्य पूर्वं सिंहोऽपि हन्ति हस्तिनमोजसा॥ 355 ॥
स्वजातीयं विना वैरी न जय्यः स्यात्कदाचन।
विना वज्रमणिं मुक्तामणिर्भेद्यः कथं भवेत्॥ 356 ॥
युक्त्या परोक्षं बाधेत विपक्षक्षपणक्षमः।
शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः॥ 357 ॥
दुर्गदेशप्रविष्टोऽपि शूरोऽभ्येति पराभवम्।
गाढपङ्कनिमग्नाङ्गो मातङ्गोऽप्यवसीदति॥ 358 ॥
नयेनाङ्कुरितं शौर्यं जयाय न तु केवलम्।
अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा मृतिः॥ 359 ॥
मृदुभिर्बहुभिः शूरः पुंभिरेको न बाध्यते।
कपोतपोतकैरेकः श्येनो जातु न बाध्यते॥ 360 ॥
विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते॥ 361 ॥
ध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम्।
पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम्॥ 362 ॥
रिक्ताः कर्मणि पटवस्तृप्तास्त्वलसा भवन्ति भृत्या ये।
तेषां जलौकसामिव पूर्णानां रिक्तता कार्या॥ 363 ॥
गन्तव्या राजसभा द्रष्टव्या राजपूजिता लोकाः।
यद्यपि न भवन्त्यर्थास्तथाप्यनर्था विनश्यन्ति॥ 364 ॥
अतितेजस्व्यपि राजा पानासक्तो न साधयत्यर्थान्।
तृणमपि दुग्धुमशक्तो वडवाग्निः सम्पिबत्यब्धिम्॥ 365 ॥
अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात्।
नवसम्रोपणशिथिलस्तरुरिव सुकरः समुद्धर्तुम्॥ 366 ॥
सप्रतिबन्धं कार्यं प्रभुरधिगन्तुं सहायवानेव।
दृस्यं तमसि न पश्यति दीपेन विना सचक्षुरपि॥ 367 ॥
अभिमुखनिहतस्य सतस्तिष्ठतु तावज्जयोऽथवा स्वर्गः।
उभयबलसाधुवादश्रवणसुखस्यैव नास्त्यन्तः॥ 368 ॥
अविवेकमतिर्नृपतिर्मन्त्री गुणवत्सु वक्रितग्रीवः।
यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः॥ 369 ॥
अतिगम्भीरे भूपे कूप इव जनस्य दुरवतारस्य।
दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः॥ 370 ॥
1सदवनम2सदनुशासनमाश्रितभरणं च राजचिह्नानि।
अभिषेकः पटबन्धो बालव्यजनं व्रणस्यापि॥ 371 ॥
यदि तव हृदयं विद्वन्सुनयं स्वप्नेऽपि मा स्म सेविष्ठाः।
सचिवजितं षण्ढजितं युवतिजितं चैव राजानम्॥ 372 ॥
आश्रयितव्यो नरपतिरर्जयितव्यानि भूरि वित्तानि।
आरब्धव्यं वितरणमानेतव्यं यशो दशापि दिशः॥ 373 ॥
असमैः समीयमानः समैश्च परिहीयमाणसत्कारः।
धुरि यो न युज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः॥ 374 ॥
अनुयातानेकजनः परपुरुषैरुह्यतेऽस्य निजदेहः।
अधिकारस्थः पुरुषः शव इव न शृणोति वीक्षते कुमतिः॥ 375 ॥
स क्षत्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः।
वहन्द्वयीं यद्यफलेऽर्थजाते करोत्यसम्स्कारहतामिवोक्तिम्॥ 376 ॥
क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा॥ 377 ॥
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्ठते श्रीः।
सा स्त्रीस्वभावादसहा भरस्य तयोर्द्वयोरेकतरं जहाति॥ 378 ॥
यः काकिनीमप्यपथप्रपन्नां समुद्धरेन्निष्कसहस्रतुल्याम्।
कालेषु कोटिष्वपि मुक्तहस्तस्तं राजसिंहं न जहाति लक्ष्मीः॥ 379 ॥
उपेक्षितः क्षीणबलोऽपि शत्रुः प्रमाददोषात्पुरुषैर्मदान्धैः।
साध्योऽपि भूत्वा प्रथमं ततोऽसावसाध्यतां व्याधिरिव प्रयाति॥ 380 ॥
मित्त्राणि शत्रुत्वमिवानयन्ती मित्रत्वमप्यर्थवशाच्च शत्रून्।
नीतिर्नयत्यस्मृतपूर्ववृत्तं जन्मान्तरं जीवत एव पुंसः॥ 381 ॥
सन्मन्त्रिणा वर्धयते नृपाणां लक्ष्मीमहीधर्मयशः-समूहः।
दुर्मन्त्रिणा नाशयते तथैव लक्ष्मीमहीधर्मयशः-समूहः॥ 382 ॥
नियुक्तहस्तार्पितराज्यभारास्तिष्ठन्ति ये सौधविहारसाराः।
बिडालवृन्दार्पितदुग्धपूराः स्वपन्ति ते मूढधियः क्षितीन्द्राः॥ 383 ॥
सुहृदामुपकारकारणाद्द्विषतामप्यकारकारणात्।
नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम्॥ 384 ॥
विषमोऽपि1 विगा2ह्यते नयः 3कृततीर्थः पयसामिवाशयः।
स तु तत्र विशेषदुर्लभः 4सदुपन्यस्यति 5कृत्यवर्त्म यः6॥ 385 ॥
द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः7 सुमर्षणः।
न महानपि भूतिमिच्छता 8फलसम्पत्प्रवणः परिक्षयः॥ 386 ॥
अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः।
क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा॥ 387 ॥
अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया9।
अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः॥ 388 ॥
क्षययुक्तमपि स्वभावजं दधतं 10धाम शिवं समृद्धये।
प्रणयन्त्यनपायमुत्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम्॥ 389 ॥
प्रभवः खलु 11कोशदण्डयोः12 कृतपञ्चा13ङ्गविनिर्मयो नयः।
स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते॥ 390 ॥
अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः।
विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम्॥ 391 ॥
विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः॥ 392 ॥
चञ्चलं वसु नितान्तमुन्नता मेदिनीमपि हरन्त्यरातयः।
भूधरस्थिरमुपेयमागतं मावमंस्त सुहृदं महीपतिम्॥ 393 ॥
आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्त्रसम्रक्षणं च।
येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण॥ 394 ॥
स किं सखा साधु ना शास्ति योऽधिपं हितान्न यः संशृणुते स किं प्रभुः।
सदानकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः॥ 395 ॥
नराधिपा नीचजनानुवर्तिनो बुधोपदिष्टेन न यान्ति ये पथा।
विशन्त्यतो दुर्गममार्गनिर्गमं समस्तसम्बाधमनर्थपञ्जरम्॥ 396 ॥
नृपोऽपकृष्टः सचिवात्तदर्पणस्तनमन्धयोऽत्यन्तशिशुः स्तनादिव।
अदृष्टलोकव्यवहारमूढधीर्मुहूर्तमप्युत्सहते न वर्तितुम्॥ 397 ॥
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः।
प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः॥ 398 ॥
क्रतौ विवाहे व्यसने रिपुक्षये यशस्करे कर्मणि मित्रसङ्ग्रहे।
प्रियासु नारीष्वधनेषु बन्धुषु धनव्ययस्तेषु न गण्यते बुधैः॥ 399 ॥
परं विनीतत्वमुपैति सेवया महीपतीनां विनयो हि भूषणम्।
प्रवृत्तदानो मृदुसञ्चरत्करः करीव भद्रो विनयेन शोभते॥ 400 ॥
अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः।
अमर्षशून्येन जनस्य जन्तुना न 1जातहार्देन न विद्विषादरः॥ 401 ॥
यदि समरमपास्य नास्ति मृत्योर्भयमिति युक्तमितोऽन्यतः प्रयातुम्।
अथ मरणवमश्यमेव जन्तोः किमिति मुधा मलिनं यशः क्रियेत॥ 402 ॥
आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसङ्गतं वा।
प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो भवति तं परिवेष्टयन्ति॥ 403 ॥
सत्यानृता च 2परुषा प्रियवादिनी च हिंस्रा3 दयालुरपि चार्थपरा 4वदान्या।
नित्यव्यया प्रचुरनित्यधनागमा च वेश्याङ्गनेव नृपनीतिरनेकरूपा॥ 404 ॥
राजन्दु5धुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्समिव लोकममुं 6पुषाण।
तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नानाफलैः फलति कल्पलतेव भूमिः॥ 405 ॥
सिध्यन्ति कर्मसु महत्स्वपि 1यन्नियोज्यः सम्भावनागुणमवेहि 2तमीश्वराणाम्।
किं प्राभविष्यदरु3णस्तमसां वधाय तं चेत्सहस्र4किरणो धुरि नाकरिष्यत्॥ 406 ॥
तातार्यमन्त्रिसुतसोदरपण्डितानां नित्यं भजन्ति विभजीकृतभव्यभोगान्।
तस्मात्कदाचन रहस्यपि तद्विधानामाज्ञां विभज्य न दिशन्ति महीं महीशाः॥ 407 ॥
ये बाहवो न युधि वैरिकठोरकण्ठपीठोच्छलद्रुधिरराजिविराजिताम्साः।
नापि प्रियापृथुपयोधरपत्रभङ्गसङ्क्रान्तकुङ्कुमरसाः खलु निष्फलास्ते॥ 408 ॥
नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन।
इति महति विरोधे विद्यमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता॥ 409 ॥
नियतविषयवर्ती प्रायशो दण्डयोगाज्जगति परवशेऽस्मिन्दुर्लभः साधुवृत्तः।
कृशमपि विकलं वा व्याधितं बाधनं वा पतिमपि कुलनारी दण्डभीत्याभ्युपैति॥ 410 ॥
नृपः कामासक्तो गणयति न कार्यं न च हितं यथेच्छं स्वच्छन्दश्चरति किल मत्तो गज इव।
ततो मानध्मातः पतति तु यदा शोकगहने तदा भृत्ये दोषान्क्षिपति न निजं वेत्त्यविनयम्॥ 411 ॥
अवज्ञानात्प्राज्ञो भवति मतिहीनः परिजनस्ततस्तत्प्रामाण्याद्भवति न समीपे बुधजनः।
बुधैस्त्यक्ते राज्ये न हि भवति नीतिर्गुणवती विपन्नायां नीतौ सकलमवशं सीदति जगत्॥ 412 ॥
अयुक्तं युक्तं वा यद5भिहितमज्ञेन विभुना स्तुयादेतन्नित्यं जडमपि गुरुं तस्य विनुयात्6।
विवत्सुर्नैस्पृह्यं7 कथमपि सभायाम8भिनयेत्स्वकार्यं सन्तुष्टे क्षितिभृति 9रहस्येव कथयेत्॥ 413 ॥
मुहुर्लक्ष्योद्भेदा मुहुरधिगमाभावगहना मुहुः सम्पूर्णाङ्गी मुहुरतिकृशा कार्यवशतः।
मुहुर्भ्रश्यद्बीजा मुहुरपि बहुप्रापितफलेत्यहो चित्राकारा नियतिरिव नीतिर्नयविदः॥ 414 ॥
इच्छेद्यस्तु सुखं निवस्तु10मवनौ गच्छेत्स राज्ञः सभां 11कल्याणीं गिरमेव 12संसदि वदेत्कार्यं विदध्यात्कृती।
अक्लेशाद्धनमर्जयेदधिपतेरावर्जयेद्व13ल्लभान्कुर्वीतोपकृतिं जनस्य जनयेत्कस्यापि 14नापक्रियाम्॥ 415 ॥
अज्ञो वा यदि वा विपर्ययगते ज्ञानेऽथ सन्देहभृद्दृष्टादृष्टविरोधि कर्म कुरुते यस्तस्य गोप्ता गुरुः।
निः-सन्देहविपर्यये सति पुनर्ज्ञाने विरुद्धक्रियं राजा चेत्पुरुषं न शास्ति तदयं प्राप्तः प्रजाविप्लवः॥ 416 ॥
सूचीमात्रविभेदसम्भ्रमगुणः क्षोणीशवामभ्रुवामुत्तुङ्गस्तनमण्डलेषु लभते लीलारतिं कञ्चुकः।
नाराचैर्निबिडैर्विभिन्नवपुषां पुंसां महायोधने स्वर्गस्त्रीकुचकुम्भसम्भ्रमपरीरम्भः कथं दुर्लभः॥ 417 ॥
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः स च मदालस्येन निर्भिद्यते।
निर्भिन्नस्य पदं करोति हृदये तस्य स्वतन्त्र्यस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणान्तिकं द्रुह्यति॥ 418 ॥
ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते तं गच्छन्त्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया।
भर्तुर्ये प्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुरां वहन्ति कृतिनस्ते दुर्लभास्तादृशाः॥ 419 ॥
द्वारे रुद्धमुपेक्षते कथमपि प्राप्तं पुरो नेक्षते विज्ञप्तौ गजमीलनानि कुरुते गृह्णाति वाक्यच्छलम्।
निर्यातस्य करोति दोषकथनं तद्विद्विषामग्रतः स स्वामी यदि सेव्यते कुमतिभिः किं नः पिशाचैः कृतम्॥ 420 ॥
वृत्तिच्छेदविधौ द्विजातिमरणे मित्रार्थसम्प्रेषणे सम्प्राप्ते मरणे कलत्रहरणे स्वामिग्रहे गोग्रहे।
प्राणत्राणपरायणैकमनसां येषां न शस्त्रग्रहस्तानालोक्य विलोकते च मनसा सूर्योऽपि सूर्यान्तरम्॥ 421 ॥
धर्मः प्रागेव चिन्त्यः सचिवगतिमती भावनीये सदैव ज्ञेया लोकानुवृत्तिर्वरचरनयनैर्मण्डलं वीक्षणीयम्।
प्रच्छाद्यौ रागरोषौ मृदुपरुषयुतौ वर्जनीयो च काले स्वात्मा यत्नेन रक्ष्यो रणशिरसि पुनः सोऽपि नापेक्षणीयः॥ 422 ॥
कोऽहं कौ देशकालौ समविषमगुणाः केऽरयः के सहायाः का शक्तिः कोऽभ्युपायः फलमिह च कियत्कीदृशी दैवसम्पत्।
सम्पत्तौ को निबन्धः प्रविदितवचनस्योत्तरं किं नु मे स्यादित्येवं कार्यसिद्धाववहितमनसो हस्तगा सम्पदः स्युः॥ 423 ॥