बहुभिर्बत किं जातैः पुत्रैर्धर्मार्थवर्जितैः। वरमेकः पथि तरुर्यत्र विश्रमते जनः॥ 113 ॥ दशकूपसमा वापी दशवापीसमो ह्रदः। दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः॥ 114 ॥