३१ उपवनानि

नवं वयो हारि वपुर्वराङ्गनाः सखी कलावित्कलवल्लकीस्वनः।
धनं हि सर्वं विफलं सुखैषिणो विना विहारोपवनानि भूपतेः॥ 111 ॥
पुंसां सर्वसुखैकसाधनफलाः सौन्दर्यगर्वोद्भुरक्रीडालोलविलासिनीजनमनः-स्फीतप्रमोदावहाः।
गुञ्जद्भृङ्गविनिद्रपङ्कजभरस्फारोल्लसद्दीर्धिकायुक्ताः सन्ति गृहेषु यस्य विपुलारामाः स पृथ्वीपतिः॥ 112 ॥