वाजी चारुगतिः शशाङ्कधवलं छत्रं प्रिया पृष्ठतः प्रोत्तुङ्गस्तनमण्डला विजयिनो भृत्याः पुरः पञ्चषाः। ताम्बूलं मधुरं सखा सुचतुरः सम्पद्यते चेत्पथि प्राहुस्तत्कटकप्रयाणमितरत्प्राणप्रयाणं बुधाः॥ 110 ॥