२४ ताम्बूलम्

ताम्बूलं मुखरोगनाशि निपुणं सम्वर्धनं तेजसो नित्यं जाठरवह्निवृद्धिजननं दुर्गन्धदोषापहम्।
वक्त्रालङ्करणं प्रहर्षजननं विद्वन्नृपाग्रे रणे कामस्यायतनं समुद्भवकरं लक्ष्म्याः सुखस्यास्पदम्॥ 104 ॥