२३ स्नानम्

स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं शौचस्यायतनं मलापहरणं संवर्धनं तेजसः।
रूपोद्द्योतकरं गदप्रशमनं कामाग्निसन्दीपनं नारीणां च मनोहरं श्रमहरं स्नाने दशैते गुणाः॥ 103 ॥