२२ भृत्याः

बहूनामप्यसाराणां समुदायो हि दारुणः।
राज्ञा भृत्याः प्रकर्तव्यास्ते हि सर्वक्रियाक्षमाः॥ 83 ॥
तृणैरावेष्ट्यते रज्जुस्तया नागो हि बध्यते।
एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः॥ 84 ॥
न विना पार्थिवो भृत्यैर्न भृत्याः पार्थिवं विना।
तेषां च व्यवहारोऽयं परस्परनिबन्धनः॥ 85 ॥
भृत्यैर्विना स्वयं राजा लोकानुग्रहकार्यपि।
मयूखैरिव दीप्तांशुस्तेजस्व्यपि न शोभते॥ 86 ॥
अरैः सन्धार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः।
स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते॥ 87 ॥
शिरसा विधृता नित्यं तथा स्नेहेन पालिताः।
केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः॥ 88 ॥
ताडितोऽपि दुरुक्तोऽपि दण्डितोऽपि महीभुजा।
न चिन्तयति यः पापं स भृत्योऽर्हो महीभुजाम्॥ 89 ॥
योऽनाहूतः समभ्येति द्वारे तिष्ठति सर्वदा।
पृष्टः सत्यं मितं ब्रूते स भृत्योऽर्हो महीभुजाम्॥ 90 ॥
अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः।
यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम्॥ 91 ॥
न क्षुधा पीड्यते यस्तु निद्रया न कदाचन।
न च शीतातपाद्यैश्च स भृत्योऽर्हो महीभुजाम्॥ 92 ॥
श्रुत्वा साङ्ग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति।
प्रसन्नास्यो भवेद्यस्तु स भृत्योऽर्हो महीभुजाम्॥ 93 ॥
सीमा वृद्धिं समायाति शुक्लपक्ष इवोडुराट्।
नियोगसंस्थिते यस्मिन्स भृत्योऽर्हो महीभुजाम्॥ 94 ॥
सीमा सङ्कोचमायाति वह्नौ चर्म इवाहितम्।
स्थिते यस्मिन्स तु त्याज्यो भृत्यो राज्यं समीहता॥ 95 ॥
स्वाम्यादिष्टस्तु यो भृत्यः समं विषममेव च।
मन्यते न स सन्धार्यो भूभुजा भूतिमिच्छता॥ 96 ॥
स्वाम्यादेशात्सुभृत्यस्य न भीः सञ्जायते क्वचित्।
प्रविशेन्मुखमाहेयं दुस्तरं वा महार्णवम्॥ 97 ॥
सालसं मुखरं क्रूरं स्तब्धं व्यसनिनं शठम्।
असन्तुष्टमभक्तं च त्यजेद्भृत्यं नराधिपः॥ 98 ॥
स्वाम्युक्ते यो न यतते स भृत्यो 1भृत्यपाशकः।
तज्जीवनमपि व्यर्थमजागलकुचाविव॥ 99 ॥

द्विजा अपि न गच्छन्ति यां गतिं नैव योगिनः।
स्वाम्यर्थं सन्त्यजन्प्राणान्स्तां गतिं याति सेवकः॥ 100 ॥
राजा तुष्टोऽपि भृत्यानां मानमात्रं प्रयच्छति।
तेऽपि सम्मानमात्रेण प्राणैः प्रत्युपकुर्वते॥ 101 ॥
सारासारपरिच्छेत्ता स्वामी भृत्यस्य दुर्लभः।
अमनुकूलः शुचिर्दक्षः प्रभोर्भृत्योऽपि दुर्लभः॥ 102 ॥


  1. कुत्सितभृत्यः. ↩︎