न गजानां सहस्रेण न लक्षेण च वाजिनाम्।
तथा सिध्यन्ति कार्याणि यथा दुर्गप्रभावतः॥ 63 ॥
अदुर्गो विषयः कस्य नारेः परिभवास्पदम्।
अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत्॥ 64 ॥
विषहीनो यथा नागो मदहीनो यथा गजः।
सर्वेषां वश्यतां याति दुर्गहीनस्तथा नृपः॥ 65 ॥
शतमेकोऽपि सन्धत्ते प्राकारस्थो धनुर्घरः।
तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविदो जनाः॥ 66 ॥
एकः शतं योधयते प्राकारस्थो धनुर्धरः।
शतं सहस्राणि तथा सहस्रं लक्षमेव च॥ 67 ॥
दुर्गाणि राज्ञा कार्याणि सजलानि दृढानि च।
द्रव्यमन्नं च तेष्वेव स्थापनीयं प्रयत्नतः॥ 68 ॥