११ सैन्यम्

प्रथमं युद्धकारित्वं समस्तबलपालनम्।
दिङ्मार्गयोधशोधित्वं पत्तिकर्म प्रचक्षते॥ 60 ॥
स्वभावशूरमस्त्रज्ञमविरक्तं जितश्रमम्।
प्रसिद्धक्षत्रियप्रायं बलं श्रेष्ठतमं विदुः॥ 61 ॥
वरमल्पबलं सारं न बह्वी मुण्डमालिका।
कुर्यादसारभङ्गो हि सारभङ्गमपि स्फुटम्॥ 62 ॥