खड्गाल्लक्ष्मीस्तथा राज्यं यशः खड्गादवाप्यते।
खड्गाद्वैरिविनाशं च यत्नात्तमभिदध्महे॥ 58 ॥
यस्मिन्खड्गे शरीरं प्रतिफलति यथा खड्गराजोऽभिवन्द्यो वन्द्योऽयं देववृन्दैरपि यदि स भवेदर्धचन्द्रोपपन्नः।
नानावर्णैर्युतश्चेत्स भवति नृपतेः शत्रुनाशैकहेतुः सेतुर्लक्ष्मीप्रवाहे निखिलरिपुकुलध्वंसने धूमकेतुः॥ 59 ॥