०९ तुरगाः

अश्वा यस्य जयस्तस्य यस्याश्वास्तस्य मेदिनी।
अश्वा यस्य यशस्तस्य यस्याश्वास्तस्य काञ्चनम्॥ 50 ॥
निपत्य युधि वेगेन मिषतां सर्वधन्विनाम्।
शत्रुं निहत्य यात्येकः शूरो वाजिप्रभावतः॥ 51 ॥
शस्त्रास्त्रैर्भिन्नदेहोऽपि श्रान्तोऽपि गुरुभारतः।
न मुञ्चति रणे नाथमतः कोऽन्यो हयात्सुहृत्॥ 52 ॥
दूरस्थोऽपि बली शत्रुर्न शेते रजनीष्वपि।
तस्य भीत्या गृहे यस्य हरयो वेगवत्तराः॥ 53 ॥
न गजैर्न नरैः कार्यं सिद्धिमभ्येति भूभृताम्।
तथा निमेषमात्रेण यथा वाहैः सुसाधितैः॥ 54 ॥
राज्यं शतक्रतुसमृद्धिसमानमश्वैरश्वैः श्रियः सकलकामदुघा भवन्ति।
अश्वैर्यशांसि विपुलानि समुल्लसन्ति नाश्वैः प्रयान्ति सदृशत्वमिभादयोऽपि॥ 55 ॥
तीक्ष्णाग्रहेतिहतिभिः सृतलोलदन्तं चञ्चत्करालकरवालविघट्टिताङ्घ्रिम्।
कोऽन्यो विहाय हयमावहजातमूर्छप्राणप्रयाणसमयेऽवतुमीशमीशः॥ 56 ॥
पादाः कन्दुकवत्स्थितिश्च गिरिवद्धेषारवो मेघवन्नेत्रे नीरजवज्जवः पवनवच्चास्फालनं सिंहवत्।
विन्यासो नटवन्मुखं कुलवधूवक्त्रेन्दुवद्वाजिनो यस्य क्षोणिभुजो विशस्तदितरे साम्राज्यमुर्वीतले॥ 57 ॥