०८ गजाः

यतः सत्यं ततो धर्मो यतो धर्मस्ततो धनम्।
यतो रूपं ततः शीलं यतो नागास्ततो जयः॥ 35 ॥
यतो गजैर्विना राज्ञां राज्यशोभा न जायते।
जयप्रतापौ सैन्यस्य रक्षा तस्मादिहोच्यते॥ 36 ॥
यद्वद्वनमसिंहं च यद्वद्राष्ट्रमपार्थिवम्।
यद्वच्छौर्यमशस्त्रं तु तद्वत्सैन्यमकुञ्जरम्॥ 37 ॥
प्राकारगोपुराट्टालकपाटोद्धाटनादिषु।
भञ्जने मर्दने चैव नागा वज्रोपमाः स्मृताः॥ 38 ॥
शरजालञ्चितमुखः कोऽन्यः शक्तः परं गजात्।
हन्तुं प्राकारमुन्मथ्य रथांश्च नरकुञ्जरान्॥ 39 ॥
एकशक्तिप्रहारेण म्रियतेऽस्वो नरोऽपि च।
सहेच्छतं प्रहाराणां महायुद्धेषु वारणः॥ 40 ॥
क्रीडासु च नरेन्द्राणां जले पुष्पितपङ्कजे।
स्नपयन्ति गजा हस्तैर्लग्नपुष्करपुष्करैः॥ 41 ॥
स्त्रियोऽवतारयन्त्येते मृण्मया इव निश्चलाः।
नास्ति हस्तिसमो बन्धुर्नास्ति हस्तिसमः सखा॥ 42 ॥
चलन्ति येषां न शतं गजेन्द्राः पुरः प्रयाणे बत शैलतुल्याः।
वाञ्छन्ति चैवं विजयं कथं ते राजेति शब्दं च कथं लभन्ते॥ 43 ॥
रक्षन्ति पक्षं मुदिताः स्वकीयं मथ्नन्ति सैन्यं कुपिताः परेषाम्।
प्राणैरपीच्छन्ति हितं प्रभूणां गजैः समानं क्व बलं बलीयः॥ 44 ॥
सैन्योत्तारणतो धुनीषु सततं यो वारिबन्धायते यो मथ्नन्परितः परोद्धतबलं युद्धेषु योधायते।
यः स्वीयक्षितिनाथरक्षणविधौ प्रोच्चैकदुर्गायते स प्राज्ञैर्विजिगीषुभिर्गजगणः कैः पार्थिवैर्नोऽर्थ्यते॥ 45 ॥
मातङ्गैरथ यैर्महेन्द्रभवनं पुण्याधिकं जन्यते यैः श्यामैरपि सर्वलोकमहिता कीर्तिः सिता तन्यते।
यैर्मत्तैरपि सङ्गरे रिपुमदः शोषं समानीयते तेऽमी भाग्यवतः प्रयान्ति पुरतः स्तम्बेरमा भूपतेः॥ 46 ॥
चीत्कारैर्नाशयन्तः स्वपतिभटमनो मोदयन्तो मदाढ्याः प्रौढाः सङ्ग्रामसीम्नि स्वबलबलतां बाढमाढौकमानाः।
शुण्डादण्डप्रहारैः परममपि बलं कम्पयन्तः परेषां येषां सर्वे गजेन्द्रा भुवि विजयविधौ ते मता भूमिपालाः॥ 47 ॥
सेतुं सम्भेदयन्तो बलविकटभटप्रोन्नतिं त्रोटयन्तः प्राकारं दारयन्तः परमनसि परां भीतिमुत्पादयन्तः।
व्यूहं विद्रावयन्तः सुघनमपि वनं हेलयोत्पाटयन्तो येषामाजौ गजेन्द्राः खलु धरणिभुजां तज्जयः सिद्ध एव॥ 48 ॥
तावद्गर्जन्ति वीर्यात्परनिधनविधौ युद्धमध्येऽपि धीरास्तावद्धावन्ति वेगं परमपि दधतः सम्मुखीनास्तुरङ्गाः।
शूरारूढः सुसज्जो मदमुदितमना मानिमानं विधुन्वन्यावन्नायाति कोपात्कृतविविधरवाटोप एकोऽपि नागः॥ 49 ॥