समस्तनीतिशास्त्रज्ञो वाहने पूजितश्रमः। शौर्यवीर्यगुणोपेतः सेनाध्यक्षो विधीयते॥ 33 ॥ शूरोऽर्थशास्त्रनिपुणः कृतशास्त्रकर्मा सङ्ग्रामकेलिचतुरश्च तुरङ्गयुक्तः। भर्तुर्निदेशवशगोऽभिमतश्च तन्त्रे सेनापतिर्नरपतेर्विजयागमाय॥ 34 ॥