मन्त्रतन्त्रार्पितप्रीतिर्देशकालोचितस्थितिः।
यश्च राज्ञि भवेद्भक्तः सोऽमात्यः पृथिवीपतेः॥ 21 ॥
स ह्यमात्यः सदा श्रेयान्काकिनीं यः प्रवर्धयेत्।
कोशः कोशवतः प्राणाः प्राणाः प्राणा न भूपतेः॥ 22 ॥
कमण्डलूपमोऽमात्यस्तनुत्यागो बहुग्रहः।
नृपतिः किं क्षणो मूर्खो दरिद्रः किं वराटकः॥ 23 ॥
प्राप्तार्थग्रहणं द्रव्यपरिवर्तोऽनुरोधनम्।
उपेक्षा बुद्धिहीनत्वं भोगोऽमात्यस्य दूषणम्॥ 24 ॥
स्वदेशजं कुलाचारं विशुद्धमथवा शुचिम्।
मन्त्रज्ञमव्यसनिनं व्यभिचारविवर्जितम्॥ 25 ॥
अधीतव्यवहारज्ञं मौलं ख्यातं विपश्चितम्।
अर्थस्योत्पादकं चैव विदध्यान्मन्त्रिणं नृपः॥ 26 ॥
अन्तःसारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः।
मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम्॥ 27 ॥
सङ्ग्रहं 1नाकुलीनस्य सर्पस्येव करोति यः।
स एव श्लाघ्यते मन्त्री सम्यग्गारुडिको यथा॥ 28 ॥
पृष्टो ब्रूते न सत्यं यः परिणामे सुखावहम्।
मन्त्री चेत्प्रियवक्ता स्यात्केवलं स रिपुः स्मृतः॥ 29 ॥
मूर्खं व्यसनिनं लुब्धमप्रगल्भं भयाकुलम्।
क्रूरमन्यायकर्तारं नाधिपत्ये नियोजयेत्॥ 30 ॥
दूरादर्थं घटयति नवं दूरतश्चापशब्दं त्यक्त्वा भूयो भवति निरतः सत्सभारञ्जनेषु।
मन्दं मन्दं रचयति पदं लोकचित्तानुवृत्त्या कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः॥ 31 ॥
शास्त्रज्ञः कपटानुसारकुशलो वक्ता न च क्रोधनस्तुल्यो मित्त्रपरस्वकेषु चरितं दृष्टैव दत्तोत्तरः।
क्लीबान्पालयिता शठान्व्यथयिता धर्म्येऽतिलोभान्वितो द्विर्भावे परतत्त्वबद्धहृदयो राज्ञश्च कोपापहः॥ 32 ॥
-
न अकुलीनस्य; [पक्षे] नाकुर्वल्मीकं तत्र लीनस्य. ↩︎