०२ सभासदः

धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः।
समाः शत्रौ च मित्त्रे च नृपतेः स्युः सभासदः॥ 16 ॥
श्रुत्यध्ययनसम्पन्ना धर्मज्ञाः सत्यवादिनः।
राज्ञा सभासदः कार्या रिपौ मित्त्रे च ये समाः॥ 17 ॥