राजास्य जगतो वृद्धेर्हेतुर्वृद्धाभिसङ्गतः।
नयनानन्दजननः शशाङ्क इव वारिधेः॥ 1 ॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्।
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम्॥ 2 ॥
धार्मिकं पालनपरं सम्यक्परपुरञ्जयम्।
राजानमभिमन्यन्ते प्रजापतिमिव प्रजाः॥ 3 ॥
पर्जन्य इव भूतानामाधारः पृथिवीपतिः।
विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ॥ 4 ॥
सदानुरक्तप्रकृतिः प्रजापालनतत्परः।
विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते॥ 5 ॥
सर्वदेवमयो राजा मनुना सम्प्रकीर्तितः।
तस्मात्तमेव सेवेत न व्यलीकेन कर्हिचित्॥ 6 ॥
सर्वदेवमयस्यापि विशेषो भूपतेरयम्।
शुभाशुभफलं सद्यो नृपाद्देवाद्भवान्तरे॥ 7 ॥
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः।
महती देवता ह्येषा नररूपेण तिष्ठति॥ 8 ॥
यस्य प्रसादे पद्मास्ते विजयश्च पराक्रमे।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥ 9 ॥
अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः।
शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम्॥ 10 ॥
निकटस्थं दहत्यग्निर्न तु दूरापसर्पितम्।
कुलं दहति राजाग्निः सपशुद्रव्यबान्धवम्॥ 11 ॥
पात्रे त्यागी गुणे रागी भोगी परिजनैः सह।
भावबोद्धा रणे योद्धा प्रभुः पञ्चगुणो भवेत्॥ 12 ॥
आक्षेपवचनं तस्य न वक्तव्यं कदाचन।
अनुकूलं प्रियं चास्य वक्तव्यं जनसंसदि॥ 13 ॥
इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं क्रोधो यमाद्वैश्रवणाच्च वित्तम्।
पराक्रमं रामजनार्दनाभ्यामादाय राज्ञः क्रियते शरीरम्॥ 14 ॥
उत्खातान्प्रतिरोपयन्कुसुमितांश्चिन्वन्ल्लघून्वर्धयन्नत्युच्चान्नमयन्नतान्समुदयन्विश्लेषयन्संहतान्।
क्षुद्रान्कण्टकिनो बहिर्निरसयन्म्लानान्पुनः सेचयन्मालाकार इव प्रयोगनिपुणो राजा चिरं नन्दति॥ 15 ॥