२५ ऋष्याश्रमवर्णनम्

विष्वक्तपोवनकुमारसमर्प्यमाणश्यामाकतण्डुलहृतां च पिपीलिकानाम्।
श्रेणीभिराश्रमपथाः प्रथमानचित्रपत्त्रावलीवलयिनो मुदमुद्वहन्ति॥ 1 ॥
व्याजृम्भमाणवदनस्य हरेः करेण कर्षन्ति केसरसटाः कलभाः किलैके।
अन्ये च केसरिकिशोरकपीतमुक्तं दुग्धं मृगेन्द्रवनितास्तनजं पिबन्ति॥ 2 ॥
मधुरमिव वदन्ति स्वागतं भृङ्गनादैर्नतिमिव फलनम्रैः कुर्वतेऽमी शिरोभिः।
ननु ददत इवार्घं पुष्पवृष्टिं किरन्तः कथमतिथिसपर्यां शिक्षिताः शाखिनोऽपि॥ 3 ॥
नीपस्कन्धे कुहरिणि शुकाः स्वागतं व्याहरन्ति घ्राणग्राही हरति हृदयं हव्यगन्धः समीरः।
एता मृग्यः सलिलपुलिनोपान्तसंसक्तदर्भं पश्यन्त्योऽस्मान्सचकितदृशो निर्झराम्भः पिबन्ति॥ 4 ॥
कुल्याम्भोभिः पवनचपलैः शाखिनो दौतमूला भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन।
एते चार्वागुपवनभुवि च्छिन्नदर्भाङ्कुरायां नष्टातङ्का हरिणशिशवो मन्दमन्दं चरन्ति॥ 5 ॥
रसालानामन्तर्मदकलरणत्कोकिलकुलं समन्तादुन्मीलद्बकुलमुकुलामोदभरितम्।
घनस्निग्धच्छायं क्रमुककदलीशीतलतलं ननु प्रीतिं धत्ते नवमिदमृषेराश्रमपदम्॥ 6 ॥
नीवाराः शुककोटरार्भकमुखभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः॥ 7 ॥
तत्तादृक्तृणपूलकोपनयनक्लेशाच्चिरद्वेषिभिर्मेध्या वत्सतरी विहस्य वटुभिः सोल्लुण्टमालभ्यते।
अप्येष प्रतनूभवत्यतिथिभिः सोच्छ्वासनासापुटैरापीतो मधुपर्कपाकसुरभिः प्राग्वंशजन्मानिलः॥ 8 ॥
प्रत्यासन्नतुषारदीधितिकरक्लिश्यत्तमोवल्लरीकल्पाभिर्मखधूमवल्लिभिरमी सम्मीलितव्यञ्जनाः।
श्वः सञ्चीवरयिष्यमाणबटुकव्याधौतशुष्यत्त्वचो निद्राणातिथयस्तपोवनगृहाः कुर्न्ति नः कौतुकम्॥ 9 ॥
नीवारौदनम1ण्डमुष्णमधुरं सद्यःप्रसूतप्रियापीतादप्यधिकं तपोवनमृगः पर्याप्त2माचामति।
गन्धेन स्फुरता मनागनुसृतो 3भक्तस्य 4सर्पिष्मतः कर्कन्धूपलमिश्रशाकपचनामोदः परिस्तीर्यते॥ 10 ॥

आमूलं क्वचिदुद्धृता क्वचिदपि च्छिन्ना स्थली 5बर्हिषामानम्रा कुसुमोच्चयाच्च सदयाकृष्टाग्रशाखा लता।
एते पूर्वविलूनवल्कलतया रूढव्रणाः शाखिनः सद्यश्छेदममी वदन्ति समिधां प्रस्यन्दिनः पादपाः॥ 11 ॥

वासोऽर्थं दययैव नातिपृथवः कृत्तास्तरूणां त्वचो भग्नानेकजरत्कमण्डलु नभः-स्वच्छं पयो नैर्झरम्।
दृश्यन्ते त्रिटितोज्झिताश्च वटुभिर्मौञ्ज्यः क्वचिन्मेखला नित्याकर्णनया शुकेन च पदं साम्नामिदं गीयते॥ 12 ॥
क्रीडन्माणवकाङ्घ्रिताडनशतैरुज्जागरस्य क्षणं शार्दूलस्य नखाङ्कुरेषु कुरुते कण्डूविनोदं मृगः।
चञ्चच्चन्द्रशिखण्डितुण्डघटनानिर्मोकनिर्मोचितः किं चायं पिबति प्रसुप्तनकुलश्वासानिलं पन्नगः॥ 13 ॥
पक्वानि प्रच्यवन्ते क्रमुकविटपिनामुच्छ्रितानां फलानि स्पन्दन्ते राजरम्भाः फलभरनमिता वाति मन्दानिलेऽपि।
सन्दृश्यन्ते विपाकच्युतमधुरफलव्याप्तमूला रसाला भारेणामी फलानां युवतिकुचभरस्पर्धिनो नालिकेराः॥ 14 ॥


  1. अग्ररसम्. ↩︎

  2. पिबति. ↩︎

  3. अन्नस्य. ↩︎

  4. सघृतस्य. ↩︎

  5. कुशानाम्. ↩︎