निहत निहत तूर्णं धत्त धत्त त्वराभिर्मिलत मिलत के के कुत्र कुत्र प्रयान्ति।
इत इत इत एते यान्ति यान्तीत्यरण्यादतुलकलकलश्रीः सर्वतः प्रादुरासीत्॥ 1 ॥
अनवरतधनुर्ज्यास्फालनक्रूरकर्मा रविकिरणसहिष्णुः स्वेदलेशैरभिन्नः।
उपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति॥ 2 ॥
मार्गं देहि पदं निधेहि निभृतं तं शब्दमाकर्णय श्वानं वारय कन्दलात्कलकलः कोऽयं सखे तावकः।
इत्यन्योन्यमनेकधा मृगवधव्यापारपारङ्गमैर्व्याधैः कोऽप्यधिको रसः प्रतिपदं जल्पद्भिरुत्पाद्यते॥ 3 ॥
क्ष्वेलातर्जितसिंहगर्जितभयभ्राम्यद्गजग्रामणीभीट्कारद्रवदक्षदर्शनकृतभ्रूभङ्गशाखामृगम्।
कुन्तक्षुण्णतरक्षुवक्त्रगलितक्षोणीनिषण्णार्भकघ्राणं व्यापृतरोहिताहितबहूकारं वनाभ्यन्तरम्॥ 4 ॥
एष 1क्षुभ्नाति पङ्कं 2दलति कमलिनीमत्ति गुन्द्राप्ररोहानारान्मुस्तास्थलानि 3स्थपुटयति जलान्यु4त्कसेतूनि याति।
प्राप्तः प्राप्तः प्रविष्टो वनगहनमयं याति यातीति सैन्यैः पश्चादन्विष्यमाणः प्रविशति विषमान्काननान्तान्वराहः॥ 5 ॥
आस्तीर्यन्तामुपान्ते 5वनवृतिनिपुणैर्जालिकैर्जालबन्धा मुच्यन्तां शृङ्खलाभ्यः श्वगणिभिरटवीगह्वरे सारमेयाः।
आकीर्यन्तां स्थलानि श्रमशिथिलहयैः सादिभिः पाशहस्तैर्व्याधूयन्तां कृतान्तैरिव महिषचरैर्दण्डिभिः काननानि॥ 6 ॥
शङ्कुव्याकीर्णरङ्कुद्रुतनिशितशरक्षुण्णदीव्यत्तरक्षुव्याघोषक्षुब्धकण्ठीरवरवचकितव्यस्तमातङ्गयूथम्।
खड्गव्यालूनकण्ठं तुमुलकलकलप्रान्तकूजच्छकुन्तं भल्लध्वस्ताच्छभल्लं वनभुवि मृगयाकर्म तेन प्रतेने॥ 7 ॥