२२ वनश्रीवर्णनम्

नीपस्कन्धे निवसति लसद्बर्हभारो मयूरो दीर्घापाङ्गश्चरति च तृणं शाद्वलेऽयं कुरङ्गः।
कुम्भेनोच्चैः स्पृशति विटपे सल्लकीं कुञ्जरोऽसौ कस्मै नायं कमलनयने रोचतेऽरण्यभागः॥ 1 ॥
हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः कुसुमललितैर्विष्वग्वातैस्तरङ्गितपादपाः।
विविधविहगश्रेणीचित्रध्वनिप्रतिनादिता मनसि न मुदं केषां मध्युः शिवा वनभूमयः॥ 2 ॥
वानीरप्रसवैर्निकुञ्जसरिता1मासक्तवासं पयः पर्यन्तेषु च यूथिकासुमनसामुज्जृम्भितं जालकैः।
उन्मीलत्कुटजप्रहासिषु गिरेरोलम्ब्य सानूनितः 2प्राग्भारेषु शिखण्डिताण्डवविधौ मेघैर्वितानायते॥ 3 ॥

3जृम्भाज4र्जरडि5म्बड6म्बरघनश्रीमत्कदम्बद्रुमाः शैलाभोगभुवो भवन्ति ककुभः 7कादम्बिनीश्यामलाः।
8उद्यत्क9न्दलकान्तकेतकभृतः 10कच्छाः सरित्स्रोतसामाविर्भूतशिलीन्ध्रलोध्रकुसुमस्मेरावनानां ततिः॥ 4 ॥

निष्कू11जस्तिमिताः क्वचित्क्वचिदपि प्रोच्च12ण्डसत्त्व13स्वनाः स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः।
सीमानः 14प्रदरोदरेषु विलसत्स्वल्पाम्भसो यास्वयं तृष्यद्भिः 15प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते॥ 5 ॥

वृन्तैः) क्षुद्रप्रवालस्थगितमिव तलं भाति शेफालिकानां गन्धः सप्तच्छदानां सपदि गजमदामोदमोहं करोति।
एते चोन्निद्रपद्मच्युतबहलरजःकाणपिङ्गाङ्गरागा गायन्त्यत्राप्यवाचः किमपि मधुलिहो वारुणीपानमत्ताः॥ 6 ॥
श्रोत्रं हंसस्वनोऽयं सुखयति दयितानूपुराह्लादकारी दृष्टिप्रीतिं विधत्ते तटतरुविवरालक्षिता सौधमाला।
गन्धेनाम्भोरुहाणां परिमलपटुना जायते घ्राणसौख्यं गात्राणां ह्लादमेते विदधति मरुतो वारिसम्पर्कशीताः॥ 7 ॥


  1. लग्नसौरभम्. ↩︎

  2. शिखरेषु. ↩︎

  3. विकासेन. ↩︎

  4. पृथग्भूतः. ↩︎

  5. गोलकः. ↩︎

  6. आडम्बरेण. ↩︎

  7. मेघमालाश्यामाः. ↩︎

  8. विकसितैः. ↩︎

  9. नवाङ्कुरैः. ↩︎

  10. कूलानि. ↩︎

  11. निःशब्दतया गम्भीराः. ↩︎

  12. भीषणाः. ↩︎

  13. वनजन्तूनाम्. ↩︎

  14. भूविदारमध्येषु. ↩︎

  15. कृकलासैः. ↩︎