अयमतिजरठाः[^1] प्रकामगुर्वीरलघुविलम्बि1पयोधरोपरुद्धाः।
सततमसुमतामगम्यरूपाः 2परिणतदिक्करिकास्तटीर्बिभर्ति॥ 1 ॥
(1. (गिरिपक्षे) कठिनाः; (वृद्धवेश्यापक्षे) जीर्णाः.)
अयमभिनवमेघश्यामलोत्तुङ्गसानुर्मदमुखरमयूरीमुक्त3सम्सक्तकेकः।
शकुनिश4बलनी5डानोकहस्निग्ध6वर्ष्मा वितरति 7बृहदश्मा पर्वतः प्रीतिमक्ष्णोः॥ 2 ॥
दधति 8कुहरभाजामत्र भल्लूकयूना9मनुरसितगुरूणि 10स्त्यानमम्बू11कृतानि।
शिशिरकटुकषायः 12स्त्यायते 13सल्लकीनामिभ14दलित15विकीर्ण16ग्रन्थिनिष्यन्दगन्धः॥ 3 ॥
इह समदशकुन्ताक्रान्तवानी17रवीरुत्प्र18सवसुरभिशीतस्वच्छतोया वहन्ति।
फलभर19परिणामश्यामजम्बूनिकुञ्जस्खलनमुखरभूरिस्रोतसो निर्झरिण्यः॥ 4 ॥
एते ते गिरिकूटसङ्घटशिलासङ्घट्टशीर्णाम्भसः प्रेङ्खच्चामरचारुसीकरकणस्मेरा दरीनिर्झराः।
यत्पातेषु निकुञ्जकुञ्जरमुखभ्रश्यन्मृणालाङ्कुरग्रासोद्ग्रन्थितटं रटन्ति परितः कण्ठीरवा भैरवम्॥ 5 ॥
-
मेघः; [पक्षे] कुचाः. ↩︎
-
परिणतास्तिर्यग्दन्तप्रहारिणो दिग्गजा यासु ताः; [पक्षे] परिणते प्रकटे दिक्करिके दिग्वर्तुलं दशनक्षतम्, करिका नखक्षतम्, यासां ताः ↩︎
-
मिलिताः. ↩︎
-
कर्बुरैः. ↩︎
-
पक्षिवासवृक्षाः. ↩︎
-
शरीरम्. ↩︎
-
विपुलशिलः. ↩︎
-
गुहावासिनाम्. ↩︎
-
प्रतिरवेण स्थूलानि. ↩︎
-
घनताम्. ↩︎
-
सश्लेष्मकथूत्कारध्वनयः. ↩︎
-
निबिडीभवति. ↩︎
-
वृक्षभेदानाम्. ↩︎
-
खण्डित. ↩︎
-
विस्तीर्णं. ↩︎
-
पर्व. ↩︎
-
वेतसलतानाम्. ↩︎
-
पुष्पैः. ↩︎
-
परिपाकेन. ↩︎