२० पर्वतवर्णनम्

अयमतिजरठाः[^1] प्रकामगुर्वीरलघुविलम्बि1पयोधरोपरुद्धाः।
सततमसुमतामगम्यरूपाः 2परिणतदिक्करिकास्तटीर्बिभर्ति॥ 1 ॥

(1. (गिरिपक्षे) कठिनाः; (वृद्धवेश्यापक्षे) जीर्णाः.)

अयमभिनवमेघश्यामलोत्तुङ्गसानुर्मदमुखरमयूरीमुक्त3सम्सक्तकेकः।
शकुनिश4बलनी5डानोकहस्निग्ध6वर्ष्मा वितरति 7बृहदश्मा पर्वतः प्रीतिमक्ष्णोः॥ 2 ॥

दधति 8कुहरभाजामत्र भल्लूकयूना9मनुरसितगुरूणि 10स्त्यानमम्बू11कृतानि।
शिशिरकटुकषायः 12स्त्यायते 13सल्लकीनामिभ14दलित15विकीर्ण16ग्रन्थिनिष्यन्दगन्धः॥ 3 ॥

इह समदशकुन्ताक्रान्तवानी17रवीरुत्प्र18सवसुरभिशीतस्वच्छतोया वहन्ति।
फलभर19परिणामश्यामजम्बूनिकुञ्जस्खलनमुखरभूरिस्रोतसो निर्झरिण्यः॥ 4 ॥

एते ते गिरिकूटसङ्घटशिलासङ्घट्टशीर्णाम्भसः प्रेङ्खच्चामरचारुसीकरकणस्मेरा दरीनिर्झराः।
यत्पातेषु निकुञ्जकुञ्जरमुखभ्रश्यन्मृणालाङ्कुरग्रासोद्ग्रन्थितटं रटन्ति परितः कण्ठीरवा भैरवम्॥ 5 ॥


  1. मेघः; [पक्षे] कुचाः. ↩︎

  2. परिणतास्तिर्यग्दन्तप्रहारिणो दिग्गजा यासु ताः; [पक्षे] परिणते प्रकटे दिक्करिके दिग्वर्तुलं दशनक्षतम्, करिका नखक्षतम्, यासां ताः ↩︎

  3. मिलिताः. ↩︎

  4. कर्बुरैः. ↩︎

  5. पक्षिवासवृक्षाः. ↩︎

  6. शरीरम्. ↩︎

  7. विपुलशिलः. ↩︎

  8. गुहावासिनाम्. ↩︎

  9. प्रतिरवेण स्थूलानि. ↩︎

  10. घनताम्. ↩︎

  11. सश्लेष्मकथूत्कारध्वनयः. ↩︎

  12. निबिडीभवति. ↩︎

  13. वृक्षभेदानाम्. ↩︎

  14. खण्डित. ↩︎

  15. विस्तीर्णं. ↩︎

  16. पर्व. ↩︎

  17. वेतसलतानाम्. ↩︎

  18. पुष्पैः. ↩︎

  19. परिपाकेन. ↩︎