साक्षात्किलाष्टमूर्तेस्तस्यैषा मूर्तिरम्मयी प्रथमा।
गीतः सागर इति नृभिरपरिच्छेद्यात्मगाम्भीर्यः॥ 1 ॥
लक्ष्मीरस्य हि यादः कृष्णोरःस्थापि सुभटभुजवसतिः।
इन्दुः स च मृडचूडामणिरपि जगतामलङ्कारः॥ 2 ॥
आश्लिष्टभूमिं रसितारमुच्चैर्ललद्भुजाकारबृदहत्तरङ्गम्।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के॥ 3 ॥
नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते॥ 4 ॥
स्यादेव तोयममृतप्रकृतिर्यदि स्यान्नैकान्तमद्भुतमिदं पुनरद्भुतं नः।
लक्ष्मीतुषारकरकौस्तुभपारिजातधन्वन्तरिप्रभृतयो यदपां विवर्तः॥ 5 ॥
आकण्ठदृष्टशिरसाप्यभिभाव्यपृष्ठपार्श्वोदरेण चिरमृग्भिरुपास्यमानः।
नाभीसरोरुहजुषा चतुराननेन शेते किलात्र भगवानरविन्दनाभः॥ 6 ॥