१८ रथवेगवर्णनम्

आलिङ्गन्तो वसुधां निजखुरदलितामिवानुनेतुममी।
वदनविनिर्गतचरणा इव लक्ष्यन्ते जवादश्वाः॥ 1 ॥
उद्धूतपांशुपटलानुमितप्रबन्धधावत्खुराग्रचयचुम्बितभूमिभागाः।
निर्मथ्यमानजलधिध्वनिघोरघोषमेते रथं गगनसीम्नि वहन्ति वाहाः॥ 2 ॥
मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः।
वातोद्धतैरपि रजोभिरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः॥ 3 ॥
यदा लोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदन्तर्विच्छिन्नं भवति कृतसन्धानमिव तत्।
प्रकृत्या यद्वक्रं तदपि समरेखं नयनयोर्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथजवात्॥ 4 ॥
विच्छिन्ना रथचक्रपद्धतिरियं हेलाप्लुतैर्वाजिनामायान्तीव जवेन सम्मुखममी मार्गस्थिताः शाखिनः।
खेदं पादतलाहतेरिव पुरो गन्तुं गतो नेहते पादानामनुकूलमारुतभरोद्धूतोऽपि धूलिव्रजः॥ 5 ॥
अग्रे यान्ति रथस्य रेणुवदमी चूर्णीभवन्तो घनाश्चक्रभ्रान्तिररान्तरेषु जनयत्यन्यामिवारावलिम्।
चित्रन्यस्तमिवाचलं हयशिरस्यायामवच्चामरं यष्ट्यग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात्॥ 6 ॥