१७ राजसेवकः

राजसेवा मनुष्याणा1मसिधारा2वलेहनम्।
व्याघ्रीगात्रपरिष्वङ्गो 3व्यालीवदनचुम्बनम्॥ 1 ॥

सम्पत्तयः पराधीनाः सदा चित्तमनिर्वृतम्।
स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः॥ 2 ॥
अन्तःपुराणां विहितव्यवस्थः पदे पदेऽहं स्खलितानि रक्षन्।
जरातुरः सम्प्रति दण्डनीत्या सर्वं नृपस्यानुकरोमि वृत्तम्॥ 3 ॥
अशुभपुषि कलावप्यप्रमत्ताः स्वधर्मादनुदिनमुपकारानाचरन्ते बुधानाम्।
बहुजनपरिपुष्टा बद्धदीक्षास्त एते तनुसुखमपि हित्वा तन्वते राजसेवाम्॥ 4 ॥
नैषां सन्ध्याविधिरविकलो नाच्युतार्चापि साङ्गा न स्वे काले हवननियमो नापि वेदार्थचिन्ता।
न क्षुद्वेलानियतमशनं नापि निद्रावकाशो न द्वौ लोकावपि तनुभृतां राजसेवापराणाम्॥ 5 ॥
सर्वः 4कल्ये वयसि यतते लब्धुमर्थान्कुटुम्बी पश्चात्पुत्रैरुपहितभरः 5कल्पते विश्रमाय।
अस्माकं तु प्रतिदिनमियं सादयन्ती प्रतिष्ठां सेवाकाकुः परिणतिरभूत्स्त्रीषु कष्टोऽधिकारः॥ 6 ॥

नोच्चैः सत्यपि चक्षुषीक्षितुमलं श्रुत्वापि नाकर्णितं शक्तेनाप्यधिकार इत्यधिकृता यष्टिः समालम्ब्यते।
सर्वत्र स्खलितेषु दत्तमनसा यातं मया नोद्धतं सेवास्वीकृतजीवितस्य जरसा किं नाम यन्मे कृतम्॥ 7 ॥
भेतव्यं नृपतेस्ततः सचिवतो राज्ञस्ततो वल्लभादन्येभ्यश्च भवन्ति येऽस्य भवने लब्धप्रसादाविटाः।
दैन्यादुन्मुखदर्शनापलपनैः पिण्डार्थमायस्यतः सेवां लाघवकारिणीं कृतधियः स्थाने श्ववृत्तिं विदुः॥ 8 ॥
अप्राज्ञेन च कातरेण च गुणः स्याद्भक्तियुक्तेन कः प्रज्ञाविक्रमशालिनोऽपि हि भवेत्किं भक्तिहीनात्फलम्।
प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे सम्पत्सु चापत्सु च॥ 9 ॥


  1. खड्गधारा. ↩︎

  2. जिह्वया घट्टनम्. ↩︎

  3. सर्पिणी. ↩︎

  4. प्रथमे. ↩︎

  5. योग्यो भवति. ↩︎