परैः सम्भुज्यते राज्यं स्वयं पापस्य भाजनम्।
धर्मातिक्रमतो राजा सिंहो हस्तिवधादिव॥ 1 ॥
औत्सुक्यमात्रम1वसादयति 2प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव।
नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम्॥ 2 ॥
परार्थानुष्ठाने जडयति नृपं स्वार्थपरता परित्यक्तस्वार्थो नियतमयथार्थः क्षितिपतिः।
परार्थश्चेत्स्वार्थादभिमततरो हन्ति परवान्परायत्तः प्रीतेः कथमिव रसं वेत्तु पुरुषः॥ 3 ॥
भयं तावत्सेव्यादभिनिविशते सेवकजनं ततः 3प्रत्यासन्नाद्भवति हृदयेष्वेव निहितम्।
अतोऽध्यारूढानां4 पद5मसुजनद्वेषजननं मतिः सोच्छ्राया6णां पतनमनुकूलं7 कलयति॥ 4 ॥
8छन्नं कार्यमुपक्षिपन्ति 9पुरुषा न्यायेन दूरीकृतं स्वान्दोषान्कथयन्ति नाधिकरणे रागाभिभूताः स्वयम्।
तैः पक्षापरपक्षवर्धितबलैर्दोषैर्नृपः स्पृश्यते सङ्क्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः॥ 5 ॥