१५ कीर्तिप्रतापौ

रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः।
भूमौ प्रतापयशसी सृष्टवान्सततोदिते॥ 1 ॥
मलिनयितुं खलवदनं विमलयति जगन्ति देव कीर्तिस्ते।
मित्त्राह्लादं1 कर्तुं 2मित्त्राय द्रुह्यति प्रतापोऽपि॥ 2 ॥

सिन्दूरं सीमन्तात्स्मितं मुखाद्वैरिराजवनितानाम्।
यस्य प्रतापयशशी हरतः स्म सदृग्गुणासहने॥ 3 ॥
तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा।
तनोति भानोः 3परिवेषकैत4वात्तदा विधिः 5कुण्डलनां विधोरपि॥ 4 ॥

कीर्त्यास्य चन्द्रकरकोमलयातिशुभ्रं शोणं नवार्ककिरणप्रतिमप्रतापैः।
श्यामद्युति द्विषदकीर्तिमषीभिरित्थं चित्रं तदाम्बरमराजत दिग्वधूनाम्॥ 5 ॥
क्षितिप किमपि चित्रं जागरूकेऽपि युष्मद्यशसि शशिकदम्बे त्वत्प्रतापेऽर्कबिम्बे।
नयनकुवलयानि त्वद्द्विषत्कामिनीनामपि च वदनपद्मान्याशु यत्सङ्कुचन्ति॥ 6 ॥
गुणागारे गौरे यशसि परिपूर्णे विलसति प्रतापो वा भिन्नान्दहति तव भूमीन्द्रतिलक।
नवैव द्रव्याणीत्यकथयदहो मूढतमधीश्चतुर्धा तेजोऽपि व्यभजत कणादः कथमसौ॥ 7 ॥
कीर्तिस्वर्गतरङ्गिणीभिरभितो वैकुण्ठमाप्लावितं क्षोणीनाथ तव प्रतापतपनैः सन्तापितः क्षीरधिः।
इत्येवं दयितायुगेन हरिणा त्वं याचितः स्वाश्रयं हृत्पद्मं हरये श्रिये स्वभवनं कण्ठं गिरे दत्तवान्॥ 8 ॥
भूशक्रस्य यशांसि विक्रमभरेणोपार्जितानि क्रमादेतस्य स्तुमहे महेभदशनस्पर्धीनि कैरक्षरैः।
लिम्पद्भिः6 कृतकं1 कृतोऽपि रजतं राज्ञां यशःपारदैरस्य स्वर्णगिरिः प्रतापदहनैः2 स्वर्णं पुनर्निर्मितः॥ 9 ॥


  1. सुहृत्. ↩︎ ↩︎

  2. सूर्याय. ↩︎ ↩︎

  3. परिधिः. ↩︎

  4. छलात्. ↩︎

  5. कुण्डलनां वैयर्थ्यसूचिकां रेखावेष्टनाम्. ↩︎

  6. रञ्जद्भिः. ↩︎