१४ कीर्तिवर्णनम्

राजन्स्त्वत्कीर्तिचन्द्रेण तिथयः पूर्णिमाः कृताः।
मद्गेहान्न बहिर्याति तिथिरेकादशी भयात्॥ 1 ॥
अस्थिवाद्दधिवच्चैव कुष्ठवत्पिष्टवत्तथा।
राजन्स्तव यशो भाति शरच्चन्द्रमरीचिवत्॥ 2 ॥
सरस्वती स्थिता वक्त्रे लक्ष्मीर्वेश्मनि ते स्थिता।
कीर्तिः किं कुपिता राजन्येन देशान्तरं गता॥ 3 ॥
यद्गुणैर्ग्रथितैः शुद्धैरमितैर्ब्रह्मगोलकः।
विधत्ते कीर्तिकन्यायाः क्रीडाकन्दुककौशलम्॥ 4 ॥
सिक्तं स्फटिककुम्भान्तः स्थितं श्वेतीकृतैर्जलैः।
मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः॥ 5 ॥
अहो विशालं भूपाल भुवनत्रितयोदरम्।
भाति 1मातुमशक्योऽपि यशोराशिर्यदत्र ते॥ 6 ॥

त्वत्कीर्तिराजहंस्या वैरिवधूवदनभाजनस्थमपि।
पीतं हासक्षीरं व्यक्तीकृतमश्रुनीरं च॥ 7 ॥
कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने।
क्षितिपाल कीर्तयस्ते हारन्ति हरन्ति हीरन्ति॥ 8 ॥
रजनीषु विमलभानोः करजालेन प्रकाशितं वीर।
धवलयति भुवनमण्डलमखिलं तव कीर्तिसन्ततिः सततम्॥ 9 ॥
दूरेऽपि श्रुत्वा भवदीयकीर्तिं कर्णौ हि तृप्तौ न च चक्षुषी मे।
तयोर्विवादं परिहर्तुकामः समागतोऽहं तव दर्शनाय॥ 10 ॥
आकर्ण्य भूपाल यशस्त्वदीयं विधू2नयन्तीह न के शिरांसि।
विश्वं3भराभङ्गभयेन धात्रा नाकारि कर्णौ 4भुजगेश्वरस्य॥ 11 ॥

यस्याञ्जनश्यामलखड्गपट्टजातानि जाने धवलत्वमापुः।
अरातिनारीशरकाण्डपाण्डुगण्डस्थलीनिर्लुठनाद्यशांसि॥ 12 ॥
यः कोटिहोमानलधूमजालैर्मलीमसीकृत्य दिशां मुखानि।
तत्कीर्तिभिः क्षालयति स्म शश्वदखण्डतारापतिपाण्डुराभिः॥ 13 ॥
इयं यशांसि द्विषतः सुधारुचः किमङ्कमेतद्द्विषतः किमाननम्।
यशोभिरस्याखिललोकधाविभिर्विभीषिता धावति तामसी मसी॥ 14 ॥
अदः समित्सम्मुखवीरयौवत5त्रुटद्भुजाक6म्बुमृणालहारिणी।
द्विषद्गणस्त्रैणदृगम्बुनिर्झरे यशोमरालावलिरस्य खेलति॥ 15 ॥

अनिःसरन्तीमपि देहगर्भात्कीर्तिः परेषामसतीं वदन्ति।
स्वैरं चरन्तीमपि च त्रिलोक्यां त्वत्कीर्तिमाहुः कवयः सतीं नु॥ 16 ॥
करवालकरालवारिधारा यमुना दिव्यतरङ्गिणी च कीर्तिः।
तव कामद तीर्थराज दूरादनुबध्नाति सरस्वती कवीनाम्॥ 17 ॥
त्रिजगदङ्गनलङ्घनजाङ्घिकैस्तव यशोभिरतीव पवित्रिताः।
प्रथमपार्थिवपुङ्गवकीर्तयो विबुधसिन्धुजलैरिव सिन्धवः॥ 18 ॥
त्वत्कीर्तिमौक्तिकफलानि गुणैस्त्वदीयैः सन्दर्भितुं विबुधवामदृशः प्रवृत्ताः।
नान्तो गुणेषु च कीर्तिषु रन्ध्रलेशो हारो न जात इति ताश्च मिथो हसन्ति॥ 19 ॥
पृथ्वीपते शुभमते भवतो भवस्य ब्रूमो वयं सुयशसा कियदन्तरं वा।
गौरीं चकार गिरिशो निजमर्धमङ्गं गौरीकृतं च भवता भुवनं समस्तम्॥ 20 ॥
कीर्तिस्तव क्षितिप याति 1भुजङ्गगेहं 2मातङ्गसङ्गमकरी च 3दिगन्तकेषु।
त्यक्त्वाम्ब4रं भजति 5नन्दनमप्य6गम्यं किं किं करोति न निरर्ग7लतां गता स्त्री॥ 21 ॥

निर्मुक्तशेषधवलैरचलेन्द्रमन्थसङ्क्षुब्धदुग्धमयसागरगर्भगौरैः।
राजन्निदं बहुलपक्षदलन्मृगाङ्कच्छेदोज्ज्वलैस्तव यशोभिरशोभि विश्वम्॥ 22 ॥
प्रतिनगरमटन्ती प्रत्यगारं व्रजन्ती प्रतिनरपतिवक्षःकण्ठपीठे लुठन्ती।
गिरिगरिमनितम्बाच्छादने सावधाना तदपि च तव कीर्तिर्निर्मलैवेति चित्रम्॥ 23 ॥
त्यजसि यदपि लक्ष्मीं कीर्तिमासाद्य दानैर्व्रजति तदपि कीर्तिः सिन्धुपारं न लक्ष्मीः।
कथय क इह हेतुर्नारवेश त्वदीये वसति हृदयपद्मे नन्दसूनुर्मुरारिः॥ 24 ॥
अनुक्षणमनुक्षणं क्षितिप रक्ष्यमाणा त्वया प्रयाति विदिशो दश प्रबलकीर्तिरेकाकिनी।
इयं नियतमर्थिषु प्रतिदिनं वितीर्णा रमा जहाति न तवान्तिकं द्वितयमेतदत्यद्भुतम्॥ 25 ॥
समुन्नतघनस्तनस्तबकचुम्बितुम्बीफलक्वणन्मधुरवीणया विबुधलोकवामभ्रुवा।
त्वदीयमुपगीयते हरकिरीटकोटिस्फुरत्तुषारकरकन्दलीकिरमपूरगौरं यशः॥ 26 ॥
वनेषु वनदेवता दिवि दिवौकसां वल्लभा भुजङ्गकुलकन्यका भुजगलोकलीलावने।
यशः समरसञ्चितं नरमृगेन्द्र गायन्ति ते प्रभाविजितकौमुदीकुमुदपाण्डुताडम्बरम्॥ 27 ॥
8अपायि 9मुनिना पुरा पुनरमायि10 मर्यादया 11अतारि 12कपिना पुरा पुनरदाहि लङ्कारिणा।
13अमन्थि मुरवैरिणा पुनरबन्धि14 लङ्कारिणा क्व नाम वसुधापते तव यशोम्बुधिः क्वाम्बुधिः॥ 28 ॥

महाराज श्रीमञ्जगति यशसा ते धवलिते पयः15पारावारं 16परमपुरुषोऽयं मृगयते।
17कपर्दी कैलासं 18सुरपतिरपि स्वं 19करिवरं 20कलानाथं राहुः 21कमलभवनो हंसमधुना22॥ 29 ॥

23कुविन्दस्त्वं तावत्प24टयसि 1गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च 2नग्नास्तव विभो।
शरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभग तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह॥ 30 ॥

पतत्येतत्तेजोहुतभुजि कदाचिद्यदि तदा पतङ्गः स्यादङ्कीकृततमपतङ्गापदुदयः।
यशोऽमुष्येवोपार्जयितुमसमर्थेन विधिना कथञ्चित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः॥ 31 ॥
इन्दोर्लक्ष्म3 त्रिपुरजयिनः कण्ठमूलं मुरारिर्दिङ्ना4गानां मदजलमषीभाञ्जि5 गण्डस्थलानि।
अद्याप्युर्वीलयतिलक 6श्यामलिम्नानुलिप्तान्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः॥ 32 ॥

किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थस्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः।
गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्यामुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्तिः॥ 33 ॥
कैलासस्य प्रथमशिखरे वेणुसम्मूर्च्छनाभिः श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम्।
स्रस्तापाङ्गाः सरसबिसिनीकाण्डसञ्जातशङ्का दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति॥ 34 ॥
7अध्याहार स्मरहरशिरश्चन्द्रशेषस्य शेषस्याहेर्भूयः फणसमुचितः काययष्टीनिकायः8
दुग्धाम्भोधेर्मुनिचुलुकनत्रासनाशाभ्युपायः 9कायव्यूहः क्व जगति न जागर्त्यदः कीर्तिपूरः॥ 35 ॥

कथमवनिप दर्पो यन्निशातासिधारादलनगलितमूर्धां विद्विषां स्वीकृता श्रीः।
ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः॥ 36 ॥
समिति पतिनिपाताकर्णनद्रा10गदीर्णप्रतिनृपतिमृगाक्षीलक्षवक्षः-शिलाशु।
लिखितलिपिरिवोरस्ताडनव्यस्तहस्तप्रखरनखरटङ्कैरस्य कीर्तिप्रशस्तिः॥ 37 ॥

सुसितवसनालङ्कारायां कदाचन कौमुदीमहसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः॥ 38 ॥
देव त्वद्यशसि प्रसर्पति जगल्लक्ष्मीसुधोच्चैःश्रवश्चन्द्रैरावणकौस्तुभाः स्थितिमिवामन्यन्त दुग्धाम्बुधौ।
किं त्वेकः पुनरस्ति दूषणकणो यन्नोपयाति भ्रमात्कृष्णं श्रीः शितिकण्ठमद्रितनया नीला11म्बरं रेवती॥ 39 ॥

इन्दुं निन्दति चन्दनं न सहते मल्लीस्रजं नेक्षते हारं द्वेष्टि सिताब्जमुज्झति बिसस्तोमं विगृह्णाति च।
श्रीभूपाल महीधरेष विपिनेष्वम्भोधितीरेषु च त्वत्कीर्तिस्त्वदरिप्रिया च विलसत्युच्चैः स्फुरत्पाण्डिमा॥ 40 ॥
इन्दुं निन्दति चन्दनं न सहते विद्वेष्टि पङ्केरुहं हारं भारसवैति नैव कुरुते कर्पूरपूरे मनः।
स्वर्गङ्गामवगाहते हिमगिरिं गाढं समालिङ्गते त्वत्कीर्तिर्विरहातुरेव न मनागेकत्र विश्राम्यति॥ 41 ॥
यस्य क्षोणिपतेर्विहायसि यशोराशौ चमत्कुर्वति द्राक्कर्पूररजोभ्रमेण वणिजो वीथीमुपस्कुर्वते।
चञ्चुं चञ्चलयन्ति चन्द्रकिरणभ्रान्त्या चकोराः पयोबुद्ध्या व्योम्नि नियोजयन्ति कलशीमानीय वामभ्रुवः॥ 42 ॥
कर्पूरादपि केतकादपि दलत्कुन्दादपि स्वर्णदीकल्लोलादपि कैरवादपि चलत्कान्तादृगन्तादपि।
दूरोन्मुक्तकलङ्कशङ्करशिरःशीताम्शुखण्डादपि श्वेताभिस्तव कीर्तिभिर्धवलिता सप्तार्णवा मेदिनी॥ 43 ॥
देव त्वद्यशसा सदा सुमहसा गीर्वाणवृन्देऽखिले शम्भोर्भावमवापिते तु सहसा यत्कौतुकं तच्छृणु।
साकूताः सकुतूहलाः सचकिताः सोत्कण्ठिताः साद्भुताः साशङ्काश्च मुहुर्मुहुर्मधुरिपौ लक्ष्म्या दृशः पातितः॥ 44 ॥
किं शीताम्शुमरीचयः किमु सुरस्रोतस्विनीवीचयः किंवा केतकसूचयः किमथवा चन्द्रोपलानां चयः।
इत्थं जातकुतूहलाभिरभितः सानन्दमालोकिताः कान्ताभिस्त्रिदिवौकसां दिशि दिशि क्रीडन्ति यत्कीर्तयः॥ 45 ॥
श्रीमद्राजशिखामणे तुलयितुं धाता त्वदीयं यशः कैलासं च निरीक्ष्य तत्र लघुतां निक्षिप्तवान्पूर्तये।
उक्षाणं तदुपर्यमासहचरं तन्मूर्घ्नि गङ्गाजलं तस्याग्रे फणिपुङ्गवं तदुपरि स्फारं सुधादीधितिम्॥ 46 ॥
भारत्या वदनं श्रिया च सदनं श्रीकण्ठभक्त्या मनो धर्मेण श्रवणौ परैश्च चरणौ शौर्येण बाहुद्वयम्।
दानेनापि करौ समीक्ष्य सकलं यस्याज्ञया भूतलं स्थातुं चानवकाशतां कथयितुं कीर्तिस्तु दूरं गता॥ 47 ॥
अस्योर्वीरमणस्य पार्वणविधुद्वैराज्यसज्जं1 यशः सर्वाङ्गोज्ज्वलशर्व2पर्वतसितश्रीग3र्वनिर्वासि यत्।
तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियः 4पर्यायः किमु दुग्धसिन्धुपयसां 5सर्वानुवादः किमु॥ 48 ॥

(1. सन्नद्धम्.)?

कर्पूरन्ति सुधाद्रवन्ति कमलाहासन्ति हंसन्ति च प्रालेयन्ति हिमालयन्ति करकासारन्ति हारन्ति च।
त्रैलोक्याङ्गनरङ्गलङ्घ्रिमगतिप्रागल्भ्यसम्भाविताः शीतांशोः किरमच्छटा इव जयन्त्येतर्हि तत्कीर्तयः॥ 49 ॥
किं चित्रं भुवनानि पावयति यद्यच्चाहितानां यशो हंसान्मज्जयति प्रतापदहनं निर्वापयत्याशु यत्।
आश्चर्यं नृपनायकस्य भवतो यत्कीर्तिमन्दाकिनी तानारोहति भूधराञ्जलनिधीनुल्लङ्घ्य गच्छत्यपि॥ 50 ॥
अर्धाङ्गाहितपौर्वकीर्तिवनितादीव्यत्सितांशुप्रभं कैलासीकृतदिक्करीन्द्रशिरसि न्यस्तस्वपादाम्बुजम्।
विश्वव्याप्यविनाशि शङ्करपदं यायात्त्वदीयं यशो न स्यादस्य यदि क्षितीश भवतो दानादिकेभ्यो जनिः॥ 51 ॥
कृत्वा मेरुमुलूखलं प्रहसता वृन्देन दिग्योषितां स्वर्गङ्गामुशलेन शालय इव त्वत्कीर्तयः कण्डिताः।
तासां राशिरसौ तुषारशिखरी तारागणास्तत्कणाः किं चान्यच्छशिखण्डशूर्पविसरज्ज्योत्स्नाश्च तत्पांसवः॥ 52 ॥
कैलासीयति कैरवीयति लसत्कर्पूरपुञ्जीयति क्षीरोदीयति मौक्तिकीयति नभोगङ्गातरङ्गीयति।
हंसौघीयति मानसीयति शरन्मेघीयति क्षोणिभृन्नाथीयत्यमृतीयति क्षितितले देव त्वदीयं यशः॥ 53 ॥
गङ्गीयत्यसितापगा फणिगणं शेषीयति श्रीपतिः श्रीकण्ठीयति कैरवीयति कुलं नीलोत्पलानां 1वने।
कर्पूरीयति कज्जलं पिककुलं लीलामरालीयति 2स्वःकुम्भीयति 3कुम्भिनामपि घटा त्वत्कीर्तिसङ्घट्टतः॥ 54 ॥

पूर्णेन्दुः करकन्दुको हिमगिरिः क्रीडाविहारस्थली क्षीराब्धिर्गृहदीर्घिका प्रियसखी वाचां पतिर्देवता4
शय्या दिग्गजराजदन्तवलभी त्व5त्कीर्तिकन्याकृते 6पाञ्चालीमिथुनं व्यधायि विधिना गौरीगिरीशावपि॥ 55 ॥

7शत्रुक्षत्रकलत्रनेत्रसलिलैर्ज8म्बालजालस्पृशि भ्रान्त्या भूपतिभालभूषण भवत्कीर्तिर्भुवो मण्डले।
यद्यान्ती विबुधालयं प्रति सुधाकुण्डे सुधाम्शोर्व्यधा9दङ्घ्रिक्षालनमित्ययं किल मलस्तस्मिन्गतः स्मेरताम्॥ 56 ॥

एतत्कीर्तिवि10वर्तधौतनिखिलत्रैलोक्यनि11र्वासितैर्विश्रान्तिः कलिता कथासु 12जरतां श्यामैः13 समग्रैरपि।
जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तिः पुनः सा यन्नास्य कथापथेऽपि मलिनच्छाया बबन्ध स्थितिम्॥ 57 ॥

त्वत्तेजःप्रतिभाभयादपसृताः प्रत्यर्थिभूभृत्स्त्रियः कान्तारे घनकण्टकिद्रुमवनव्यस्तप्रयुक्ताम्बराः।
आर्याणां पुरतस्त्रपापरवशा गच्छेयुरेताः कथं क्षौमाकारतया न चेत्परिणमेत्तत्तावकीनं यशः॥ 58 ॥
चन्द्रश्चन्दनमिन्दुरिन्दुरमणं पीयूषमीशादयो विश्वस्योपकृतावनेन महता ते तेऽवतारा धृताः।
एतद्यत्र न विद्यते त्रिभुवने न स्थानमेवं विधं जाने जङ्गमपारिजातसगुणं ब्रह्मेव पूर्वं यशः॥ 59 ॥
चन्द्राद्रूप्यकमण्डलोः समुदयद्गौरांशुगङ्गाजलैर्ज्योत्स्नाचन्दनचर्चनैर्विकसितैस्ताराप्रसूनैरपि।
एतद्विष्णुपदं किमञ्चति भवत्कीर्तिर्महायोगिनी पूजामूर्तिविधायि लक्ष्म तुलसीदाम्ना कदान्विष्यति॥ 60 ॥
गङ्गासागरसङ्गमे कृतशतस्नाना बदर्याश्रमे स्थित्वासौ परिधाय तद्गुणमयं श्वेतं दुकूलं पुनः।
ब्राह्मं वैष्णवमैन्द्रमैश्वरमपि स्थानं स्पृशन्ती मुहुः कीर्तिस्ते पतिदेवता युगशतं दीर्घायुराकाङ्क्षति॥ 61 ॥
अर्घायाम्बुधिरिन्दुमण्डलमपि श्रीचन्दनं तण्डुलास्तारा बिल्वदलं नभः सुरधुनी धूपः प्रदीपो रविः।
खेटाः पञ्चफलानि किञ्च ककुभस्ताम्बूलमारार्तिकं मेरुः श्रीजगतीपते तव 1यशो यागेश्वरस्यार्चने॥ 62 ॥

देव क्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषस्त्वत्कीर्तेस्तुलनां कलङ्कमलिनो धत्ते कथं चन्द्रमाः।
स्यादेवं त्वदरातिसौधवलभीप्रोद्भूतदूर्वाङ्कुरग्रासव्यग्रमतिः पतेद्यदि पुनस्तस्याङ्कशायी मृगः॥ 63 ॥
भोगीन्द्रः प्रमदोत्तरङ्गमुरगीसङ्गीतगोष्ठीषु ते कीर्तिं देव शृणोति विंशतिशति यच्चक्षुषां वर्तते।
रक्ताभिः सुरसुन्दरीभिरभितो गीतं च कर्णद्वयीदुःस्थः श्रोष्यति नाम किं स हि सहस्राक्षो न चक्षुःश्रवाः॥ 64 ॥
गीयन्ते यदि पन्नगीभिरनिशं त्वत्कीर्तयस्तद्वयं तुष्टा एव परन्तु चेतसि चमत्कारोऽयमारोहति।
तासां तादृशभावभङ्गचलनासंस्थानसन्दर्शिनि व्यालेन्द्रेऽप्यवधूतमूर्धनि महीचक्रं पुनर्भ्राम्यति॥ 65 ॥
यद्गन्धद्विपदानवारिभिरभूत्सङ्ग्रामभूः पङ्किला तस्यां वैरिकरीन्द्र मौक्तिकमयं बीजं च येनाहितम्।
तस्मात्प्रादुरभूद्यशस्तरुरयं तस्योद्गताः कोरकास्तारास्तेषु च पूर्णचन्द्रकपटादेकैक उज्जृम्भते॥ 66 ॥
यत्कीर्तिर्वलयं भुवः सुविमलं सम्पाद्य सञ्चारतः क्रान्त्वा मेरुगिरिं विधाय सरितां नाथस्य सख्यं दृढम्।
आराध्यामृतभानुशेखरमलं सम्पाद्य तद्रूपतां गच्छन्ती त्रिदशालयं द्रुतगतिः शीताम्शुना स्पर्धते॥ 67 ॥
शैलूषी तव कीर्तिरद्भुतकरी दृष्ट्वा समस्ता दिशो मेरुं वंशवरं परीत्य परितस्तूर्णं समारुह्य तम्।
भ्राम्यन्ती परितः प्रनर्तिततनुर्मुक्तावलीमौक्तिकैस्ताराभिस्तरलीकरोति गगनं भूमण्डलाखण्डल॥ 68 ॥
त्वत्कीर्तिः शशिनः समीपमगमत्कान्तिप्रतिस्पर्धया दृष्ट्वा तं च कलङ्किनं पुनरसौ स्नातुं जगामाम्बुधिम्।
श्रुत्वा तं च घटोद्भवेन मुनिना पीतोज्झितं तत्पयः पुण्यं ब्रह्मकमण्डलुं कलयितुं ब्रह्माण्डमन्यं ययौ॥ 69 ॥
कैलासीयति केतकीयति हसत्कुन्दीयति प्रोच्छलत्क्षीरोदीयति चन्दनीयति लसत्कर्पूरपूरीयति।
पीयूषीयति शर्करीयति शरच्चन्द्रीयति क्ष्मापते स्वर्गङ्गीयति शङ्करीयति भवत्कीर्तिः करीन्द्रीयति॥ 70 ॥
विश्वासो भवता यशस्यपि निजे कार्यो न शौर्याधिके मा कोशादिवशान्नपुंसकमिति ज्ञात्वावहेलां कृथाः।
यज्जङ्घालधुरन्धरेण धरणी नाथ द्विधा कुर्वता ब्रह्माण्डं विदधेऽमुना भवदरिक्षोणीभुजां निर्गमः॥ 71 ॥
रिङ्गत्तुङ्गतरङ्गसुन्दरसुधासिन्धुं तरत्युज्ज्वला रागाच्छर्वपुरः- सरानभिसभं देवान्मुदालिङ्गति।
क्रूराहीश्वरमाश्लिषत्यधिगृहं याति ध्रुवं भूपते साध्वीशब्दरता तथापि कुतुकं कीर्तिः प्रभक्ता क्षितौ॥ 72 ॥
कस्तूरी सितिमानमागतवती शौक्ल्यं गताः कुन्तला नीलं चोलमभूत्सितं धवलिमा जातां मणीनां गणे।
ध्वान्तं शान्तमभूत्समं नरपते त्वत्कीर्तिचन्द्रोदये त्रैलोक्येऽप्यभिसारसाहसरसः शान्तः कुरङ्गीदृशाम्॥ 73 ॥
स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदपूरोदरच्छायाहारिणि वारिणि द्युसरितो दिक्पूरविस्तारिणि।
आस्ते ते कलिकालकल्मषमषीप्रक्षालनैकक्षमा कीर्तिः सन्निहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी॥ 74 ॥
क्षीरोदीयन्ति सद्यः सकलजलधयो वासुकीयन्ति नागाः कैलासीयन्ति शैला दिवि च दिविषदः शङ्करीयन्ति सर्वे।
यौष्माकीणे समन्तात्प्रचलति धवले चारुकीर्तिप्रताने मद्योषाकाचभूषाः किमिति न सहसा मौक्तिकीयन्ति देव॥ 75 ॥
उद्यद्बालाङ्कुरश्रीर्दिशि दिशि दशनैरेभिराशागजानां रोहन्मूलासुगौरैरुरगपतिफणैरत्र पातालकुक्षौ।
अस्मिन्नाकाशदेशे विकसितकुसुमा राशिभिस्तारकाणां नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिम्बमिन्दोः सुधाब्धिम्॥ 76 ॥
वापी पातालमूलं जलमुरगनदी कच्छपः स्वच्छकन्दः शेषो नालं दलानां विततिरपि फणाः कर्णिका शैवशैलः।
तारास्ताराः परागा मधु च मधुमती केसरा दन्तिदन्तास्तस्मिंस्त्वत्कीर्तिपद्मे भ्रमति मधुकरः शर्वरी सार्वभौमः॥ 77 ॥
नेपालीनामराले विरचयति कचे केतकीपत्त्रकृत्यं कण्ठे मुक्ताकलापान्द्विगुणयति सितान्पाण्ड्यसीमन्तिनीनाम्।
कर्णे कर्णाटिकानां प्रकटयतितमां दन्तताटङ्कलक्ष्मीं कार्पूरी पत्त्रवल्ली भवति तव यशो गण्डयोः केरलीनाम्॥ 78 ॥
लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासि यष्ट्यारिकण्टे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती।
तत्सक्तोऽयं न किञ्चिद्गणयति विदितं तेऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्गदितुमिति गतेवाम्बुधिं यस्य कीर्तिः॥ 79 ॥
शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्रीर्वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टनी खड्गयष्टिः।
आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम्॥ 80 ॥
अन्तः सन्तोषबाष्पैः 1स्थगयति न 2दृशस्ताभिराकर्णयिष्यन्नङ्गे3नानस्तिलोमा रचयति च पुलकश्रेणिमानन्दकन्दाम्।
न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मः शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति॥ 81 ॥

यावत्पौ4लस्त्यवास्तूभवदु5भयहरिल्लोमरेखोत्तरीये सेतुप्रालेयशैलौ चरति नरपतेस्तावदेतस्य कीर्तिः।
यावत्प्रा6क्प्रत्यगाशापरिवृढनगरारम्भणस्तम्भमुद्रावद्री7 सन्ध्यापताकारुचिरचितशिखाशोणशोभावुभौ च॥ 82 ॥

आस्ते 8दामोदरीयामियमुदरदरीं याधिशय्य त्रिलोकी सम्मातुं शक्तिमन्ति 9प्रथिमभरवशादत्र नैतद्यशांसि।
तामेतां पूरयित्वा निरगुरिव 10मधुध्वंसिनः 11पाण्डुपद्मछद्मापन्नानि तानि द्विपदशनसनाभीनि नाभीपथेन॥ 83 ॥

देव ब्रह्माण्डभाण्डे सदसि विकसितन्यायनान्दीनिनादैर्भूतेशप्रीतिहेतोर्भुवनधवलनं नाटकं नाटयन्त्याः।
त्वत्कीर्तेर्मूर्तयोऽमी कुसुदकुमुदिनीकान्तकर्पूरकुन्दक्षीराब्धिक्षीरमुक्तामणिविबुधसरित्तारकाशेषशङ्खाः॥ 84 ॥
बीजं चेदिन्द्रदन्तिस्फुरितगलतटीमुक्तमुक्तामणिः स्याच्चन्द्रश्चेदालवालं यदि भवति सुधावारिसेकीन्दुमौलिः।
तत्रोत्पन्ना लता काप्यमृतकरनिभं चेत्प्रसूनं प्रसूते मन्ये तत्स्यात्तदानीमवनिधव भवत्कीर्तिलेशोपमार्थम्॥ 85 ॥
दुग्धाम्भोधावगाधे विहरति सुधया क्षालयत्यङ्घ्रियुग्मं कृत्स्नां दुकूलं कलयति मलयोद्भूतचर्चां तनोति।
स्वच्छन्दं नृत्यति द्राग्भुजगपतिशिरस्येव निद्राति चन्द्रे त्वकीर्तिः स्वामिनीव त्रिजगति विहरत्येवमुर्वीश गुर्वी॥ 86 ॥
स्वर्गे कल्पद्रुमाधस्तव जयति यशः- पुञ्जयागेश्वरोऽयं यं नित्यं देवराजः स्नपयति नियतः कामधुग्दुग्धपूरैः।
यन्मौलौ बिल्वपत्त्रद्युतिमिदममलं व्योम धत्तेऽतिनीलं चन्द्रः पाटीरपङ्कं तदुपरि ललितास्तारकास्तण्डुलानि॥ 87 ॥
यत्कीर्तिः कापि गङ्गाखिलमलनिचयं नाशयन्ती गभीरं क्षीराब्धिं यत्प्रतापज्वलनकरगणैः शोषितं पूरयन्ती।
भूलोकस्यान्तरालस्फुरदतुलमहादुःखपापौघपङ्कं भूयः प्रक्षालयन्ती त्रिजगति महिता सौख्यमाविष्करोति॥ 88 ॥
तुङ्गब्रह्माण्डसिंहासनमिदमुदयच्चित्रमध्यास्य नित्यन्यञ्चद्दिव्यस्रवन्तीसितचमरचयं लालयन्दिग्वधूभिः।
राकाचन्द्रातपत्रं दिनकरमुकुटं ग्राहयल्ँलोकपालान्निर्जित्यैन्द्रं करीन्द्रं तव जयति यशश्चक्रवर्ती बघेल॥ 89 ॥
कालिन्दीनर्मदाम्भःस्रुतमदसलिलोत्सङ्गिनौ 1पुष्पवन्तौ बिभ्राणः कुम्भयुग्मं गगनतलगतः स्वर्धुनीपूरशुण्डः।
घण्टालः साधुवादैरनभिमतयशोमृन्मलं सन्दधानः कीर्तिस्तोमाभ्रकुम्भी जगदुदरसरः सम्भ्रमी बम्भ्रमीति॥ 90 ॥

स्फूर्जद्ब्रह्माण्डशुक्तौ तव भुजजलदोद्दामदानौघवर्षप्रोद्यत्त्वत्कीर्तिमुक्ताफलममलमहो वामकर्णे निधाय।
अन्यं तेनैव तुल्यं धरणिधरसुता प्रार्थयामास पत्यौ तस्यालाभेन मन्ये प्रभुरपि जगतामर्धनारीश्वरोऽभूत्॥ 91 ॥


  1. अपरिमितः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. कम्पयन्ति. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. पृथ्वी. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. शेषस्य. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. युवतिसमूहः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. शङ्खवलयानि. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. निष्प्रतिबन्धत्वम्. ↩︎ ↩︎ ↩︎ ↩︎

  8. पीतः. ↩︎ ↩︎ ↩︎ ↩︎

  9. अगस्तिना. ↩︎ ↩︎ ↩︎ ↩︎

  10. मितः. ↩︎ ↩︎ ↩︎ ↩︎

  11. तीर्णः. ↩︎ ↩︎ ↩︎ ↩︎

  12. हनुमता. ↩︎ ↩︎

  13. मथितः. ↩︎ ↩︎

  14. बद्धः. ↩︎

  15. क्षीरसमुद्रम्. ↩︎

  16. विष्णुः. ↩︎

  17. शिवः. ↩︎

  18. इन्द्रः. ↩︎

  19. ऐरावतम्. ↩︎

  20. चन्द्रम्. ↩︎

  21. विधिः. ↩︎

  22. यतः सर्वेषां समुद्राणां पर्वतानां गजानां सर्वभक्ष्याणां पक्षिणां च त्वच्छ्वेतकीर्त्या श्वेतत्वात्क्षीराब्ध्यादीनामनवगमस्तेषामतस्ते तान्सर्वत्रावलोकयन्तीति भावः. ↩︎

  23. तन्तुवायः; [पक्षे] कुं पृथिवीं विन्दति लभते सः. ↩︎

  24. पटं वस्त्रं करोषि; [पक्षे] पटुं करोषि. ↩︎