१३ प्रतापवर्णनम्

चित्रं तपति राजेन्द्र प्रतापतपनस्तव।
अनातपत्रमुत्सृज्य सातपत्रं द्विषद्गणम्॥ 1 ॥
राजन्सप्ताप्य1कूपारास्त्वत्प्रतापाग्निशोषिताः।
पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिताः॥ 2 ॥

दीपयन्रोदसीरन्ध्रमेष ज्वलति सर्वतः।
प्रतापस्तव राजेन्द्र वैरिवंशदवानलः॥ 3 ॥
त्वत्प्रतापानर्घहेमसम्पुटेऽतिमनोहरे।
ब्रह्माण्डशालिग्रामोऽसौ धराधीश विराजते॥ 4 ॥
तवारिनारीनयनाम्बुपूरं निपीय राजन्भ्रमति प्रतापः।
रिङ्गत्तरङ्गावलिनीरतुङ्गं यथा समुद्रं वडवाहुताशः॥ 5 ॥
त्वत्प्रतापतपनातपतप्तस्तीक्ष्णरश्मिरपि दिक्षु नितान्तम्।
धावति प्रतिदिनं मुकुटेश त्वद्यशोद्य पतितस्तुहिनांशुः॥ 6 ॥
उदितेऽपि तवावनीन्द्र तेजस्तपने स्फारगभस्तिभारभाजि।
तव वैरिनृपायशस्तमांसि स्फुरदुज्जृम्भितमाचरन्ति चित्रम्॥ 7 ॥
प्रत्यर्थिवामनयनानयनाम्बुपूरैः सद्यः स्खलद्बहलकज्जलजालनीलैः।
युष्मत्प्रतापतपनस्तपनाद्यवीयानारभ्यते यदमुना यमुनासहस्रम्॥ 8 ॥
मार्तण्डमण्डलसमं भवतः प्रतापं ये वर्णयन्ति नहि ते कवयः प्रवीणाः।
अम्भोनिधौ विलयमेति परं पतङ्गः पारं प्रयाति जलधेस्तु तव प्रतापः॥ 9 ॥
उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन 2जरठोर्जि3तगर्जितेन।
निर्वापितः सकल एव रणे रिपूणां धाराजलैस्त्रिजगति ज्वलितः प्रतापः॥ 10 ॥

वदन्तु देव तावकं प्रतापमेव पावकं महातुषारशीतलं वदामहे वयं यतः।
सुमेरुकन्दरोदरस्थितो गृहीतकम्बलस्तवारिवर्गपङ्कजः प्रकम्पते मुहुर्मुहुः॥ 11 ॥
अये नृपतिमण्डलीमुकुटरत्न युष्मद्भुजामहोष्मततिसञ्जुषा बत भवत्प्रतापार्चिषा।
द्विषामतिभृशं यशःप्रकटपारदो ध्मापनादुदस्फुटत तारकाकपटतो विहायस्तटे॥ 12 ॥
अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे तद्ब्रूमोऽद्भुतदर्शनेन रसना केषां न कण्डूयते।
देव त्वत्करुणप्रतापदहनज्वालावलीशोषिताः सर्वे वारिधयस्तवारिवनितानेत्राम्बुभिः पूरिताः॥ 13 ॥
देव त्वत्करुणप्रतापतपनत्रासादिव त्र्यम्बको नो गङ्गां विजहाति निःसरति न क्षीराम्बुधेर्माधवः।
ताम्यंस्तामरसान्तरालवसतिर्देवः स्वयम्भूरभूत्पातालावधिपङ्कमग्नवपुषस्तिष्ठन्ति कूर्मादयः॥ 14 ॥
अब्दैर्वारिजिघृक्षयार्णवगतैः साकं व्रजन्ती मुहुः संसर्गाद्वडवानलस्य समभूदापन्नसत्त्वा तडित्।
मन्ये देव तया क्रमेण जनितो युष्मत्प्रतापानलो येनारातिवधूविलोचनजलैः सिक्तोऽपि 4सम्वर्धते॥ 15 ॥

देव त्वद्भुजदण्डदर्पगरिमोद्गीर्णप्रतापानलज्वालापक्रिमकीर्तिपारदघटीविस्फारिता बिन्दवः।
शेषाहिः कति तारकाः कति कति क्षीरोदधिः कत्यपि प्रालेयाचलशङ्खशुक्तिकरकाः कर्पूरकुन्देन्दवः॥ 16 ॥
1भङ्गाकीर्तिमषीमलीमसतया प्रत्यर्थिसेनाभटश्रेणीतिन्दु2ककाननेषु विलसत्यस्य प्रतापानलः।
अस्मादुत्पतिताः3 स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं भालोद्भूतभवा5क्षिभानुहुतभुग्जम्भारिद6म्भोलयः॥ 17 ॥

तादृग्धीर्घविरिञ्चिवा7सरविधौ जानामि यत्कर्तृतां शङ्के यत्प्रतिबिम्बमाम्बुधिपयः पूरोदरे वाडवः।
व्योमव्यापिविपक्षराजकयशस्तारापराभावुकः कासामस्य न स प्रतापतपनः पारं गिरां गाहते॥ 18 ॥

शम्भुर्मानससन्निधौ सुरधुनीं मूर्ध्ना दधानः स्थितः श्रीकान्तश्चरणस्थितामपि वहन्नेतां निलीनोऽम्बुधौ।
मग्नः पङ्करुहे कमण्डलुगतामेनां दधन्नाभिभूर्मन्ये वीर तव प्रतापदहनं ज्ञात्वोल्बणं भाविनम्॥ 19 ॥
युष्मत्प्रौढतरप्रतापतपनज्वालावलीव्याकुले ब्रह्माण्डे मधुसूदनोऽहिशयने शेते पयःसागरे।
शम्भुर्जह्नुसुतां दधाति शिरसा भूमिस्तुषाराचलं तापव्याकुलितः पतत्यतितरां भानुः समुद्रे मुहुः॥ 20 ॥
नार्यः कुङ्कुमशङ्कया निटिलगं प्रोञ्छन्त्यपास्तद्विषां सान्ध्यं रागममुं विभाव्य गगने गच्छन्ति केलीगृहम्।
मुग्धा दावधियोऽरयस्तव विभो यान्ति द्रुतं कानने लाक्षाराग इति प्रकुप्यति धवे कान्ता प्रतापोदये॥ 21 ॥
यो नास्ताचलमस्तकं प्रति गतो दीनत्वमालम्बते यो नायाति निशासु संशयपदं नोदेति गिर्याश्रयात्।
यो राहोरपि कर्कशेषु दशनेष्वासीन्न वा गोचरः सोऽयं भूप तव प्रतापतपनो वर्वर्ति सर्वोपरि॥ 22 ॥
कान्तारे जलवृक्षवैरिणि मुहुस्त्वद्वैरिवामभ्रुवो बालैराकुललोचनैः प्रतिपदं रुद्धक्रमाश्चङ्कमे।
पृथ्वीचण्डरुचे पटच्चरदशासंघट्टदीप्तप्रभं सिञ्चन्त्यञ्जलिसञ्चिताश्रुभिरलं युष्मत्प्रतापानलम्॥ 23 ॥
अध्यायोधनवेदि मार्गणकुशानास्तीर्य खङ्गस्रुचा हुत्वारेः पललं चरुं हविरसृक्तन्मस्तकस्वस्तिकैः।
संवेष्ट्याहवनीयमानसदसिख्योऽसौ प्रतापानलोऽस्थापि द्रागुदकाञ्जलीकृतचतुःपाथोधिना श्रीमता॥ 24 ॥
देव त्वद्भुजदण्डचण्डिमचमत्कारिप्रतापानलज्वालाजालभयादिवाभिविशति क्षीराम्बुधिं माधवः।
भर्गः स्वर्गधुनीं दधाति शिरसा त्यक्तत्रिलोकीकृतिर्वेधा किन्तु मुहुः कमण्डलुजलैरात्मानमासिञ्चति॥ 25 ॥
श्रीमद्वीराधिवीर पृथुतरमहसस्त्वत्प्रतापाग्निकीला4च्छ्रुत्वाब्धेः शोषवार्तां शरणमनुगतः कुत्रचित्कश्चिदेव।
चन्द्रः कीर्त्यां सुधास्ये त्रिदशतरुवरः पाणिपद्मे च कोशे लक्ष्मीः 1क्ष्वेडं च कोपे जलधरकुसुमं वैरिकान्तादृगन्ते॥ 26 ॥

द्रागाक्रम्योदयाद्रिं चरमगिरिमतिस्पर्धया तिग्मरश्मेर्मेरुं पर्यट्य लङ्कानगरमुपगतः कौतुकात्त्वत्प्रतापः।
वीक्ष्यामुं वीतिहोत्रं पुनरपि विपदं देव निश्चिन्वतीनां यः क्षोभो राक्षसीनां क्षणमजनि स हि त्वद्द्विषां सर्वदास्ताम्॥ 27 ॥
त्वत्खङ्गाघातजातव्यथरिपुवनितामुक्तबाष्पाम्बुधारासारादारादुदाराद्दिशि दिशि सरतामुद्भवाश्चेद्भवेयुः।
कल्पान्तक्रूरकेलिप्रकरविजयिनो विस्फुरत्त्वत्प्रतापात्पारावारानपारानपि सपदि पराञ्शुष्यतः पूरयेत्कः॥ 28 ॥
दुर्वारारातिवाजीवनदवदहनः कौङ्कुमो दिग्वधूनां सर्वाङ्गीणोऽङ्गरागस्त्रिभुवनभवनध्वान्तविध्वंसदीपः।
त्वद्दोरुद्दामदर्वीकरमुखहुतभुग्भूतधात्रीपुरन्ध्र्या वासो माञ्जिष्ठमुर्वीरमणकुलमणे जागरीति प्रतापः॥ 29 ॥
भूजाने किं न जाने भवदतुलभुजभ्राजमानप्रतापज्योतिर्ज्वालावलीभिर्जलनिधिवलयं निर्जलं किं न भूयात्।
युष्मत्प्रत्यर्थिपृथ्वीपरिवृढवनितानीरनेत्रस्रवन्तीसूतस्रोतःसहस्रैरयमिह परितश्चेन्न पूर्येत सद्यः॥ 30 ॥


  1. समुद्राः. ↩︎ ↩︎ ↩︎

  2. कठिनम्. ↩︎ ↩︎

  3. ऊर्जस्वलम्. ↩︎ ↩︎

  4. अत्रायं भावः—वैरिस्त्रियः स्वभर्तृमरणाद्यथायथाधिकं रुदन्ति तथातथाधिकं तन्नेत्राम्बुभिस्त्वत्प्रतापाग्निः सम्वर्धते. त्वत्प्रतापोऽधिको भवतीति यावत्. यतः स प्रतापाग्निर्वडवानलात्पितुस्तडितश्च मातुः समुत्पन्नस्तौ च पितरौ पानीययोगादेवोज्जृम्भेतेऽतस्तत्पुत्रोऽपि त्वत्प्रतापो भवद्वैरिरमणीनेत्राम्बुभिः सिच्यमानो वृद्धिमाप्नोतीत्येतदुचितमेवेति. ↩︎ ↩︎

  5. हरनिटिलनेत्रम्. ↩︎

  6. कुलिशम्. ↩︎

  7. ‘चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते’ इति. ↩︎