१२ अरिपलायनम्

1सालकाननयुक्तापि 2सालकाननवर्जिता।
हारावरुद्धकण्ठापि विहा3रारिवधूस्तव॥ 1 ॥

विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः।
वृककाकशिवास्तत्र धावन्त्यरिपुरे तव॥ 2 ॥
स्वकान्तदवकान्तारो यद्वैरिसुदृशामभूत्।
जघनस्तनमुच्चैर्यो व्यलिखत्कण्टकैर्नखैः॥ 3 ॥
काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः।
निन्दन्ति विश्वधातारं त्वद्धाटीष्वरियोषितः॥ 4 ॥
वनेऽखिलकलासक्ताः परिहृत्य निजस्त्रियः।
त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम्॥ 5 ॥
वीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य।
न हरति वनभुवि निजकररुहरुचिख4चितानि पाण्डुपत्त्रधिया॥ 6 ॥

त्वद्वैरिणो वीर पलायितस्य प्रकाशयन्नक्तमरण्यमार्गान्।
कृशानुरासीदभिनन्दनीयस्तुङ्गेषु लग्नो रिपुमन्दिरेषु॥ 7 ॥
राजन्द्विषस्ते भयविद्रुतस्य भालस्थलं कण्टकिनो वनान्ताः।
अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि॥ 8 ॥
इतस्त्रसद्विद्रुतवैरिभूभृत्प्रियाथ दृष्टा वनमानवीजनैः।
शशंस पृष्टाद्भुतमात्मदेशे शीतद्विषः शीतलशीलतां किल॥ 9 ॥
समस्तावनीनाथमौले भवत्तः परास्ताद्विषः पद्मविस्तारिनेत्रा।
नितान्तं विहस्ता स्वहस्तारविन्दैर्विधत्ते पुरस्तादुरस्ताडनानि॥ 10 ॥
अलसभुजलताभिर्नादृतो नागरीभिर्भवनदमनकानां नातिथिर्वा बभूव।
त्वदरिनगरमध्ये सञ्चरन्श्चैत्रजन्मा जरदजगरपीतः क्षीयते गन्धवाहः॥ 11 ॥
त्वदरिनृपतिमाशावाससं धूलिधाराधवलमहह भिक्षुं वीक्ष्य भर्गभ्रमेण।
मुरभिदुदधिवेलाकाननं गाहमानो दिशति कुसुमबाणं दूरतो निर्गमाय॥ 12 ॥
त्वदरिनृपतिकेलीसौधसम्रूढदूर्वाङ्कुरकवलविलोलं वीक्ष्य 5रङ्कुं सुधाम्शोः।
उपवनहरिणीनामुन्नतो भ्रूलतानां प्रसरति रतिजानिग्लानिजन्मा विवर्तः॥ 13 ॥

वर्षासु भीतमवशाङ्घ्रिभुजं भुजङ्गमेकं निगृह्य शिरसि स्थितमञ्जनाभम्।
शून्ये तवारिनगरे शबरी सशङ्कमादित्सते कनकमुष्टिकृपाणलोभात्॥ 14 ॥
स्फुटतरमटवीनां प्रान्तरे पर्यटन्ती हरिहतगजकुम्भोन्मुक्तमुक्ताफलानि।
परिकरयति हस्ताम्भोजशोणप्रभाभिः परिहरति च दूरान्मञ्जु गुञ्जाभ्रमेण॥ 15 ॥
ये कन्दरासु निवसन्ति सदा हिमाद्रेस्त्वत्पातशङ्कितधियो विवशा द्विषस्ते।
अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो बत भियां न बुधोऽप्यभिज्ञः॥ 16 ॥
कुरुबक कुचाघातक्रीडासुखेन वियुज्यसे बकुलविटपिन्स्मर्तव्यं ते मुखासवसेचनम्।
चरणघटनावन्ध्यो यास्यस्यशोक सशोकतामिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः॥ 17 ॥
अनारतपरिस्खलन्नयनवारिधाराशतप्रवृद्धपथनिम्नगासलिलरुद्धयानोद्यमा।
त्वदीयरिपुकामिनी बहुविदेशयानैषिणी विनिन्दति वलद्दृशा गुरुरुषाश्रुषं प्रावृषम्॥ 18 ॥
इतश्चेतश्चाद्भिर्विघटिततटः सेतुरुदरे धरित्री दुर्लङ्घ्या बहुलहिमपङ्को गिरिरयम्।
इदानीं निर्वृत्ते करितुरगनीराजनविधौ न जाने यातारस्तव च रिपवः केन च पथा॥ 19 ॥
क्षणं कान्तागारप्रसरविलसन्मानसरतिः क्षणं शैलोत्सङ्गे द्विजकुलरवाकृष्टहृदयः।
क्षणं पत्त्रध्वानश्रुतिपुलकितो यद्भयभराद्धसन्प्राप्तोऽरण्ये रिपुरवनिपालस्थितिमिव॥ 20 ॥
अये मातस्तातः क्व गत इति यद्वैरिशिशुना दरीगेहे लीना निभृतमिह पृष्टा स्वजननी।
करेणास्यं तस्य द्रुतमथ निरुद्ध्याश्रुभृतया विनिश्वस्य स्फारं शिव शिव दृशैवोत्तरयति॥ 21 ॥
अपर्णेयं भूभृद्वनमटति वल्काम्बरधरा जटालो दिग्वासाः शिखरिणि शिवोऽयं निवसति।
इति भ्रान्त्यान्योन्यं क्षणमिलितयोः क्षोणितिलक द्विषद्दंपत्योस्ते शिव शिव शिवन्ति प्रणतयः॥ 22 ॥
पश्येत्कश्चिच्चलचपले रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि।
इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः कन्या कञ्चित्फलकिसलयान्याददानाभिधत्ते॥ 23 ॥
स्वल्पं ब्रूमः किमपि चरितं वीरवर्य त्वदीयं मिथ्यावादाः कवय इति नो दुःप्रवादो रुणद्धि।
मुक्ता मुक्ता मलयशिखरे त्वद्विपक्षावरोधैरण्डभ्रान्त्या भुजगललनाः सादरं पालयन्ति॥ 24 ॥
क्षोणीपाल त्वदरिहरिणीलोचना शोचमाना गुञ्जाहारं कुचकलशयोर्निःश्वसन्ती करोति।
क्षुभ्यत्क्षीराम्बुधिलहरिसंक्षोभिभिस्त्वद्यशोभिर्गौरं मुक्ताफलमयमिवाविन्दते नन्दतन्वा॥ 25 ॥
विमुञ्चति पदे पदे रुचिरचीरहारादिकं शुकं गृहसमुत्सुकं त्यजति चैव जीवाधिकम्।
पलायनपरायणा तव विभो रिपोरङ्गना मुहुर्वलितकन्धरं मिहिरमण्डलं वीक्षते॥ 26 ॥
धराधर तव द्विषां वनजुषां विहीनत्विषां दधे गुणनिधे धनुर्विगुणमप्यनेकं गुणम्।
फलाहरणयष्टिकाकरणकन्दरान्तःशिवानिवारणविहङ्गिकाकरणचुल्लिकाकर्षणैः॥ 27 ॥
राजन्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते।
इत्थं नाथ शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जराच्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते॥ 28 ॥
क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव1 गलद्बाष्पाम्बुधौताननाः।
भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनार्योऽधुना दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव॥ 29 ॥

तन्वीमुज्झितभूषणां कलगिरं रोमोद्गमं बिभ्रतीं वेपन्तीं व्रणिताधरां विवसनां सीत्कारमातन्वतीम्।
दोर्भ्यां चण्डतुषारपातसभयामालिङ्ग्य कण्ठे भृशं स्वां मूर्तिं दयितामिवातिरसिकां त्वद्विद्विषः शेरते॥ 30 ॥
भूसंपर्करजोनिपातमलिनाः स्वस्माद्गृहाप्रच्युताः सामान्यैरपि जन्तुभिः करतलैर्निःशङ्कमालिङ्गिताः।
संलग्नाः क्वचिदेकतामुपगताः क्वापि प्रबुद्धाः क्वचित्सुप्ताः क्वापि च सारिवत्प्रतिगृहं भ्रान्तास्तवारिस्त्रियः॥ 31 ॥
कर्षद्भिः सिचयाञ्चलान्यतिरसात्कुर्वद्भिरालिङ्गनं गृह्णानैः कचमालिहद्भिरधरं विभ्रामयद्भिः करौ।
प्रत्यक्षेऽपि भवद्विरोधिनृपतेरन्तःपुराणामहो धिक्कष्टं विटपैर्विटैरिव वने किं नाम नो चेष्टितम॥ 32 ॥
स्नाताः प्रावृषि वारिवाहपटलैः प्रोद्भूतदूर्वाङ्कुरव्याजेनात्तकुशाः प्रणालसलिलैर्दत्त्वा निवापाञ्जलीन्।
प्रासादास्तव विद्विषां परिपतत्कुड्यस्थपिण्डच्छलात्कुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाः॥ 33 ॥
मौलिं मानविधिं विना नमयितुं हारं स्वयं गुम्फितुं निर्यातुं दयितस्य पाणिकमलच्छायां विना वर्त्मनि।
निद्रातुं च विनाङ्कपालिशयनं द्रष्टुं च शून्या दिशः सख्या त्वत्प्रतिवीरनीरजमुखी साकूतमध्याप्यते॥ 34 ॥
घ्रातं तालफलाशया स्तनतटं बिम्बभ्रमेणाधरो दष्टः पाकविदीर्णदाडिमधिया लीढाः स्फुरन्तो रदाः।
भ्राम्यन्ती भ्रमनिस्पृहानुविपिनं त्वद्वैरिसीमन्तिनी निद्राणां मुहुराहता मुहुरपि क्षिप्ता च शाखामृगैः॥ 35 ॥
त्वप्रत्य2र्थिवसुन्धरेशतरुणीः 3संत्रासतः सत्वरं यान्तीर्वीर विलुण्ठितुं सरभसं याताः किराता वने।
तिष्ठन्ति स्ति4मिताः प्ररूढपुलकास्ते विस्तृतोपक्रमास्तासामुत्तरलैः5 स्तनैरतितरां लोलैरपाङ्गैरपि॥ 36 ॥

एतस्मिन्विजने वनेऽत6नुतरुच्छन्नावकाशे सुखं तिष्ठामीति तव द्विषामधिपतिर्यावद्विधत्ते मतिम्।
तावत्तत्र निपातितं भुवि भवन्नामाङ्कसेलाहतं1 दृष्ट्वा केसरिणः 2करङ्क3मसमत्रासो मुहुर्मूर्छति॥ 37 ॥

का त्वं पुत्रि नरेन्द्र लुब्धकवधूर्हस्ते किमेतत्पलं4 क्षामं किं सहजं ब्रवीमि नृपते यद्यस्ति ते कौतुकम्।
गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न तृणं चरन्ति हरिणास्तेनामिषं दुर्बलम्॥ 38 ॥

स्वप्नेऽपि क्षितिपावतंस भवतो भीत्या व्रजन्ती वनं निर्मग्ना प्रतिपक्षवैरिरमणी कल्लोलिनीपाथसि।
उत्क्षिप्ताननमुन्नतभ्रुचरणव्यासक्तमुक्ताफलं भूयः स्फारिवबाहुवल्लिशयनादुद्भ्रान्तमुत्तिष्ठति॥ 39 ॥
तादृग्दण्डविवर्तनर्तितममी चक्रादपक्रामिताः क्वापि क्वापि च कण्टकैरुपगता रेखोपरेखाभ्रमम्।
यस्य प्रौढतरप्रतापदहनज्वालाभिरन्ते दिशामापाके निपतन्ति पार्थिवघटाः शीर्यन्ति वीर्यन्ति च॥ 40 ॥
आगच्छागच्छ सज्जं गुरु वरतुरगं सन्निधेहि द्रुतं मे खड्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्गप्रविष्टम्।
सम्रम्भोन्निद्रितानां क्षितिभृति गहनेऽन्योन्यमेवं प्रतीच्छन्वादः स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत्॥ 41 ॥
यातीतः पान्थ पन्था व्रजति ननु कथं स्थावरं वर्त्म मुग्धे मार्गं पृच्छामि पृच्छ स्थितमिदमिह ते विस्मितं वीक्ष्य नेत्रे।
अध्वानं ब्रूह्यपेतध्वनि भवति वचश्चित्रमुद्दामनेत्रा दृश्यन्ते दावमूढाः पथि पथिकविटैस्त्वद्द्विषां नाथ नार्यः॥ 42 ॥
आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्त्रे लुप्तायां मेखलायां कनकमणितुलाकोटियुग्मे गृहीते।
शोणं बिम्बौष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन्गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति॥ 43 ॥
प्राप्तास्त्रासात्पिपासातिशयमुपगताः पातुमारण्यमम्भो युष्मद्विद्वेषियोषाः श्वसितसमुदयैस्तत्तदीयैरशोषि।
एतत्सम्वीक्ष्य मूर्च्छानिपतिततनवो नैव जीवेयुरेताश्चिन्तोपेताः शबर्यो निजनयनजलैः पल्वलं 5पूरयेयुः॥ 44 ॥

वीर त्वद्वैरिदारा गहनगिरिगुहागह्वरान्तस्तमिस्रं त्वत्त्रासाद्गुह्यवासा दरकलितहृदो यद्यदेव प्रपन्नाः।
तत्तज्ज्योत्स्नायमानं धरणिपरिवृढ प्रेक्ष्य युष्मद्यशोभिः सद्यो मोहान्धकारानुसरणशरणा वासरान्वाहयन्ति॥ 45 ॥
एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थितोन्निद्रचन्द्रा।
आक्रन्दद्भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्बप्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्न्यश्वसीच्च॥ 46 ॥
धूलीधाराभिरन्धास्तदनु बधिरतामागताः स्फारभेरीभूयोझाङ्काररावैर1मृतकरकुलापीड यत्सैन्ययाने।
धावन्तो विन्ध्यभूभृद्वनघनकुहरे कण्टकाकृष्टकेशास्त्रायध्वं मुञ्चतेति प्रतिहतविकला वैरिणः सङ्गिरन्ते॥ 47 ॥


  1. वृक्षयुक्तमरण्यम्. ↩︎ ↩︎ ↩︎ ↩︎

  2. अलकेन युक्तमाननं यस्याः. ↩︎ ↩︎ ↩︎

  3. पद्भ्यां गतिर्यस्याः. ↩︎ ↩︎ ↩︎

  4. व्याप्तानि. ↩︎ ↩︎ ↩︎

  5. मृगम्. ↩︎ ↩︎ ↩︎

  6. महद्भिः. ↩︎