तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः।
इति शुश्रुविरे 1विष्वगुद्भटाः सुभटोक्तयः॥ 1 ॥
पत्तिः पत्तिमभीयाय रणाय रथिनं रथी।
तुरङ्गस्थं तुरङ्गस्थो दन्तिस्थं दन्तिनि स्थितः॥ 2 ॥
सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाङ्किते।
आसीत्कवचविच्छेदो वीराणां मिलतां मिथः॥ 3 ॥
निर्दयं खड्गभिन्नेभ्यः कवचेभ्यः समुच्छ्रितैः।
आसन्व्योमदिशस्तूलैः पलितैरिव पाण्डुराः॥ 4 ॥
खड्गा रुधिरसंलिप्ताश्चण्डाम्शुकरभासुराः।
इतस्ततोऽपि वीराणां वैद्युतं वैभवं दधुः॥ 5 ॥
गृहीताः पाणिभिर्वीरैर्विकोशाः खड्गराजयः।
कान्तिजालच्छलादाजौ व्यहसन्समदा इव॥ 6 ॥
खड्गाः शोणितसन्दिग्धा नृत्यन्तो वीरपाणिषु।
रजोघने रणेऽनन्ते विद्युतां विभ्रमं दधुः॥ 7 ॥
शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युतान्यधुः।
आहवक्षेत्रमभ्युप्तकीर्तिबीजोत्करश्रियम्॥ 8 ॥
वीराणां विषमैर्घोषैर्विद्रुता वारणा रणे।
शास्यमाना अपि त्रासाद्भेजुर्धूताङ्कुशा दिशः॥ 9 ॥
रणे बाणगणैर्भिन्ना भ्रमन्तो भिन्नयोधिनः।
निममज्जुर्गलद्रक्तनिमग्नासु महागजाः॥ 10 ॥
खड्गनिर्लूनमूर्धानो निपतन्तोऽपि वाजिनः।
प्रथमं पातयामासुरसिना दारितानरीन्॥ 11 ॥
वीराणां शस्त्रभिन्नानां शिरांसि निपतन्त्यपि।
अधावन्दन्तदष्टौष्ठभीषणान्यरिषु क्रुधा॥ 12 ॥
शिरांसि वरयोधानामर्धचन्द्रहृतान्यपि।
आददाना भृशं पादैः श्येना व्यानशिरे दिशः॥ 13 ॥
उत्क्षिप्ता अपि हस्तीन्द्रैः कोपनैः पत्तयः करैः।
ते रिपूनहनन्खड्गपातैः स्वस्य पुरः प्रभोः॥ 14 ॥
उत्क्षिप्य करिभिर्दूरं मुक्तानां योधिनां दिवि।
प्रापि जीवात्मभिर्दिव्याङ्गनाकण्ठपरिग्रहः॥ 15 ॥
क्रुद्धस्य दन्तिनः पत्तिर्जिघृक्षोरसिना करम्।
निर्भिद्य दन्तमुसलान्यारुरोह जिघृक्षया॥ 16 ॥
खड्गेनामूलतो हत्वा दन्तिनोऽङ्घ्रिचतुष्टयम्।
प्रपतिष्णोः प्रविष्टोऽपि पदातिर्निरगाद्द्रुतम्॥ 17 ॥
करेण करिणा वीरः सुगृहीतोऽपि कोपिना।
असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः॥ 18 ॥
तुरङ्गी तुरगारूढं 1प्रासेनाहत्य वक्षसि।
पततस्तस्य नाज्ञासीत्प्रासघातं स्वके हृदि॥ 19 ॥
तुरङ्गसादिनं शस्त्रहृतप्राणं गतं भुवि।
आन्त्राढ्योऽपि महावाजी नात्रस्तनयनोऽत्यजत्॥ 20 ॥
द्विषा प्रासहृतप्राणो वाजिपृष्ठदृढासनः।
हस्तोद्धृतमहाप्रासो भटो जीवन्निवाभ्रमत्॥ 21 ॥
खड्गेन शितधारेण भिन्नोऽपि रिपुणाश्वगः।
नामूर्च्छत्कोपतो हन्तुमियेष च पतन्नपि॥ 22 ॥
रथिनो रथिभिर्बाणैर्हृतप्राणा दृढासनाः।
कृतकार्मुकसन्धानाः सप्राणा इव मेनिरे॥ 23 ॥
मिथोऽर्धचन्द्रनिर्लूनमूर्धानौ रुषितौ रुषा।
खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम्॥ 24 ॥
पत्तिः पदातिं रथिनं रथेशस्तुरङ्गसादी तुरगाधिरूढम्।
यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम्॥ 25 ॥
उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः।
विस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यम्॥ 26 ॥
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः।
स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः॥ 27 ॥
आवृण्वतो लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य।
शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः॥ 28 ॥
स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे॥ 29 ॥
आधोरणानां गजसन्निपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः।
हृतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः॥ 30 ॥
तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः।
उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्नाः करशीकरेण॥ 31 ॥
शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव।
रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः॥ 32 ॥
केचिद्गदाः केऽपि सचापबाणानन्ये कृपाणीमपरे च शूलम्।
शक्त्यृष्टिमन्ये मुशलं परे च प्रोत्तानहस्ताः परिनर्तयन्ति॥ 33 ॥
सरोषयुद्धाङ्गनमध्यधावन्मत्तद्विपानामधिकोत्सुकानाम्।
पादाभिघाताभिहताः पतन्ति रथाश्च योधाश्च तुरङ्गमाश्च॥ 34 ॥
रम्भातरूनुद्धतवातपूरा यथा तथा वारणयूथनाथाः।
सङ्ग्रामभूमौ विनिपातयन्ति रथांश्च योधांश्च तुरङ्गमांश्च॥ 35 ॥
परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव।
अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्सरःप्रार्थितयोर्विवादः॥ 36 ॥
महास्वनः सैन्यविमर्दसम्भवः कर्णान्तमूलंकषतामुपेयिवान्।
पयोनिधेः क्षुब्धतरस्य मन्थनो बभूव भूम्ना भुवनोदरम्भरिः॥ 37 ॥
महागजानां गुरुबृंहितैः शतैः सुहेषितैर्घोरतरैश्च वाजिनाम्।
घनै रथानां चलचण्डचीत्कृतैस्तिरोहितोऽभूत्पटहस्य निःस्वनः॥ 38 ॥
घनैर्विलोक्य स्थगितार्कमण्डलैश्चमूरजोभिर्निचितं नभस्तलम्।
अयायि हंसैरभिमानसं घनभ्रमेण सानन्दमनर्ति केकिभिः॥ 39 ॥
विलोक्य धूलीपटलैर्भृशं भृतं द्यावापृथिव्योरलमन्तरं महत्।
किमूर्ध्वतोऽधः किमधस्त ऊर्ध्वतो रजोऽभ्युपैतीति जनैरतर्क्यत॥ 40 ॥
नोर्ध्वं न चाधो न पुरो न पृष्ठतो न पार्श्वतोऽभूत्खलु चक्षुषो गतिः।
सूच्यग्रभेद्यैः पृतनारजोभरैः सुनिर्भरं प्राणिगणस्य सर्वतः॥ 41 ॥
उद्दामदानद्विपबृंहितैः शतैर्नितान्तमुत्तुङ्गतुरङ्गहेषितैः।
चलद्ध्वजस्यन्दननेमिनिःस्वनैरभून्निरुच्छ्वासमथाकुलं नभः॥ 42 ॥
महागजानां गुरुभिस्तु गर्जितैर्विलोलघण्टारणितै रणोज्ज्वलैः।
वीरप्रभेदैः प्रमदप्रमेदुरैर्वाचालतामादधिरेतरां दिशः॥ 43 ॥
दन्तीन्द्रदानाम्बुधिवारिवीचिभिः सद्योऽपि नद्यो बहु ताः पुपूरिरे।
धरारजोभिस्तुरगक्षतैर्भृतं वाः पङ्कतामेत्य रजस्वलीकृतम्॥ 44 ॥
निम्नप्रदेशा स्थलतामुपागमन्निम्नत्वमुच्चैरपि सर्वतः स्थलम्।
तुरङ्गमाणां व्रजतां खुरैः क्षिती रथैर्गजेन्द्रैः परितः समीकृता॥ 45 ॥
नभोदिगन्तप्रतिघोषभीषणैर्हमामहीभृत्तटदारणोल्बणैः।
पयोधिनिर्धूननकेलिभिर्जगद्बभूव बेरीस्वनितैः समाकुलम्॥ 45 ॥
नभोदिगन्तप्रतिघोषभीषणैर्महामहीभृत्तटदारणोल्बणैः।
पयोधिनिर्धूननकेलिभिर्जगद्बभूव भेरीस्वनितैः समाकुलम्॥ 46 ॥
इतस्ततो वातविधूतचञ्चलैरारोधिकाशागमनैर्ध्वजांशुकैः।
लघुक्वणत्काञ्चनकिंकिणीकुलैरमज्जि धूलीजलधौ नभोगतैः॥ 47 ॥
घण्टारवै रौद्रतरैर्निरन्तरैर्विसृत्वरैर्गर्जरवैः सुभैरवैः।
मदद्विपानां प्रथयांबभूविरे न वाहिनीनां पटहस्य निःस्वनाः॥ 48 ॥
करालवाचालमुखैश्चमूरवैः स्रस्ताम्बरा वीक्ष्य रजस्वला दिशः।
तिरोबभूवे गगने दिनेश्वरो रजोऽन्धकारे परितः कुतोऽप्यसौ॥ 49 ॥
आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गना व्योमरजोभिदूषिता।
भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं गुरुमत्सरादिव॥ 50 ॥
गुरुसमीरसमीरितभूधरा इव गजा गगनं विजगाहिरे।
गुरुतरा बहुवारिभराद्धना भुवमतीव नमन्त इवाभवन्॥ 51 ॥
सञ्जग्माते तावपायानपेक्षौ सेनाम्भोधी धीरनादौ रयेण।
पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम्॥ 52 ॥
पत्तिः पत्तिं 1वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्तम्।
इत्थं सेना 2वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे॥ 53 ॥
रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां ह्रेषया च।
व्योमव्यापी सन्ततं दुन्दुभीनामव्यक्तोऽभूदीशितेव प्रणादः॥ 54 ॥
रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम्।
दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भ्रेजिरे खड्गलेखाः॥ 55 ॥
उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति।
आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि॥ 56 ॥
घण्टानादो निःस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि।
आमेत्येवं प्रत्यवोचन्गजानामुत्साहार्थं वाचमाधोरणस्य॥ 57 ॥
रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ।
हित्वा 3हेतीर्मल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम्॥ 58 ॥
शुद्धाः सङ्गं न क्वचित्प्राप्तवन्तो दूरान्मुक्ताः शीघ्रतां दर्शयन्तः।
अन्तःसेनं विद्विषामाविशन्तो 4युक्तं चक्रुः सायका 5वाजितायाः॥ 59 ॥
आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च।
हेलालोला वर्त्म गत्वातिमर्त्यं द्यामा6रोहन्मानभाजः सुखेन॥ 60 ॥
रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तर्मापितैः स्थावराणि।
केचिद्गुर्वीमेत्य संयन्नि7षद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि॥ 61 ॥
वीर्योत्साहश्लाघि कृत्वा8वदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम्।
अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्तिस्म नग्नाः9॥ 62 ॥
मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणायं व्यक्तमासीद्विशेषः।
आत्मीयास्ते ये 10पराञ्चः पुरस्तादभ्यावर्ती सम्मुखो यः परोऽसौ॥ 63 ॥
सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणावबद्धा।
नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी॥ 64 ॥
नीते भेदं धौतदाराभिघातादम्भोदाभे शात्रवेणापरस्य।
11सासृग्राजिस्तीक्ष्ण12मार्गस्य मार्गो विद्युद्दीप्तः 13कङ्कटे लक्ष्यते स्म॥ 65 ॥
आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः।
प्राप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः॥ 66 ॥
भित्त्वा घोणा1माय2सेनाधिवक्षः 3स्थूरीपृष्ठो 4गार्ध्रपक्षेण विद्धः।
शिक्षाहेतोर्गाढरज्ज्वेव बुद्धो हर्तुं वक्त्रं नाशकद्दुर्मुखोऽपि॥ 67 ॥
विष्वद्री5चीर्विक्षिपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम्।
बभ्रामैको बन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं 6गोर्वराहः॥ 68 ॥
यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य।
सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः॥ 69 ॥
प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदोऽपि।
क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षाञ्चक्रे नैव किञ्चिन्मदान्धः॥ 70 ॥
अन्योन्येषां 7पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नबालाः।
उन्मूर्धानः सन्निपत्यापरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः॥ 71 ॥
द्राघीयांसः संहताः स्थेमभाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः।
दन्ता दन्तैराहताः 8सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः॥ 72 ॥
मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदच्छायचञ्चच्छिखाग्रः।
लग्नोऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः॥ 73 ॥
ओषा9मासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः।
यौगान्तैर्वा10 वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला॥ 74 ॥
सान्द्राम्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम्।
दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव॥ 75 ॥
उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः11 कुञ्जरं शात्रवीयम्।
शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य॥ 76 ॥
व्याप्तं लोकैर्दुःखलभ्यापसारं सम्रम्भित्वादेत्य धीरोमहीयः।
सेनामध्यं गाहते वारणः स्म ब्रह्मेव प्रागादिदेवोदरान्तः॥ 77 ॥
भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः।
निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे॥ 78 ॥
आताम्राभारोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन।
निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा॥ 79 ॥
कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम्।
खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः॥ 80 ॥
दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव।
भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष॥ 81 ॥
12आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोऽबाङ्मुखस्य।
लब्धायामं1 दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम्॥ 82 ॥
हस्तेनाग्रे वीतभीतिं गृहीत्वा कञ्चिद्व्यालः2 क्षिप्तवानूर्ध्वमुच्चैः।
आसीनानां व्योम्नि तस्यैव हेतोर्दिव्यस्त्रीणामर्पयामास नूनम्॥ 83 ॥
आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण।
3सास्थिस्वानं दारुवद्दारुणात्मा कञ्चिन्मध्यात्पाटयामास दन्ती॥ 84 ॥
उत्प्लुत्यारादर्ध4चन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते।
सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः॥ 85 ॥
प्रत्यावृत्तं भग्नभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कञ्चित्।
एकौधेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धा मान्यैः साधुवादैर्द्वयेऽपि॥ 86 ॥
बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैर्ग्रहीतुम्।
सम्रब्धानां भ्राम्यताभाजिभूमौ 5वारी 6वारैः सस्मरे वारणानाम्॥ 87 ॥
कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य।
उच्छश्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ॥ 88 ॥
लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः।
त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः॥ 89 ॥
वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम।
त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था॥ 90 ॥
त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुः।
प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वैव कञ्चित्पुरन्ध्री॥ 91 ॥
स्वर्गे वासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या।
कश्चिद्भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या॥ 92 ॥
गत्वा नूनं वैबुधं सद्म रम्यं मूर्च्छाभाजामाजगामान्तरात्मा।
भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते॥ 93 ॥
कश्चिच्छस्त्रापातमूढोऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय।
व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः॥ 94 ॥
भिन्नोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव।
अन्योन्यावष्टम्भसामर्थ्ययोगादूर्ध्वावेव स्वर्गतावप्यभूताम्॥ 95 ॥
भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि।
आहाराय प्रेतराजस्य रौप्यस्थालीनीव स्थापितानि स्म भान्ति॥ 96 ॥
रेजुर्भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम्।
हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पत्तिरक्तासवस्य॥ 97 ॥
निम्नेष्वोघीभूतमस्त्रक्षतानामस्रं भूमौ यच्चकासाञ्चकार।
रागार्थं तत्किं नु कौसुम्भमम्भः 1सम्व्यानानामन्तकान्तःपुरस्य॥ 98 ॥
रामेण त्रिः-सप्तकृत्वो ह्रदानां चित्रं चक्रे पञ्चकं क्षत्रियास्रैः।
रक्ताम्भोभिस्तत्क्षणादेव तस्मिन्संख्येऽसंख्याः प्रावहन्द्वी2पवत्यः॥ 99 ॥
3सन्दानान्तादस्त्रिभिः शिक्षितास्त्रैराविश्याधः शातशस्त्रावलूनाः।
कूर्मौपम्यं व्यक्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयोऽसृङ्मयीणाम्॥ 100 ॥
पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः।
4सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषूच्चैस्तरद्भिः॥ 101 ॥
5उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रमुः पत्त्रवाहाः।
मूर्ताः प्राणा नूनमद्याप्यवेक्षामासुः कायं त्याजिता दारुणास्त्रैः॥ 102 ॥
आतन्वद्भिर्दिक्षु पत्त्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः।
आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्त्रि6पूगैरपायि॥ 103 ॥
ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम्।
ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा 7ववाशे॥ 104 ॥
नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्ष्यस्य ज्वालिना वाशितेन।
योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः॥ 105 ॥
ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम्।
स्वादुंकारं कालखण्डोपदंशं क्रोष्टा 8डिम्बं 9व्यष्वणद्व्यस्वनच्च॥ 106 ॥
क्रव्यात्पूगैः 10पुष्कराण्या11नकानां 12प्रत्याशाभिर्मेदसो दारितानि।
13आभीलानि प्राणिनः 14प्रत्यवश्यन्कालो नूनं व्याददावाननानि॥ 107 ॥
कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां 15प्रतीकैः।
बह्वारम्भैरर्थसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला॥ 108 ॥
त्वत्पत्त्रमुक्तविशिखैरशनिप्रकाशैरामूललूननवकेतककान्तदन्ताः।
त्रासावसन्नमदधारकपोलभागाः सम्पादयन्ति करिणः करिणीभ्रमं नः॥ 109 ॥
मिलितमिहिरभासं मौलिमेतस्य दृष्ट्वा परवरतनुपादालक्तकं तर्कयन्त्या।
त्वदरिधरणिजानिर्भानुबिम्बेन गच्छन्सुरनगरमृगाक्ष्या वीक्ष्यते साभ्यसूयम्॥ 110 ॥
भवत्तुरगनिष्ठुरक्षुरदृढव्रणैराचिता क्षणात्समरविच्युतप्रतिनृपालचेलाञ्चिता।
इयं रणधरा भवद्द्विरददानधाराजलैः सिमु व्रणतलेऽर्पितं वसनपट्टमासिञ्चति॥ 111 ॥
कृपाणकिरणानलं रुधिरनीरपूरच्छटाजटाव्रततिलसंकुलं भटतिमिङ्गिलैराकुलम्।
प्रमथ्य समरार्णवं वरमकर्षि लक्ष्मीस्त्वया विधाय मदमन्थरं मथनमन्दरं सिन्धुरम्॥ 112 ॥
झणज्झणितकङ्कणक्वणितकिङ्किणीकं धनुर्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम्।
वितत्य किरतोः शरानविरतस्फुरच्चूडयोर्विचित्रमभिवर्धते भुवनभीममायोधनम्॥ 113 ॥
प्रतीक्ष्यन्ते वीराः प्रतिमुखमुरोभिः सरभसं विपक्षाणां हेतीः प्रतिनियतधैर्यानुभवतः।
विदीर्णत्वग्भारादलितपिशिताच्छिन्नधमनिप्रकाण्डास्थिस्नायुस्फुटतरविलक्ष्यान्त्रनिवहाः॥ 114 ॥
शितैर्बाणैरेके मृधभुवि परे तीक्ष्णनखरैः क्रियासातत्येनाप्यहमहमिकाक्रान्तमनसः।
मिथोविध्यन्ति स्म प्रबलतमसम्मर्दविदलत्क्षितिक्षोदःपिष्टातकसुरभिवक्षस्तटभृतः॥ 115 ॥
भल्लैर्भिन्नाः प्रतिनृपतयः शङ्खनादानुदारञ्श्रुत्वा राजन्पुनरपि भुजादण्डकण्डूतिभाजः।
आलिङ्गन्त्यास्त्रिदशसुदृशो भ्रूलतां वीक्ष्य भुग्नां चापभ्रान्त्या चपलमनसो हस्तमावर्तयन्ति॥ 116 ॥
मुञ्चद्भिर्मदवारि वारणगणैर्मेघायितं कार्मुकैरेतैः शक्रशरासनायितमधश्छत्त्रैः शिलीन्ध्रायितम्।
खद्योतायितमस्त्रघट्टनसमुद्भूतस्फुलिङ्गैः स्फुरन्नाराचैश्चपलायितं रणभुवा सैन्यैर्नभस्यायितम्॥ 117 ॥
भुग्नभ्रूयुगलैः क्रुधा समधिकस्फारारुणाक्षैः क्षणात्स्वेदाम्भःपटलप्रकृष्टतिलकैर्दष्टाधरोष्ठैरपि।
दृष्टश्मश्रुभिरुत्पतद्भिरभितः सङ्कीर्णमालक्ष्यते त्वद्धस्तास्त्रनिकृत्तवैरिभटसुश्रेणीशिरोभिर्वियत्॥ 118 ॥
क्ष्वेडाभिः ककुभः पृषत्कनिकरैर्व्योम द्विधाखण्डितैर्देहैर्विद्विषतां धरातलमपि प्रच्छादयन्तौ चिरम्।
कुर्वातेऽश्रुजलाविलेक्षणपथान्येतावकाण्डोच्चरद्रोमाञ्चानि सवेपथून्यपि मुहुर्वर्ष्माणि नः पश्यताम्॥ 119 ॥
आगुञ्जद्गिरिकुञ्जकुञ्जरघटाविस्तीर्णकर्णज्वरं ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुज्जृम्भयन्।
वेल्लद्भैरवभूरिरुण्डनिकरैर्वीरो विधत्ते भुवस्तृप्यत्कालकरालवक्त्रविघसव्याकीर्यमाणा इव॥ 120 ॥
नो चापाकलनं न पत्त्रिधरणं न ज्यासमाकर्षणं नो बाहुस्फुरणं न बाणगमनं संलक्ष्यते ते रणे।
किं तु प्रौढकरीन्द्रकुम्भविगलन्मुक्तागणप्रस्फुरत्प्रत्यर्थिक्षितिपालमौलिमणिभिर्विद्योतते भूरियम्॥ 121 ॥
वीराणां रुण्डतुण्डप्रविघटनपटुस्फारदोर्दण्डखण्डव्यापारक्षिप्यमाणप्रतिभटविकटाटोपवर्ष्मप्ररूढः।
कूटः कोऽप्येष युद्धाजिरभुवि जरठश्चित्रकूटानुकारी लीयन्ते यत्र शत्रुप्रपतनविवशाः कोटिशः शूरकीटाः॥ 122 ॥
प्रासप्रोतप्रवीरोल्बणरुधिरपरामृष्टबुक्काजिघत्साधावद्गृध्राधिराजाप्रतिमतनुरुहच्छायया वारितोष्णाः।
विश्राम्यन्ति क्षणार्धं प्रधनपरिसरेष्वेव मुक्ताभियोगा वीराः शस्त्रप्रहारव्रणभररुधिरोद्गारदिग्धाखिलाङ्गाः॥ 123 ॥
जीवाकृष्टिं स चक्रे मृधभुवि धनुषः शत्रुरासीद्गतासुर्लक्षाप्तिर्मार्गणानामभवदरिबले तद्यशस्तेन लब्धम्।
मुक्ता तेन क्षमेति त्वरितमरिगणैरुत्तमाङ्गैः प्रतिष्ठा पञ्चत्वं द्वेषिसैन्ये स्थितमवनिपतिर्नाप सङ्ख्यान्तरं सः॥ 124 ॥
युष्मद्दोर्दण्डमण्डल्यवनमितरणच्चण्डकोदण्डदण्डोन्मुक्तेषुच्छिन्नमूर्छत्प्रतिनृपतिभुजाखण्डमुण्डावकीर्णा।
गायन्नृत्यत्प्रवल्गद्रजनिचरवधूदत्ततालैः करालैर्वेतालैरट्टहासप्रकटितदशनैर्युद्धभूर्भाति भीमा॥ 125 ॥