अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति।
बलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरतः क्षमारजः॥ 1 ॥
विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरङ्गमैरुपरि निरुद्धनिर्गमाः।
चलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः॥ 2 ॥
गरीयसः प्रचुरमुखस्य रागिणो रजोऽभवद्व्यवहितसत्त्वमुत्कटम्।
सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुमिच्छतः॥ 3 ॥
पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम्।
इति ध्रुवं व्यलघिषुरात्तभीतयः खमुच्चकैर1नलसखस्य केतवः॥ 4 ॥
क्वचिल्लसद्धननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः।
क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ॥ 5 ॥
महीयसां महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि।
विसारितामजिहत कोकिलावलीमलीमसां जलदमदाम्बुराजयः॥ 6 ॥
शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे 2मृषत युवान एव मा।
बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः॥ 7 ॥
सुसंहतैर्दधदपि घाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः।
यतः क्षितेरवयवसम्पदोऽणवस्त्विषांनिधेरपि वपुरावरीषत॥ 8 ॥
द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजोवगुण्ठितम्।
युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ॥ 9 ॥
समुल्लसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः।
दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः॥ 10 ॥
निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम्।
रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत॥ 11 ॥
विषङ्गिणि प्रतिपदमापिबत्यपो हताचिरद्युतिनि समीरलक्ष्मणि।
शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुरपेतवृष्टयः॥ 12 ॥
नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे।
चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः॥ 13 ॥
गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा।
नभस्तलं बहुलतरेण रेणुना ततोऽगमत्त्रिजगदिवैकतां स्फुटम्॥ 14 ॥
समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः।
रहस्त्रपाविधुरवधूरतार्थिनां नभःसदामुपकरणीयतां ययुः॥ 15 ॥
गते मुखच्छदपटसादृशीं दृशः पथस्तिरोदधति घने रजस्यपि।
मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा॥ 16 ॥
मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः क्षमितरजश्चयानघः।
उपर्यवस्थितघनपांशुमण्डलानलोकयत्ततपटमण्डपानिव॥ 17 ॥
तूणीरबन्धपरिणद्धभुजान्तरालमाकर्णलम्बिशिखिपिच्छकलापधारि।
कोदण्डपाणि निनदत्प्रतिरोधकानामापातदुष्प्रसहमाविरभूदनीकम्॥ 18 ॥
आदावेव गजेन्द्रमौलिविलसद्दण्डा पताकावली पश्चाद्वारणराजधोरणिरतिप्रोद्दामयोधाश्रिता।
उद्दण्डध्वजलाञ्छिताप्यथ घनीभूता रथानां तती तत्पश्चात्तुरगावली विजयते योधैः समं सर्वतः॥ 19 ॥
योधैरेव वशीकृताः कथमपि प्रोद्दामरोषान्धिता गाढध्वान्तधराधरा इव रणक्षोणीं समालम्बिताः।
ईषन्मीलितघूर्णितं प्रतिदिशं प्रक्षिप्तनेत्राञ्चला मन्दान्दोलितमौलयो मदजलैराभान्ति दन्तावलाः॥ 20 ॥
आरूढक्षितिपालभालविगलत्स्वेदाम्बुसेकोद्धता भेरीझाङ्कृतिचापटंकृतिचमत्कारोल्लसन्मानसा।
क्षुभ्यत्क्षोणितलं स्फुरत्खरपुटं चञ्चच्चलत्केशरं मन्दभ्रान्तविलोचनं प्रतिदिशं नृत्यन्ति वाजिव्रजाः॥ 21 ॥
अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतस्तन्वन्तः कनकावलीभिरुपमां सौदामिनीदामभिः।
वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांशून्गजाम्भोमुचः॥ 22 ॥
हेषाघोषैर्हरीणां जितघननिनदैर्बृंहितैः कुञ्जराणां ज्याघातोत्थैर्निनादैः पटुपटहरवैर्मर्दलोद्दामशब्दैः।
प्राप्तैः कर्णोपकण्ठं मदगजनिवहस्कन्धघण्टाप्रणादैः शृङ्गाराय त्वरन्ते त्रिदशमृगदृशो वीरवर्गानुरक्ताः॥ 23 ॥
सज्जन्तां कुम्भभित्तिच्युतमदमदिरामत्तभृङ्गाः करीन्द्रा युज्यन्तां स्यन्दनेषु प्रसभजितमरुच्चण्डवेगास्तुरङ्गाः।
कुन्तैर्नीलोत्पलानां वनमिव ककुभामन्तराले सृजन्तः पादाताः सञ्चरन्तु प्रसभमसिलसत्पाणयः पत्तयोऽपि॥ 24 ॥