०३ गवाक्षविलोकनम्

आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः।
बद्धुं न सम्भावित एव तावत्करेण रुद्धोऽपि च केशपाशः॥ 32 ॥
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान॥ 33 ॥
विलोचनं दक्षिणमञ्जनेन सम्भाव्य तद्वञ्चितवामनेत्रा।
तथैव वातायनसन्निकर्षं ययौ शलाकामपरा वहन्ती॥ 34 ॥
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम्।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः॥ 35 ॥
अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती।
कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा॥ 36 ॥
स्तनं धयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती।
सम्प्रस्नुतायां पदवीं स्तनाभ्यां सिषेच काचित्पयसा गवाक्षम्॥ 37 ॥
अभिवीक्ष्य 1सामिकृतमण्डनं 2यतीः कररुद्धनीविगलदंशुकाः स्त्रियः।
दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः॥ 38 ॥

रभसेन हारपददत्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः।
परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः॥ 39 ॥
व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन।
द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धताम्॥ 40 ॥
व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः।
भवनानि तुङ्गतपनीयसंक्रमक्रमणक्कणत्कनकनूपुराः स्त्रियः॥ 41 ॥
करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्य लाजकुसुमैरवाकिरन्।
अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः॥ 42 ॥
नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना।
स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्कुरमजृम्भतापरा॥ 43 ॥


  1. अर्धम्. ↩︎

  2. गच्छन्तीः. ↩︎