०२ दुन्दुभिः

गङ्गाम्भसि 1सुरत्राण तव निःसाणनिः-स्वनः।
स्नातीवारिवधूवर्गगर्भपातनपातकी॥ 29 ॥

ब्रह्माण्डं प्रविखण्ड्य भूधरगुहासुप्तान्हरीन्बोधयन्गर्भान्वैरिवधूव्रजस्य नृपते निष्पात्य हा पातकी।
कीलालं परिशोष्य च प्रतिभटानां तेजसा तेऽद्भुतं शोद्धुं विष्णुपदं स्पृशत्यधिपयोराशि प्लुतो दुन्दुभिः॥ 30 ॥
2पारीन्द्राणां धुरीणैरवनिधरगुहागर्ततः प्रोच्छलद्भिः स्वापभ्रंशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः।
त्वत्प्रस्थानान्तरुद्यत्प्रलयजलधरध्वानधिक्कारधीरो घ़ष्ट्रक्षीराम्बुतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः॥ 31 ॥


  1. ‘सुल्तान्’ इति पदस्य शोधनं सुरत्राण इति. ↩︎

  2. सिंहानाम्. ↩︎