प्रयाणे तव राजेन्द्र मुक्ता वैरिमृगीदृशाम्।
राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः॥ 1 ॥
दिङ्नारीणां स्पृशत्यर्को रजःसन्दूषिताम्बरम्।
प्रस्थाने नृपते सन्तोऽपथैर्यान्ति रजोवृताः॥ 2 ॥
त्वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलाम्।
न धत्ते शिरसा गङ्गां भूरिभारभिया हरः॥ 3 ॥
यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री।
आर्द्रव्रणाघिष्ठितपृष्ठपीठमकर्मठं कूर्मपतिं चकार॥ 4 ॥
अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि।
कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि॥ 5 ॥
यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूममञ्जिम्।
तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कतां विधौ॥ 6 ॥
त्वय्यागते किमिति वेपत एष सिन्धुस्त्वं 1सेतुमन्थकृदतः किमसौ बिभेति।
द्वीपान्तरेऽपि न हि तेऽस्त्यवशंवदोऽद्य त्वां राजपुङ्गव निषेवत एव लक्ष्मीः॥ 7 ॥
त्वयि प्रचलति प्रभो तुरगवल्गनासु स्फुरद्धरावलयधूलिभिः सकलमेव कीर्णं नभः।
दिवाकरहयावली निरवलम्बसञ्चारतः श्रमापनयनाय किं वसुमतीयमूर्ध्वं गता॥ 8 ॥
चोली चोलीं न तु कलयते गुर्जरा जर्जराङ्गी भूर्जाक्रान्तं विशति विपिनं मालवी सालवीथीम्।
नो सङ्गीतं रचयति मनागङ्ग वङ्गी कृशाङ्गी नाङ्गी रागं रहसि तनुते भूपते त्वत्प्रयाणे॥ 9 ॥
देव त्वद्विजयप्रयाणविलसत्सद्वाजिराजव्रजक्षुण्णक्ष्मातललीनपांशुपटलव्याप्तोऽनिमेषेक्षणः।
1सूत्रामा बहु मन्यते फणिपतिं पातालमूलस्थितं सोऽप्युद्दामकरीन्द्रदुर्धरभरक्लान्तः सहस्रेक्षणम्॥ 10 ॥
देवे दिग्विजयोद्यते धृतधनुः2प्रत्यर्थिसीमन्तिनीवैधव्यव्रतदायिनि प्रतिदिशं क्रुद्धे परिभ्राम्यति।
आस्तामन्यनितम्बिनी रतिरपि प्रायो न पौष्पं करे भर्तुर्धर्तु3मदान्मदान्धमधुपीनोलीनिचोलं धनुः॥ 11 ॥
देव त्वद्विजयोद्यमे 4हरिखुरव्रात5क्षतक्ष्मातलात्प्रोद्भूते रजसः परागपटले दिक्चक्रमाक्रामति।
अक्ष्णां 6पङ्क्तिशतानि 7निन्दति निजं हस्तद्वयं निन्दति8 स्वां 9निन्दत्यनिमेषतां परिपतद्बा10ष्पाम्बुधारो 11हरिः॥ 12 ॥
युष्मद्वाजिजिताजिराजिचरणक्षेपक्षतैर्मोहिनीं मङ्क्षु क्षोणिमवेक्ष्य सिञ्चति घनैर्भर्ता नदीनां जलैः।
आशामण्डलमुत्कटध्वजपटैर्वातं तनोति द्रुतं चञ्चच्चञ्चलरेणुरा12श्विनमिवानेतुं दिवं गच्छति॥ 13 ॥
धूर्ताधोरण देव वासवकरी पङ्केन लिप्तः कथं नीतः स्वर्गतरङ्गिणीजलमसौ तत्रास्ति पङ्कः कुतः।
सर्वाशाविजयोत्सवं प्रति कृतोद्योगे धराधीश्वरे स्फायन्ते करिकर्णतालपवनोद्भूताश्चमूरेणवः॥ 14 ॥
देव त्वद्गजवाजिपत्त्र1पटलप्रोद्भूतधूलीभरैराकाशं 2वसुधायते 3खरकरः सोमायते निष्प्रभः।
किं चाधो भरकुञ्चितः फणवतां नाथः स 4कूर्मायते कूर्मो भोग5पतीयते किमपरं 6रात्रीयते वासरः॥ 15 ॥
वेल्लत्पक्षतिराजहंसयुवतित्रुट्यन्मृणालावलिभ्राम्यत्षट्पदभूरिझाङ्कृतिपतच्चक्री7कृतक्रेङ्कृति।
पर्यस्यन्नवपद्मसंहति पतद्दिग्वर्तिवेगस्थिति प्रस्थानध्वजवातलोलमजनि स्वर्गापगायाः पयः॥ 16 ॥
सत्यं त्वं पुरुषोत्तमोऽसि नियतं तत्रापि रामो भवान्प्रस्थाने तव लज्जयेव नमति व्यक्तं यतो मेदिनी।
द्राक्पूर्वाचलपश्चिमाचलकुचावावृण्वती प्रोच्छलड्ढक्कारावचलत्पयोधिलहरीचेलाञ्चलैश्चञ्चलैः॥ 17 ॥
प्रस्थाने तव भूमिपाल वसुधा जाता रजोदोषला त्वद्द्विट्दारपयोधरोऽञ्जनवृतं वर्षत्यधोऽश्रूदकम्।
झञ्झाश्वासहिमापमौक्तिकगणान्वामाः किरन्ति द्विषस्तच्चोत्पात इति प्रतापदहने यस्यान्ति ते शत्रवः॥ 18 ॥
एतद्दत्तासिघातस्रवदसृगसुहृद्वं8शसान्द्रेन्धनैतद्दोरुद्दामप्रतापज्वलदनलमिलद्धूमभूमभ्रमाय।
एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीदेतन्नासी9रवाजिव्रजखुरजरजोराजिरा10जिस्थलीषु॥ 19 ॥
तत्तद्दिग्जैत्रयात्रोद्धु11रतुरगखुराग्रोद्धतैरन्धकारं निर्वाणारिप्रतापानलजमिव सृजत्येष राजा रजोभिः।
भूगोलच्छायमाया12मयग13णितविदुन्नैयकायो भिया14भूदेतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः॥ 20 ॥
गान्धारा गुप्तदारास्त्वयि चलति गलत् बाष्पधारा विहारा रागस्त्रासान्वगाराः क्षितिपकुलमणे गुर्जरा जर्जराशाः।
तैलङ्गास्त्यक्तलिङ्गास्त्रिभुवनतिलक क्लिश्यदङ्गाः कलिङ्गा मोरङ्गा मुक्तरङ्गाः सपदि समभवन्वीर गङ्गाविहङ्गाः॥ 21 ॥
काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मीरश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः।
भ्रेमुर्वात्या इवान्या प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवानामशिवमिति पुरोभावि नार्यः शशंसुः॥ 22 ॥
जाने युष्मत्प्रयाणे क्षितितिलक रजोयोगदोषादशेषा दिग्योषाः स्नान्ति सद्यस्त्वदरिनृपवधूनेत्रनीरापगासु।
सङ्गम्य त्वत्प्रतापैस्तदनु किमु दधुर्दोहनं देव तासां प्राची प्रातः प्रसूते यदियमुरुमहोऽखण्डमार्तण्डबिम्बम्॥ 23 ॥
घूर्णन्ते तूर्णमेतत्कुलधरणिभृतो दिग्द्विपा दिग्विदिक्षु क्षुभ्यन्ति क्षोभयन्ति क्षितिमतिमृदितो मर्मणा कूर्मराजः।
प्रस्थाने यस्य गर्जत्करटिघनघटासम्भ्रमन्यञ्चदुर्वीमुर्वी दुर्वीकरेन्द्रः कलयितुमुदितश्चायमार्तिं बिभर्ति॥ 24 ॥
नृत्यत्त्वद्वाजिराजिप्रसरखुरपुटप्रोद्धतैर्धूलिजालैरालोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते।
विश्रातिं कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः कोकाः क्रन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः॥ 25 ॥
इन्द्रः प्रक्षुब्धचित्तो दिशि दिशि सकलान्दिक्पतीन्सावधानान्कुर्वन्वज्राच्छपाणिः सुरवरवलितां देवसेनां निगृह्य।
स्वर्गद्वारे यदीयोद्धतबलनिहतप्रौढढक्कानिनादं श्रुत्वा तिष्ठन्प्रकम्पत्कुचकलशतटीकिन्नरीगीयमानः॥ 26 ॥
आजौ त्वद्वाजिराजिप्रखरखुरतरन्यासलीलाभिरुर्व्यां दीर्णायां देव निर्यन्नविरलमवनीपाल पातालवह्निः।
अश्नीयाद्विश्वमेव प्रतिनृपतिवधूनेत्रधाराम्बुधारावारा यद्येनमारादरिकुलदमनद्राङ्न निर्वापयेयुः॥ 27 ॥
-
यदि मम भर्ता कामो धनुर्धारयिष्यति तदायं राजा मद्भर्तारं धनुर्धरत्वाद्धनिष्यतीति भयात्स्वभर्त्रा धनुर्नाग्राहयदिति भावः. ↩︎ ↩︎
-
यतश्चैतावद्रजः समुच्छलितं येन तस्य सहस्रनेत्राणि तिरोहितानि बभूवुस्तेन यदि मम नेत्रसहस्रं नाभविष्यत्तदा चैतावद्रजोनिकरस्तत्र नापतिष्यदतो नेत्रसहस्रं मम किमर्थमभवदिति. ↩︎ ↩︎
-
सत्यपि नेत्रसहस्रे तत्तिरोधानाय यदि हस्तसहस्रमप्यभविष्यत्तदा हस्तैः सर्वनेत्राच्छादनं कर्तुं शक्यमतो मम पाणिद्वयं व्यर्थमेवेति. ↩︎ ↩︎
-
यतो मया देवत्वादनिमेषता पक्ष्मपाताभावः किमिति प्राप्तः यस्माच्चक्षुषां रजःपटलाक्रान्तत्वमभूद्यदि च मे नयनेष्वनिमेषता नाभविष्यत्तदा रजःपातोऽपि नाभविष्यदतः स्वामनिमेषतां निन्दतीति भावः. ↩︎ ↩︎
-
रजःकणसम्सर्गात्परिपतन्ती निर्गच्छन्ती नेत्रेभ्यो बाष्पाम्बुधाराश्रुजलप्रवाहो यस्य सः. ↩︎ ↩︎
-
गणितशास्त्रैकवेद्यः. ↩︎
-
ज्योतिःशास्त्रप्रमाणकं यद्राहोर्भूच्छायात्मकं तदेतत्कीर्तिचन्द्रभियेत्युत्प्रेक्षा. ↩︎